________________
१५५
तिलकमारी
२१७) अथाहमनुदिनोपचीयमानसुकुमारावयवी चन्द्रमूर्तिरिव दूरस्थितापि दर्शनेनाप्याययन्ती पुरजनं, पदे पदेऽनुगम्यमाना पृष्ठतो, हसिते हसिते चुम्ब्यमाना कपोलयोः, रुदिते रुदिते विनोद्यमाना विचित्रक्रीडनकैः, स्खलिते स्खलितेऽनुभाव्यमा. नावतारणकमङ्गलानि, गदिते गदिते सहासमारोप्यमाणा वक्षसि क्षितिपाललोकेन, रक्ष्यमाणा च राज्यलक्ष्मीरिव सततमप्रमत्तैः शत्रपाणिभिर्वीरपुरुषैः, शैशवमतिवाहितवती। 5 उचितसमये च यथाशक्त्याधीतराजकन्यकोचितविद्या, सोपनिषदि नाट्यवेदे गीतवाद्यादिषु च कलासु कृतपरिचया ; विनयपरतया पितुः, एकापत्यया मातुः, वत्सलतया ज्ञातिपक्षस्य, दाक्षिण्यनिघ्नतया परिजनस्य, प्रियंवदतया पौरलोकस्य, परां चक्षुःप्रीतिमादधाना ; क्रमेण निर्वापकमविप्रयुक्तरागिमिथुनानां, संतापकं दरिद्रकामिहृदयानां, प्रसाधकं कुरूपाणाम् , अध्यापकमशेषविभ्रमकलानां, सन्नद्धोन्नतपयोधरं वर्षासमयमिन्द्रियस्रोतसां, विस्तारित- 10 कुमुदविशदस्मितं प्रदोषागमं लावण्यचन्द्रोदयस्य, वलितरङ्गितमध्यसरणिं क्रीडारामं विषमबाणस्य, पुलकजाड्योत्कम्पादिविकारबहुल शिशिरावतारं तरुणजनहृदयतामरसानां, प्रपश्चितचतुरोक्तिमग्रदूतं प्रगल्भतायाः, उदीरितोत्कलिकासहस्रं प्रलयकाल रागजलधेरङ्गीकृतवती नवयौवनावतारमङ्गैः । सर्वदा च विस्तारितकलाशास्त्रविनोदेने सदृशवयसा सदृशरूपलावण्येन सदृशवस्त्रभूषणादिवेषपरिच्छदेन प्रियवादिना विदग्धेन स्निग्धेन 15 सध्रीचीजनेनामुक्तसंनिधिरविदितप्रणयिप्रार्थसार्थनाभङ्गदुःखान्यननुभूतभोगचिन्ताज्वरजागराणि धृतिमयानीव निवृतिमयानीव कतिचिदिनान्यनैषम् ॥
२१८) एकदा च प्रदोषसमये निजप्रासादस्य शिखरशालायां प्रसुप्ताहमाहतानेकपटहझलरीमृदङ्गझात्कारमुखरेण श्रवणहारिणा दिव्यतूर्यनिनादेन निद्राममुश्चम् । उन्मीलितलोचना च सहसैव सुरविमानसंनिभस्य नभस्तलोल्लेखिशिखरोन्नतेरतिविपुलावकाशो- 20 दरस्य साक्षादिव दिवसकरमण्डलस्य तत्कालसंनिहितपन्नगेश्वरश्वासपवनै रसातलान्मर्त्यलोकमानीतस्य किमपि विस्मयनीयाकृतेर्मणिशिलामयस्य जिनवेश्मनः कोणैकदेशे निषण्णमासन्नवर्तिनीभिरूप्रंस्थिताभिश्च वातायननिविष्टाभिश्च गृहीतचिन्तामोनाभिश्च शनैःकृतमिथःसंलापाभिश्च साध्वसनिरुद्धशरीरचेष्टाभिश्च जनशब्दश्रवणसावधानाभिश्च वामहस्तपर्यस्तवदनव्यञ्जनव्यजितविषादाभिश्च तत इतः प्रहितविकाशोत्ताननयनसूचितान्तःकौतु- 5 काभिश्च महाहवेषधारणीभिरसाधारणरूपशोभाभिनिभत्सितसुराङ्गनाकाराभिराकारसंभाव्यमानमहाभिजनप्रसूतिभिर्नरेन्द्रकन्याभिः परिवृतमात्मानमपश्यम् ॥
_२१९) दृष्ट्वा च समुपजातचित्तसंक्षोभा 'किमेतत्' इति चिन्तयन्ती, सत्वरमुत्थाय संयतशिथिलकुसुमापीडा, निबिडितपरिधाननीविरवच्छाद्य सत्वरं सव्येतरकरावर्जितेनोत्तरीयवाससाङ्गम् , अङ्गीकृता युगपदुत्थितैः साध्वसप्रमोदविस्मयादिभिर्भावैः, स्तम्भितेव 30 लिखितेव संयतेवोत्कीर्णव मुहूर्तमतिष्ठम् । अनवलोकयन्ती चात्मनो भवनं चित्रशालिका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org