SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ १५४ 5 10 कविधनपालकृता (२१५) माता तु मे सर्वान्तःपुरपुरंधिमुख्या महादेवी महिम्नों धाम गन्धदत्ता नाम । किं च भिवा संपुटमोष्ठयोर्न हसितं निःशङ्कगोष्ठीष्वपि भ्रान्तं न त्वरितैः पदैर्गृहनदीहंसानुसारेष्वपि । सार्धं पञ्जरसारिकाभिरपि नो भूयस्तया जल्पितं नास्तिकद्रुमेष्वपि चिर' व्यापारिता दृष्टयः ॥ ८२ ॥ | पर्यङ्कायात्क्षणविनिहितः काञ्चने पादपीठे रक्ताशोकप्रतिविहितोप्रापराधः क्रुधेव । वामो यस्याः प्रणतिचटुलैः क्षोणिपालाङ्गनानां कर्णोत्तंसद्रुम किसलयैस्ताडितः पादपद्मः ||८३|| Jain Education International यस्या ललाटे सदृशद्युतित्वादस्पष्टचामीकरपट्टबन्धे । अर्ति सूक्ष्मालक वल्लरीणां मालारिबन्दीव्यजनानिलेन ||८४ ॥ या च त्रिभुवनख्यातविद्याधरवंशसंभवा भवानीव शंभोद्वितीयापि भर्तुरेकं शरीरमभवत् ॥ २१६) जातमात्रायामेव मयि समस्तदैवज्ञाग्रतःसरेण सकलनिमित्तशास्त्रतत्त्व15 वेदिना सहस्रशः संवादितादेशतया परं संमतेन वसुरातनाम्ना सांवत्सरेण स्फुटीकृत्य तात्कालिक ग्रहाणां दशाफलमानन्दाश्रुजलपरिप्लुतेक्षणेन क्षोणीपतेः पुरः स्पष्टाक्षरमिदमादिष्टम् —'एषा कन्यका निकामं पुण्यभागिनी भाजनं भविष्यति भूयसामुपभोगसौख्यानाम् । ईदृशे चलने लब्धमनया जन्म । योऽस्याः करं ग्रहीष्यति स हेमकूटादि - कुलशैलकटकनिविष्टविद्याधराङ्गनोपवीणितपुण्यचरितप्रशस्तिना पराक्रमाक्रान्तसकलदिक्चक्रेण 20 महानरेन्द्रचक्रवर्तिना संक्रमितनिखिलनिज राज्यभारश्चतुरुदधिरसनागुणायाः क्षितेराधिपत्यं करिष्यति' इति । एतच्चाकर्ण्य कर्णपरम्परया सर्वेऽपि नगरीनिवासिनः प्रधानपौराः परां मुदमवापुः । अमन्द्रसंभ्रमाकुलाश्च तत्कालमेव प्रत्यापणं प्रतिगृह प्रतिचत्वरं प्रत्यायतनमनिलन र्तितविचित्रचीनांशुकवजान्ध्वजानाबबन्धुः । बन्धुतेव प्रतिगृह गृहीतविकटप्रसाधना धिन्वन्ती मङ्गलगीतिभिर्जगजगौ जनता । निष्पर्यायमाहताभिरानन्दतूर्यसंह तिभिरुच्चै25 स्तरोऽपि चारणानामारावः श्रवसि निविशमानश्चस्खाल | मदविशृङ्खलपदक्षे पक्षोभितकाञ्चयश्च सह भुजङ्गजनेन ननृतुर्नृपाङ्गणेषु गणिकाः । तातोऽपि तोरणबद्धहरितवन्दनमालमुद्दामगन्धोदकच्छटा विच्छदेवि रजीकृताजिरमुपरचितमौकिकचतुष्कं पातितविचित्र पुष्पप्रकरमागत्य मातुर्मे भवनमनेकराज लोक परिवृतः पुत्रजन्मसदृशमतिमहान्तमुत्सवमकारयत् । अतिक्रान्ते व दशमेऽहनि समागतसमस्तज्ञातिलोकः प्रवर्तितमङ्गलोपचारः स्वगोत्राचारकर्मण्यति30 सादरो मलयसुन्दरीति में नाम कृतवान् ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001574
Book TitleTilakmanjari
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy