SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ १५२ कविधनपालकृता राशिसंकुलेन परिखामण्डलेन, कुण्डलितसागरप्रख्यस्य सर्वतः प्रेङ्खतः परिखाजलप्राग्भारस्य तरङ्गविक्षिप्तेन फेनविमरेणेव दिवसः स्फातिमुपगतेन स्फाटिकवलभित्तिना प्राकारेण परिवृता, विधृततटसाधर्म्यहावलीधृतोभयविभागैरजिरपुञ्जितप्राज्यरत्नप्रभाजालजलनिर्भरैरनवरतवहत्समुद्रयायिजननिवहकलकलाक्रान्तविकचक्रैः क्षितिरिव प्रलयमहापगास्रोतोभिः समन्ततः सीमन्तिता विशालायतैर्विपणिपथैः, आवासितशरजलदशिबिरेव सुरमन्दिरैः , बन्दीकृतसमस्तभोगभूमिरिव परिसरारामैः , एकीकृताशेषविषयान्तरेव सर्वदेशभाषाश्रुतिभिः, उद्घाटितसमग्रासुरविवरेव विलासिनीवासभवनैः, अनतिदूरवर्तिनी दक्षिणोदधेरपारधनकनकसंचया काञ्ची नाम नगरी; यत्र नागवल्लीलालसा धनिन उद्यानपालाच, परमतज्ञाः पौराः प्रामाणिकाश्व, सफलजातयः श्रोत्रिया गृहारामाश्च, हरिद्रासान्द्ररुवकयो रागिणः 10 सुवर्णचम्पकस्तबकनिचयाश्च, प्रगुणविशिखा गृहनिवेशा सुभटबाणधयश्च, बहुमालिकाः प्रासादाः प्रकृतयश्च, सकुंचितालकाः प्रधानापणाः प्रमदाललाटलेखाश्च. सुराभिरामाभिरुचितकारिण्यः पण्यवनिताः पौरयुधतयश्च ; यत्र नारङ्गपनसकदलकप्रायमरानम् , नालिकेरीफलरसप्राय पानम् , मुक्ताफलप्रायमाभरणम् , कृपाप्राय धर्मानुष्ठानम् , दानप्रायं कर्म, सत्यशौचप्रायमाचरणम् , शास्त्रविचारणप्रायो विनोदो निवासिलोकस्य ; यत्र मुग्धता रूपेषु 15 न सुरतेषु, हरिद्रारागे देहेषु न स्नेहेषु, बहुवचनप्रयोगः पूज्यनामसु न परप्रयोज नाङ्गीकरणेषु, विभ्रमो रतेषु न चित्तेषु ; यत्र मन्दिरोपवनान्यावासनगराणि, तमालतरुनिकुञ्जाः सदनानि, लवङ्गपल्लवस्रस्तराः पर्यङ्काः, प्रणयकलहाः कलयः, नखदशनविन्यासाः शरीराभरणमणयः, प्रियावदनशतपत्राणि पानपात्राणि, कामसूत्रमध्यात्मशास्त्रम् , वाजी. करणयोगोपयोगो व्याधिभेषजम् , अनङ्गपूजा देवतार्चनम् , सुरतदूतिका गुरवो भुजङ्ग2) वर्गस्य ; यत्र हृन्मर्मभेदिनः कटाक्षाः कुसुमेषवः, लवङ्गकक्कोलपरिमलवाही मुखानिलो मलयसमीरः , स्फुटितकुगुदोज्ज्वलः स्मितालोकश्चन्द्रोदयः , सच्छायतनुलताभिगमो नवयौवनावतारो मधुसमयः, चित्तोन्मादकारिणी बचनचाटुपद्धतिमदिरा, कोकिलध्वनिकला कृतककोपहुंकृतिः पञ्चमोद्गारः, इति केवलासु प्रमासु परिसमाप्यते समस्तापि जैत्रा तन्त्र सामग्री कुसुमकार्मुकस्य ; यत्र मधुकरध्वनिपटुहुंकाराणि समुल्लसत्सरससहकारमञ्जरीतर्ज 25 निकानि कृततर्जनानीव प्रियकरोत्क्षिप्तासु मुक्ताशुक्तिषु विलोकयन्ति तालफलरसमधूनि ध्वस्तमानावलेपा विलासिन्यः ; यत्र सुलभनागवल्लीदलार्द्रपूगीफलानि क्वणत्कुररकुलकलध्वनिवर्धितानङ्गोत्साहानि संनिहितचन्दनशिशिरदीर्घिकातरङ्गपवनानि वनानि निधुवनानि च निषेवन्ते सम वनितासखाः सुखिनः ; यत्र सायंतनस्नानार्द्रवपुषां द्रविडयोषितामसान्द्र लग्नस्य हरिद्राद्रवरसस्य छायया पिञ्जरिततनुकिरणकन्दलो दलितचम्पककर्णपूरमनुकरोति 30 कपोलदर्पणावलम्बी पार्वणो रजनिजानिः ; यत्र तीरासन्नजातानां कतकविटपिनामनारत गलद्भिः फलैः प्रशमितपकोदयानि निर्दयास्वपि कामिमिथुनमज्जनकेलिषु कालुष्यं नानुभवन्ति भवनदीर्घिकाजलानि; यत्रैलालतासदनासूत्रितविचित्रमोहनाभिर्द्रविडयुवतिभिः प्रियेषु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001574
Book TitleTilakmanjari
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy