________________
तिलकमञ्जरी
रूपसावण्यादिगुणगणावासस्त्वादशी इति विद्वानपि भवत्याः प्रवृत्तोऽहं प्रश्नकर्मणि । कथय का त्वम् ? कस्मिन्नखिलदोषमुक्ते मुक्तेव देवारण्यवंशे वंशे समुत्पन्नासि १ कानि ते हृदयदाहज्वरहराणि दिव्यमन्त्रपदानीव नामाक्षराणि क्षरन्ति कर्णयोरमृतम् ? केनात्र तव वपुषि देवाङ्गनिवसना गर्हणानपेक्षेण विनिक्षिप्तान्यमूनि वृक्षाणां वल्कलानि ? किं फलमतिशयस्वादुरसमभिलष्य विरसान्यनुदिवसमनासि वन्यनुमफलानि ? केन हेतुना 5 विहाय विख्यातानि वैखानसाश्रमपदानि निर्जनारण्यवासिनी शून्यमेतन्जिनायतनमधिवससि ? किं चैष विषमसायकैकाधिवासे नवे वयसि विषयोपभोगविद्वेपः ? किं चानुवेलस्पन्दिताधरपुटा प्रष्टुकामेव वार्तामिष्टजनस्य कस्यचित्प्रीति विशदेदृष्टिविक्षेपः सरभसमवेक्षसे दक्षिणां ककुभम् ? कच्चिदास्ते कश्चिदिह गोत्रजः सुहृद्वा हृदयभूतः ?” इति ॥'
२१२) 'वदत्येव मयि सहसैव तस्याः प्रकम्पितपयोधरो, विधुतगलसरणिरति-. 10 परिस्फुटस्फुरितनासापुटः, प्रयत्नरुद्धोऽपि विषवेगवद्व्यापदङ्गमतिकान्तवैभवस्मरणयोनिमन्युः। अब्जवनमिष प्रदोषहिमजलेन मुकुलीभूतमीक्षणयुगमपूर्यत विसारिणा बाप्पनीरेण । तत्क्षणनिबद्धरागायाश्च लोचनापाङ्गसरितः पूर्वहरित इव तरुणारुणज्योतिराहतायास्तारकासमूहः पपाताजस्रमश्रुकणविस्तरः । तां च दृष्ट्वा तथाविधामन्तरुपजातगुरुविषादो मनस्यकरवमहम्-"अहो पूर्वजन्मान्तरसंचितैरशुभकर्मभिरायोजिताः सुनिपुणमपि निरूपितोपायै- 15 मनीषिभिरनीषत्कराः परिहर्तुमुपतापाः, येनेयमपहाय परमसंक्लेशहेतु सकलसङ्गमेकाकिनी विगतमर्त्यसंचारे गुरुणि गिरिकान्तारे कृतस्थितिरनेकयोजनशतव्यवहितमेकदिवसेनैव मंयोज्य मामीदृशस्य मानसदुःखभारस्य भाजन कृता महानुभावा देवेन” इति । सोद्वेगविस्मयः समाश्वास्य तां सुचिरमुत्याय च कराञ्जलिपुटावर्जितं दीर्घिकाजलमुपानयम् । सापि किंचिद्विरलशोका बाष्पजलपरिप्लुतारालपक्ष्ममालं प्रक्षाल्य तेन, प्रमृज्य चोत्तरीय- 20 पल्लवप्रान्तेन वदनमुत्सृष्टदीघनिश्वासा विलम्ब्य कंचित्कालमुपचक्रमे वक्तम्- "कुमार, निर्जनारण्यवासिनो जीर्णवल्कलनिवसनस्य वन्यफलभुजः स्थण्डिलातिवाहितनिशासमयनिद्रस्य दुष्कृतकारिणो मद्विधजनस्य प्रागवस्थोपवर्णनमतिशयेन व्रीडाकरम् । पृष्टा च त्वयाहम् । अतो न तूष्णीमासितव्यम् । किं तु सर्वदा सुखोचितस्य ते न किंचिदनेकदुःखपरम्पराविरसेन श्रुतेनानेन फलम् । अथ कुतूहल, ततः शृणु । निवेदयामि । यात्वनेनैव तावद्वि- 25 नोदेन सर्वदेव दुःखोपतप्ताया दिनमिदं मे । त्वमपि भुवनत्रयप्रथितमहिना महामेदिनी. पालसूनुः समानदेशावाप्तजन्मा कथंचिद्गृहमुपागतः प्राप्नुहि जनान्निष्किञ्चनादपूर्व तावदिदमेवातिथ्यम्" इत्यभिधाय भूयः कृताश्रुपाता शनैः शनैरारभत कथयितुम् ।
- [अथ मलयसुन्दरीनिरूपितो निजवृत्तान्तः ]
२१३) अस्ति निजशोभाजितसमस्तभुवनान्तःपुरा महादेवीव सकलभूचक्रवर्तिनो 300 मर्त्यलोकस्य, लङ्केव लवणसागरेण त्रिदशनगरीवान्तरिक्षेण कृतपरिकरा मकरकुलीरमीन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org