________________
कविधनपालकता शयनीयमालीजनं परिजनं च जातविस्मया, 'कञ्चिन्मया स्वप्नोऽयमनुभूयते, विभ्रमो वायमिन्यिाणाम् , इन्द्रजालं वा केनाप्युपदर्शितमेतत्' इति पुनः पुनश्चिन्तयन्ती चकितचकिता द्वारदेशमागमम् । एकपाविलम्बिनी च विलम्व्य तत्र क्षणमात्रमुत्सृज्य पर्यायेण
स्त्रैणसहज साध्वसमाधाय मनसि धैर्यम् , अग्रतः प्रत्यप्रविरचितस्य लम्बितविचित्ररत्नदाम्नो 5 देवाङ्गपटवितानकावगुण्ठितसकलक्षणस्य तत्क्षणानीतसमुद्रविद्रुमद्रुमदारनिर्मितोदारमकर
तोरणस्य द्वारदोलायमाननन्दनोद्यानतरुतरुणमणिप्रवालवन्दनमालस्य गगनमन्दाकिनीकनकारविन्दकृतनिरन्तरोपहारस्य, हसत इवावचूलहारैर्नृत्यत इव ध्वजांशुकैर्गायत इव भृङ्गाङ्गनारावैर्विलोकयत इव मणिप्रदीपैश्चम्बत इव मुखप्रतिबिम्बग्राहिभिः स्फटिकदर्पणैरा.
श्लिष्यत इव दूरप्रसारितकरैश्चामीकरस्तम्भैर्जनसमाज, सीम्नः समस्तरमणीयानां धाम्न10 त्रिभुवनाद्भुतानामतिमहावकाशकुक्षेर्माणिक्यमण्डपस्यैकदेशमनेकदिव्यनरनारीनिकुरम्बसंबा
धमध्यासितवती । सर्वतः प्रहिततरललोचना च तत्कालमङ्कुरितेन कौतुकेनैकदेशस्थितामार्यरूपधारिणीमेकामतिक्रान्तबहुवयसमङ्गनामुपगम्य सविनयमपृच्छम्-'आर्ये, क एष कमनीयताकदर्थितसकलपृथ्वीदेशप्रत्यादेश इव गीर्वाणभूमेरतिसेव्यसंनिवेशः प्रदेशः १ क
एते चित्ररत्नाभरणरमणीयाकल्पधारिणः कल्पतरव इव जङ्गमाः सौम्याकारवपुषः पुरुषाः ? 15 कश्च किंनामधेयोऽयमेषां सव्यवर्ती मर्त्यलोक इव जगतां मेरुरिव मेदिनीभृतां महात्मा
भूमिपतिः ?' इति पृष्टा च सा निश्चलनिहितदृष्टिरतिचिरमवलोक्य मन्मुख सकरुणमवादीत्-'वत्से, किमन्यदेशागता त्वम् १ अत्रत्या न भवसि येनैवमभिदधासि । श्रणु । निवेदयामि । एष भूषणं सर्वद्वीपानां पञ्चशैलो नाम दक्षिणस्य सलिलराशेरन्तरद्वीपः ।
इमेऽपि सत्त्वसाहसैकधनाः प्रसाधनाराधनविधिविधेयीकृतविविधविद्यासंपादिताद्भुतसिद्धयो 20 वैताढयगिरिनगराश्रया गगनचारिणः विद्याधराः । असावप्यमीषामधिपतिः प्रतापिनाम
ग्रणीधर्म इव मूर्तिमानार्तजनशरण्यः शासिता दुवृत्तानां निर्वृतिपुरं भीतानामद्भुतपरा. क्रमश्चक्रवर्तिर्विचित्रवीर्यो नाम ।
२२०) अथ सहसैव कनकवेत्रलतापाणिरेकः पुमानुदारगम्भीराकृतिरुपसृत्य तं विद्याधरपतिं व्यजिज्ञपत्-'देव, दीयतामितः क्षणं दृष्टिः । येयमभिनवप्रियगुमञ्जरी25 पिशङ्गावदातदेहा कनककमलचापयष्टिरिव हरहुताशनप्लुष्टसकलमलकलङ्का कुसुमकार्मुकस्य, निजत्विषा तिरस्करोतीव मणिप्रदीपान , इयमखिलावनिपालतिलकस्य यौवनोपचयपीनपाञ्चालललनाकुचोन्नाहलालितपृथूरस्थलस्य कुशस्थलपतेः प्रतापशीलस्य कुसुमावली नाम । इयं च मार्जितमणिप्रदीपदीप्तदेहा स्वदेहच्छायया विच्छाययन्ती विद्याधरीगणमग्रतो निषण्णास्ते,
एषापि यदुनरेन्द्रवंशविशेषस्य महेन्द्रमलयाद्रिमध्यवर्तिमेदिनीपालमौलिसंघट्टममृणमाणिक्य30 पादपीठस्य हठगृहीतसकलदुष्टारातिकोशकाञ्चनस्य काञ्चीपतेः कुसुमशेखरस्य मलयसुन्दरी
नाम । या च निजसौन्दर्यनिर्जिताप्सरोरूपविभ्रमा लक्ष्मीरिव क्षीरसिन्धुफेनपटलस्य पट्टांशुकवितानकस्य तलभागे तरलतारकमवलोकयन्ती वामतोऽवलोक्यते, एषाप्यशेषविद्वज्जन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org