________________
wwwwwwwwwwwww
१४६
कविधनपालकृता २०३) 'पृष्टा मया सा कन्यका प्रसत्तिमगमत् । अवनतमुखी च स्थित्वा मुहूर्तमदत्तोत्तरैव तस्मादशोकतरुतलादचलत् । आभरणमाणरणितवाचालितलतामण्डपोदरा च किंचिद्वामतः कुर्वती मामभिमुखमगमत् । स्थित्वा च स्थिरा द्वारनिकटे मुहूर्तमीष
द्वलितकंधरा त्रपातरलितसितेतरतारकाममरनिम्नगातरङ्गतरलायितापांगनिर्गच्छदच्छप्रभा5 वच्छादितदिगन्तरां सुधारसच्छटामिव सकालकूटामक्षिपन्मे चक्षुषि मुहुर्मुहुर्मोहाह्लाद
कारिणी कटाक्षवृष्टिम् । ततो लक्षिताभिप्रायेण निर्गन्तुमाकाङ्क्षतीयमिति विचिन्त्य स्तोकमपसृतेन मया द्वारि दत्तावकाशा प्रयत्नकृतविवर्तनापि किंचिन्निजैरङ्गावयवैः
स्पृशन्ती स्पर्शलोभेनेव समकालोहसितसान्द्रपुलकजालकं मदीयाङ्गवामभागममन्दमुख___ वासामोदबहलितेन स्वभावसुरभिणा श्वासपरिमलेन पवनलुलितेन च दिव्याङ्गरागसौरभेण 10 समन्ततो वासयन्ती तं वनोद्देश निर्गता तस्मालतामण्डपाद् गता च स्खलितपदसंचारया
गत्या प्रावृण्वन्ती वारंवारमुत्तरीयाञ्चलेन स्वेदनिबिडासक्तसूक्ष्मसुकुमाराम्बरं नितम्बम् । अहमपि तरुस्तम्बान्तरेण तां वजन्ती विरतपक्षास्पन्देन चक्षुषा सरागमीक्षमाणस्तत्रैव देशे क्षणमभीष्ट शंसदुद्विग्नश्चेति चेतस्यकरवम्-"अहो लोकव्यवहारानभिज्ञत्वमस्याः कन्य
कायाः, येन द्वारदेशकृतोपसर्पणस्य पुनः पुनः प्रयुक्त प्रियालापस्य दूरदेशागमनखिन्नवपुषः 15 स्वयमाख्यातनिजवृत्तान्तस्य द्रव्यादावादर्शितार्थिभावस्य वचनमात्रेणापि मे न कृता प्रति
पत्तिः। तत्किमनया ? अन्यतो गच्छामि" । इति चिन्तयित्वा ततः स्थानात्स्वदेशदिङ्मुखाभिमुखस्तस्यैव सरसः सरसशिशिरच्छायतरुणा तीरदेशेन शनैः शनैरचलम् ॥'
२०४) 'प्रस्थितस्य च मे चेतस्यभवत्-"अहो, यत्तत्तदानीमुपवनस्थेन मया तत्र वेत्रधारिनिवेदिते दिव्यचित्रपटे प्रकाशितमदृष्टपाराख्यं सरो दृष्टमासीत् , तदेवैत20' त्तयामि । यतस्तत्र ये यथादर्शितास्ते तथैवात्र तिलकतालीतमालबकुलाशोकलकुचलवङ्ग
चन्दनादयः पादपा दृश्यन्ते । यानि च यदाकाराणि यद्वर्णानि यत्क्रमाणि तस्य पर्यन्तेषु विनिवेशितानि लतासदनानि सैकतानि देवतार्चनवेदिकावलयानि तान्यपि तथैवात्र परिस्फुटानि प्रतिभान्ति । तत्किं पुनः क्रीडानिमित्तमिह समायाता सापि कन्या
न सा मद्धृदयकुमुदाकरशशाङ्कलेखा तिलकमञ्जरी १ दृश्यते हि तेन चित्रपटपुत्रिकारूपेण 25 सार्धमखिलस्याप्येतदीयाकारस्य संवादः । तथाहि-तादृशी विकचराजचम्पकच्छदावदाता
देहच्छविः, तादृगुन्निद्रकनकारविन्दसुन्दरं वदनशतपत्रम् , तादृशस्तुलितकेतकोदरदलद्राधिमा नयनयोरायामः, तादृशां च सकलानामपि नितम्बनाभिमण्डलोदर स्तनाधरप्रभृतीनामवयवानामभिरामता, सर्वतः स्फुरदनर्घरत्नाभरणरमणीयाया वेषलक्ष्म्या अपि तथाभूतमेवी
दार्यम् । किं बहुना १ विहाय चलनस्पन्दनाढ यभावमाङ्गिकं प्रमाणमङ्गनापरिवारसंपदं च 30 सर्वमन्यत्संवदति । कथं पुनरनेकविद्याधरीवृन्दसहस्रपरिगतायास्तथा वनेऽवस्थानमेकाकित्वं
च तस्याः संवृत्तम् ? अथवा नैतदालोचनीयम् । अदृष्टपारे संसारे भगुरस्वभावेषु विभवादिषु सर्वभावेषु कर्मपरतन्त्राणां प्राणिनां सर्वमपि संभवति । यथा मम स्वसैन्य
Jain Education International
. For Private &Personal Use Only
www.jainelibrary.org