________________
१४२
कविधनपालकृता दृष्ट्वा च निकटवर्तिनं पुरो वैताट्यमीषद्गलितदाढय इति मनस्यकरवम्-“एष कुञ्जरः केनाप्यसुरेण राक्षसेन वा पूर्वजन्मनि मया कृतं स्मृत्वा कमप्यपकारमुत्पन्नकोपेनानुप्रविश्य नीयते वश्यम् । न हि पशूनां स्वरूपेणाकाशगमने कदाचिदस्ति शक्तिः । न
चातिवेगादवगम्यते कियन्तमध्वानमहमनेनानीत इति । तदयमद्यापि यावदतिदूरं न याति, 5 क्षितिगोचरैरलङ्घ यशिखरोच्छायमचलं वा नैनमुल्लङ्घयति, पयोधिमध्ये द्वीपान्तरे वा न मां
प्रापयति, तावदेनं व्यावर्तयाभि' इति संप्रधार्य तिर्यगुन्नमितकूपरः पाणिना दक्षिणेन जघनावनो खड्गधेनुकामस्पृशम्' ।।
१९६) 'दृष्ट्वा च तां समुत्खन्यमानामखण्डितोल्लसदसितलोलांशुमालाकरालितदिगन्तामुत्पातविद्युतमिवाम्बरे विस्फुरन्तीं स वारणः सहसैव मुक्तार्तभीषणनिनादः सपक्षशैल इव कुलिशोत्रासितस्तथैव स्कन्धबद्धासन समुद्वहन् मामुदधिगम्भीरे सरसि तस्मिन्नदृष्टपाराख्ये सत्वरोपसंहृतपुरोगमनमात्मानममुञ्चत् । पतनसमनन्तरमेव च तिरोभावमुपगते तत्र निरवलम्बनोऽहं पतनवेगान्निमज्ज्य दूरमतिचिरादुन्मनोऽप्यजातसंक्षोभः पर्यायेण विहितायतोत्क्षेपविक्षेपाभ्यां भुजाभ्यामनवरतमभिमुखाकृष्टसलिलस्तूर्णमेव ती|
सर उरोदघ्ननीर तीर देशमस्यासादयम्' || 15 १९७) 'तत्र चारोहणसमयलग्नेन गात्रोद्धलनरेणुना गगनागमनवेगश्रमविकीर्णन
च तस्य करिणः कराग्रशीकरजलेन कलुषीकृतं प्रक्षाल्य सुचिरमङ्गमुत्तीर्य मध्यादुद्वाप्य निःपीडिते निबिडमवगलितपयुषिताङ्गरागविमले दुकूलवाससी कृताचमनजलपानादिकर्मा निविश्यैकस्य कूलासन्नवर्तिनो लतागुल्मस्य मूले मुहूर्तमतिवाहितश्रमः स्वस्थचेतास्तथा
शिलातलोपविष्टम् , एकाकिनम्, अनिवारितापतत्परुषमध्यंदिनानिललुप्यमानवपुषम् , अनवर. 20 तजायमानकण्ठास्य शोषम् , आत्मानमवलोक्य संजातविस्मयश्चिन्तितवान्-''अहो विरसता
संसारस्थितेः । अहो विचित्रता कर्मपरिणतीनाम् । अहो यदृच्छाकारितायामभिनिवेशो विधेः । अहो भङ्गुरस्वभावता विभवानाम् । अदैव तादृशि तृणीकृतत्रिदशपतिविमानसौन्दर्यसंपदि निजे सद्मनि सुहृत्समेतो वीणावादनादिविनोदजनितमानन्दमनुभवन्नवस्थि
तोऽहमद्यैव दुर्गगिरिकान्तारमध्यवर्ती परिवृतो वनश्वापदशतैरन्यवैदेशिकसामान्यमवस्थाविशे25 षम् । एवमस्वस्थमानसो मान यामि न तद्राज्यम् , न ते राजानः, न स मदान्धगज
घटासहस्रसंकुलः स्कन्धावारः, न ते छत्रचामरादयो नरेन्द्रालंकाराः, न तानि श्रवणहारीणि चारणस्तुतिवचनानि । सर्वमेव स्वप्नविज्ञानोपमं संपन्नम् । आस्तां च तावदन्यत् । अप्रत्यासन्नमारोप्य येन स्कन्धमात्मीयमहमेतां भूमिमानीतः, यश्च सार्ध मयैवास्मिन्न
गाधसलिले सरसि मनः, सोऽपि नास्ति प्राणभूतो मे पट्टवारणः । न ज्ञायते वराकस्य 30 किं तस्य वृत्तम् । किमतिवेगपतनाद्गुरुत्वाच्च कायस्य गत्वा दूरमस्य सरसो मूलपङ्के
विलनो गाढम् ? उतान्तराल एव गच्छन्हेलया समकालमेव प्रधावितैः शकलीकृत्य कवलितो महाकायैजल चरैः ? उतापरमवस्थान्तरं किमपि संप्राप्तः ? किं चैकमिह शोच्यते ?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org