________________
१४३
तिलकमारी
सर्व एवायमेवंप्रकारः संसारः । इदं तु चित्रं यदीदृशमप्येनमवगच्छतामीहशीमपि भावा. नामनित्यतां विभावयतामीदृशानपि दशाविशेषाननुभवतां न जातुचिजन्तूनां विरज्यते चित्तम्, न विशीर्यते विषयाभिलाषः, न भङ्गुरीभवति भोगवाञ्छा, नाभिधावति निःसङ्गतां बुद्धिः, नाङ्गीकरोति निर्व्याबाधनित्यसुखमपवर्गस्थानमात्मा। सर्वथातिगहनो बलीयानेष संसारमोहः ।" इति परिभाव्य मनसा मुहूर्तमुत्थाय तस्मात्प्रदेशात्स्वदेशदर्शन 5 प्रति निराशो निकटवर्तिनं ग्राम नगरमाश्रमं वान्वेषयितुकामो निमित्तीकृत्य दिशमेकां शनैरुदचलम्' ॥
१९८) 'प्रचलितश्च स्तोकमन्तरमेकत्रातिसूक्ष्मसुकुमारसिकते निरन्तरोद्भिन्नकुसुमगुच्छलतागुल्मोपगूढपर्यन्ते गलितहंसगलरोमस्तोमपक्ष्मलक्ष्मातले मुक्ताशुक्तिसंपुटश्रेणिशारितोदरे विरतशर्वरीविरहशोककोकमिथुनानुभूयमानसान्द्रनिद्रे द्राघीयसि सरस्तीरसैकते ० विभाव्यमानव्यक्ततरविन्यासा दूरविच्छिन्नान्तरतया क्षितितलाधिकनिमग्नचरणतलतया च प्रकटितगतित्वगतिरेकाः सर्वदिङ्मुखाभिमुखीरनेका मानुषपदश्रेणीरपश्यम्' ॥
१९९) 'दृष्ट्वा च किंचिदुच्छसितहृदयो निरीक्ष्य निपुणमल्लप्रमाणतया ललितसकलावयवतया च स्त्रीजनस्यैता न पुरुषाणामिति विकल्प्य तास्वेकामतिशयरम्यदर्शनामागमोक्तप्रमाणप्रतिपन्नसकलसुकुमारावयवामब्जचक्रचामरच्छत्रानुकाराभिरनल्पबहुभिर- 15 च्छिन्ननिम्नाभिः प्रशस्तलेखाभिर्लान्छितामनुसरन् पदानां पङ्क्तिमधिकाभिरामदर्शनमुत्पत्तिसदनमिव सौन्दर्यलक्ष्म्याः श्लक्ष्णसितसुकुमारसिकताकीर्णभूतलमन्योन्यलग्नाभिरविरलोभिन्नबालदलशबलनीलच्छदकलापाच्छादिताभिर्दिवापि संबद्धसान्द्रसंध्यारागशेष प्रदोषध्वान्तमिव तन्वतीभिरुत्तानकुसुमस्तबकतारकिततनुभिस्तरुणवनलताभिर्निरन्तरानन्:निबिडनिःशेषभित्तिभाग रङ्गमिव जगत्रयारामव्रततिगणिकानां पानगोष्ठीगृहमिवाखिलमधुव्रतवाता- 0 नामाकरमिव समस्तोदारपुष्पमकरन्दस्य स्वेच्छाविहारमन्दिरमिव मकरकेतोरेकमेलालतागृहमद्राक्षम्' ॥
२००) 'आगत्य चास्य द्वारदेशे कृतावस्थितिरूवं स्थित एवाभ्यन्तरे झगिति पुञ्जीभूतमुद्योतमिव दावहुतभुजो जातदाहकशक्तिभङ्ग पिशङ्गीभूतसर्वाङ्गैः स्फुरद्भिरन्तःस्फुलिङ्गैरिव लताभृङ्गनिकुरम्बैः करम्बिताभोगमशनिपाताहतिविलीनसुरशैलशिखरप्रवृत्तका- 25 ञ्चनरसप्रवाहबहलमालोकमीक्षितवान् । उत्पन्नवन्यौषधिप्रकाशाशङ्कश्च क्षणमिव ध्यात्वा दिक्ष निक्षिप्तदृष्टिरिंवारं रक्ताशोकमूले कृतोर्वावस्थानाम् , अमलकान्तिजलतरङ्गिषु सर्वाङ्गभागेषु समकालसंकान्तैरासन्नवल्लीपुष्पफलपल्लवैलतेति संलक्ष्यमाणाम् , अल्पदिवसाधिरूढनवयौवनाम् , अतिनिगूढदृढपर्वाभिरधिकतनुतारताम्रनखपरम्परापरिगताग्राभिः कुसुमसायकशरशलाकाभिरिव विरहिजनहृदयशोणिताशल्याभिः सरलसुकुमाराभिरङ्गुलीभिरुपेतेन 30 साधुलोकेनेव स्निग्धचारुणा लोकसुभगेन चरणाजयुगेनाचिरकालपीतं लाक्षारागरसमिव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org