________________
कविधनपाल कृता सफेनोद्गमं धाराभिरुद्रिन्तीम्, उन्निसुन्दरशोणबिन्दोर्यरकरिकलभशुण्डादण्डस्य खण्डयितुमिव गुणाधिक्यदर्पमुत्सर्पिणा नू पुरपद्मरागकरकला पेन स्पृश्यमानपीनपरिमण्डलोरुयुगलाम् , एकतः कान्तिजलभृता नाभिमण्डलीकनकभाण्डेनान्यतोऽपि वृत्तानुपूर्वेण परिणाहिनोरुतूणीरद्वयेनाशून्यपाव निशानमणिशिलाफलकमिव कुसुमास्त्रपत्रिणमतिविशालमस्मृणमांसलाभोग जघनभागमुद्वहन्तीम्, अविरलविभाव्यमानमरकतेन्द्रनीलकुरविन्दशकलया लधुमन्तमिव समन्ततः पर्यन्तेषु भ्रान्तया वेलयेवातिदूरप्रवृद्धस्य शृङ्गारजलधेः समदसारसक्रौञ्चकलविलापया काञ्चिलतया वलयितविशालश्रोणिपुलिनाम् , अगाधनाभिविवरवारितप्रसराम् , अभिनवागतेनाक्षपटलमास्थाय कायस्थेन तरुणिम्ना तत्क्षणाधिगतराज्यस्य रतिपतेरसिताक्षर
श्रेणिमिव दर्शितामतिशय लक्ष्णसुकुमाररेखारोमराजिमुदरेणोद्वहन्तीम् , ऊर्ध्वरेखाकाररोमा10 वलीसमविभक्तोभयविभागस्य मध्येऽधिकतनोरतिविशालसारिफलकस्योदरोद्देशस्य शिरसि
जातान्योन्यघटनेन स्वर्णशारद्वयेनेव सुवृत्तकठिनपीनपृष्ठेन स्तनपीठोभयेन स्फुटावेदितमनोभवविजयाम् , उपरिपर्यस्तकर्णाभरणकिरणप्रभासंभारेण तद्भरादिवाभितः सरतांसभागेन भिन्नहरितालरोचिषा भुजलताद्वयेन द्विगुणितप्रलम्बचम्पकपालम्बवैकक्ष्यकाम् , अधिकबहलेन
विस्तारिणा मरकतोर्मिकारागपटलेन घटितविनीलबाह्यपत्रपरिपाटि द्विधा विपाट्य लक्ष्मी15 निघासतामरसमिव निर्मितेन सरलकोमलारुणाङ्गुलीदलभृता पाणियुगलेन भ्राजमानाम् ,
तत्कालमूर्जितबलेन निर्जित्यार्पित कन्दर्पण हासमिव हारं हारमुरसा स्वधामधवलितस्तनकलशकैलाशभूधरं धारयन्तीम् , अदृष्टपूर्वपार्वणचन्द्रदर्शनकौतुकेन युगपदुपागताभ्यामुदयास्तसंध्यातपस्तबकाभ्यामिव विबुद्धवन्धूकपुष्पपुटपाटलाभ्यामधरोष्ठबिम्बाभ्यामधिष्ठित
मुखीम् , उद्भावितरतिप्रीतिदर्पणभ्रमेण स्वच्छकान्तिना कपोलयुगलेन स्निग्धनीलालकलता 20 इव छायागताः कुरङ्गमदपत्राङ्गुलीरुद्वहन्तीम् , अतिरेकतरलतारमायतस्फारधवलोदरशोभि
शफरदामेव भुवनत्रयजयाय विहितयात्रस्य मकरकेतोः शकुन संपादनार्थमुत्पादितं देवेन नयनोत्पलद्वन्द्वममिमुखं दर्शयन्तीम् , अच्छमणिवालुकापुलीनशङ्कया निशि ललाटमध्यमधिशयितस्य हिमकरकुरङ्गस्य शृङ्गकोटिभ्यामिव तिर्यगुभयतः पर्यस्ताभ्यामसितकुटिलायताभ्यां
भ्रूवल्लरीभ्यामुद्भासिताम् , अधिकतरचारतारोपणाय संचारयितुमतनिष्ठमोष्ठरुचकरागमिव 25 लोचनान्तयोरनवरतकृतगतागतेनात्यन्तसुरभिणा श्वासपवनेन निविष्टपुष्पापीडपरिमलहृतानि
दूरादेव मधुकरकुलानि स्तम्भयन्तीम् , अधिगतसमस्ताम्भोजगुणसंपदापि नखमणिमयूखो
द्भासितेन दक्षिणेतरपाणिना गृहीतचारुपुटकिनी पत्रपुटाम् , आसन्नवल्लिविटपेपु पुष्पावचयमाचरन्तीम् , एकाकिनीमेकां बालिकामपश्यम्' ।
२०१) 'तस्या दिग्व्यापिना तेन दीप्तिपटलेन रूपलावण्ययौवनपुरोगैश्च मित्र30 भावमेकत्रागतरङ्गलतागुणैनितान्तमानीतविस्मयो मनस्यकरवम्
ग्रहकवलनाष्टा लक्ष्मीः किमृक्षपतेरियं
मथनचकितापक्रान्ताब्धेरुतामृतदेवता ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org