________________
तिलकमञ्जरी
१४९
अपश्यं च तं दिगन्तरव्यापिना दीप्तिनिवहेन दूरत एव सिन्दूरितनभोभागं पद्मराग शिलामयं प्रासादम्, यदीयपर्यन्तोपवनमध्यवर्ती गन्धर्वकोपदिष्टवर्त्मना मठादेत्य दृष्टस्त्वयाहम् । प्रविश्य च तत्र कृतदेवतानमस्कारो नातिनेदीयसि शिलामण्डपद्वारस्य मणिशिलादारुमत्तवारणे समुपाविशम् ॥'
२०९) 'अपश्यं च तत्राष्टादशवर्षदेशीयामचिरस्नापितस्य विकसितोत्तानपत्र - 5 प्रान्तविगलदमलोदबिन्दुभिस्तत्क्षणप्रतिबुद्धानामुद्या नदीर्घिकाजलदेवतानामीक्षण वृत्तम्भिकाश्रुकणिकैर्मुखप्रतिविम्बरित्र सद्यो जलादुद्धृतैः कनकारविन्देरुपरचितपूजस्य तत्क्षणोत्क्ष
धूप वर्तेर्युगादि जिनबिम्बस्य पुरतो नातिनिकटे समुपविष्टामभिमुखीमाबद्धपद्मासनामतिस्थिरतया कायस्य लिखितामिवोत्कीर्णामिव निखातामिव स्तम्भितामिव विभाव्यमानामायतनभित्तिसंरोधसंभृतस्य निजदेहप्रभाप्रवाहस्य मध्ये मुग्धशशिकलामिव दुग्धाब्धि - 10 पयसः कृच्छ्रेणोपलभ्यमानावयवाम् अच्छललाटलावन्यलीनमतिमहाभोगमपि भगवता युगादिजिनस्य बिम्बमल्पाश्रयावस्थापनेन तनिमानमानीय भक्त्यतिशयादिवोत्तमाङ्गेनोद्वहन्तीं, पृष्ठपीठावलम्बिना विरलविरलस्नानजलबिन्दुदन्तुरेण शापचनाशङ्किनेव मन्दमन्दमायामिना केशभारेण स्पृश्यमानपृथुनितम्बभाराम्, अनवरत मन्त्रोच्चार विघटितोष्ठपुटनिष्ठचू नै रमलकान्तिभिर्दन्त किरणैर्ध्यानमुकुलितापाङ्गसंगलितसुत्सारयन्तीमग्रतो गर्भगृह- 15 गोचरं ध्वान्तजालम्, आमलकीफलस्थूलमुक्ताफलग्रथितमधोमुखमयूखेन चक्षुषा लक्षीकृतमक्षसूत्रमङ्गुष्ठलतया मन्त्रपाठपरिसमाप्तौ दक्षिणाय कर परिगृहीतमावर्तयन्ती', दिव्यतरुवल्कलदुकूलनिवसनाम्, एकामखिललोकत्रयातिशायिरूपां तापसकन्यकाम् ॥
तस्याश्च चक्षुराह्लादकारिणा दर्शनेन दूरोल्लखितचेताः पुनरचिन्तयम्"दत्ते पत्र कुत्रलयततेरायत चक्षुरस्याः कुम्भावैभौ कुचपरिकरः पूर्वपक्षीकरोति । दन्तच्छेदच्छविमनुवदत्यच्छता गण्डभित्ते
चन्द्रं बिम्बं द्युतिविलसितैर्दूषयत्यास्यलक्ष्मीः ||७६।। अस्या नेत्रयुगेन नीरज स्रग्दामदेहा
चञ्चत् पार्वणचन्द्रमण्डलरुचा वक्त्रारविन्देन च । स्वामालोक्य दृशं रुचं च विजितां तुल्यं त्रपाबाधितै
द्धा निर्जन संचरेषु कमलैर्मन्ये वनेषु स्थितिः” ॥७७||” २१०) 'अथासौ मुनिकन्यका समाप्तमन्त्र जपविधिरुत्थाय कृतदेवताप्रणामा गृहीतपुष्पटलिकया पृष्ठतः परिचारिकयानुगम्यमाना हसितमदमत्तसगतिभिर्निर्गत्य मन्थरैः पदन्यासैरायतनपर्यन्तवर्तिषु प्रासादकेषु प्रतिष्ठिता जिनप्रतिमाः क्रमेणापूपुजत् । 30 कृतप्रदक्षिणा मूलायतनस्य समुपेत्य पुरतो मे बभूव । दृष्ट्वा च सुचिरमुपरतनिमेषा
Jain Education International
"
For Private & Personal Use Only
20
25
www.jainelibrary.org