________________
१५३
तिलकमारी प्रयुज्यमान बहुप्रकारमुपगृहनोप वारमुपशिक्षितुमिव क्रमुकवृक्षकानावेष्टयन्ति कृतविचित्रवलना नागरखण्डपत्रवल्लयः, यत्र च युवजनेन दयिताकपोलदशनच्छेद्यविद्यामभ्यसितुमनुदिवसमाच्छिद्यमानानि परिमितान्यपि न यान्ति परमपरिपाकमजिरसहकारशाखिनां फलानि,
यस्यां गुणौघजुषि दूषणमेकमेव यव्याह्यदन्तवलभीषु विलासिनीनाम् । 5 उद्यन्नभःसुमहितागुरुदाघजन्मा धूमः करोति मलिना नवचित्रभित्तिः ।।७८।। अपि चपृष्ठप्रेङ्खवलीनां श्रुतिशिखरहसच्चित्रमुक्ताफलानां
पूगत्वग्मार्जिताग्रद्विजमुकुलमिलच्चन्द्रिकाईम्मितानाम् । तिर्यक्सीमन्तरेखाश्चितचिहुरचयस्फारितैकेक्षणाना
10 मिन्दुर्दास्यं विधत्ते द्रविडवरवधूवक्त्रपङ्केरुहाणाम् ।।७९।। संक्रान्तकान्तवनितानवकुङ्कुमार्द्रपादारविन्दपदमण्डललाञ्छितासु । हाग्रभूभिपु सुधाधवलासु यस्यां व्यर्थीभवन्ति विकचाम्बुरुहोपहाराः ॥८॥ प्राप्तप्राक्छेलकूटा इव कुचतटयोरोदयेनेव लीढा रागेणौष्ठप्रभायां तिमिरभरमिव क्षेप्तुकामाः कबर्याम् । कुर्वाणास्तारकाभिः प्रणयमिव नखेष्वगरङ्गे लुठन्तः स्वर्गङ्गासैकतस्था इव निशि सुदृशां यत्र भान्तीन्दुपादाः ।।८१।।
२१४) तस्यां च निजविभूतिसुरेन्द्रसदनसौन्दर्यायां नगर्यामवार्यविस्फूर्जथुपृथुप्रतापवनाग्निजनितसकलारातिकुलपर्वतप्रमाथः स्वर्णाथ इव पार्थिवश्रीपरिभोगवाञ्छया 20 प्रच्छादितसहजरूपो रूपलावण्यलघूकृतकुसुमायुधो धृतायुधैकदक्षिणबाहुसाहायकप्रसाधितानन्तप्रान्तदेशो देशोत्तरभ्रान्तशशिकरावदातकीर्तिः , नीतिशास्त्रशाणानिशितनिर्मलप्रज्ञापरामर्शपरशुशातिताशेषविजिगीपुविजयोद्यमद्रुमः, कल्पद्रुमः क्रमागतलोकानां, बनपञ्जरो भीतानाम् , उत्तम्भनस्तम्भो निजवंशवेश्मनः, समीरो वैरिसुन्दरीसीमन्तसिन्दूरस्य, क्रूरग्रहदृष्टिपातो दुष्टनिग्रहक्रियायाम् , उदात्तनिजचरितचारणीकृतखेचरगणो, गुणगरिमातिरेक- 25 तृणीकृतभरतसगराधादिराजो, राजा कुसुमशेखरो नाम ; यस्य मलयाचलस्येव पूर्वापर दि. गन्तलब्धायतेर्दक्षिणोदधिवेलावनं व्यापदखिलमपि कटकविस्तार ; येन चाप्रयत्नभग्नसंतत. वर्धिष्णु भूभृत्तदुन्नतिना भुवनत्रयाभिनन्दितोदयेन कुम्भयोनिनेव प्रसाधिता पवित्रिता च दक्षिणा दिक् । तस्य तेजस्विवर्गाग्रेश्वररस्य सकलगुणनिधिरीदृशी विगतलक्षणाहमधमाशुशुक्षणेरिव धूमवर्तिरासन्नवर्तिनां जनानामश्रुपातकारणमेकैवात्मजा जाता ॥
15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org