________________
तिलकमञ्जरी
सर्वमात्मीयवृत्तान्तम् । दुष्टकरटी लौहित्यतटपर्वताटव्यां भवन्तमपहृत्य क्व गतः ? क्व स्थितः ? त्वयापि ततोऽवतीर्य किं कृतम् ? किं दृष्टम् ? किमनुभूतम् ? क्व प्रदेशे कृत. स्थितिना प्रेषितः स लेखः ? केन वा स शीघ्रमेव प्रापिर: शिबिरम् ? कुत ईदृशीनामाकाशगमनादिकार्यजनितजगद्विस्मयानामखिलानामपि महाप्रभावाणां विद्यानामधिगतिः ? कथमियमतर्कितैव विद्याधरचक्रवर्तिपदप्राप्तिः ? केन वा प्रसङ्गन तत्र चैत्ररथवनविडम्बिनि 5 जिनायतनकानने कृतभागमनम् १ का च सा त्रिलोकीतिलकभूता रूपगर्वमपहर्तुमिव पार्वतीकमलयोरुत्पादिता कमलयोनिना देवेन लावण्यैकवसतिः सकलस्यापि भवचरणकमलानुवर्तिनो राजलोकस्य मान्या महाराजकन्या या तत्र कदलीगृहे गृहीत विरहिणीजनाकल्पा ज्ञापिता कुमारेण मत्स्वरूपम् १ इति' ॥
१९५) सकौतुकेन पृष्टः समरकेतुना, विहस्य हरिवाहनः सहर्षमुवाच- 10 'युवराज, कथयामि यदि ते कौतुकम् । अवहितो भव । प्रभूतमिदमाख्येयम् । अथवा वृथा ममाभ्यर्थनेयम् । अयमेव भूम्ना निरन्तराश्चर्यसरसो मदीयवृत्तान्तः करिष्यत्यवधानवन्तम् । तदा प्रत्यक्षमेव भवतस्तथा मदान्धः स गन्धवारणः स्कन्धदृढबद्धासनं शासनानन्तरमेव साध्वसादाधोरणैरकृतलत्वरोपसर्पोरनर्पितांकुशमवशमुद्वहन् मामद्रिगह्वरात्ततो निर्गत्य तेनैव गिरितटेन यथोत्तरप्रकटितजवः पृष्ठतो वहद्भिरनवरततर्जितजात्य- 15 वार्वाहिनीपतिभिरन्यैश्चाबद्धपरिकरैः परिकारमेप्ठवण्ठप्रायैः प्रजविभिः सैन्ययोधैरनुबद्धयमानः कियन्तमपि मार्गमगमत् । अन्तरितेषु च निरन्तरैर्वननरुस्तम्बैर्विलम्बितेषु सर्वेष्वनुपदिषु लोकेष्वेकेन मार्गवर्तिना विषमपाषाणपटलस्थपुटित वतारेण वनतरङ्गिणीश्रोतसा भग्नगमनत्वरस्तरसान्तिरिक्षमुदपतत् । उत्पत्य चातिदूरमूरीकृतकुबेरदिङ्मुखाभिमुखयात्रो गात्रनिरिणाय परितः प्रकीर्णन विस्तारिणा कराग्रशीकरजलासारेण निर्मरान्धकारित- 20 गगनगर्तः पुष्करावर्तजलद इव संवर्तकालमरुताहतो वेगमतिमहान्तमतनोत् । तेन चास्य वेगातिशयेन संजातगुरुविस्मयोऽहं मुहुर्मुहुः कौतुकादधोमुखक्षिप्तदृष्टिरस्फुटोपलक्ष्यमाणग्रामनगरां, कीटप्रायजनपदां, दूर्वाप्रतानोपमानविततवेलावनषण्डां गण्डशैलप्रख्यविन्ध्यसह्यप्रमुखभूधरामुरगकन्यकानिर्मोकसदृशमन्दाकिनीपुरःसरमहासरित्प्रवाहां, नड्पलाकारमानसप्रभृतिदिव्यसरोवरां सर्वत एव चक्षुषा परिच्छिद्यमानविस्ताराम् . अतिदवीयस्तया रसातल 25 इव प्रविष्टाम् , अन्वकूप इव निपतितां जातानुतापेन मधुरिपोराच्छिद्य बलिनेवात्मसंनिधावानीताम् , अब्धिपर्यन्ताम् , अवनिमीक्षमाणः, कचित्समासन्नतया तपनमण्डलस्यातिदुःसहेन तापोष्मणा दह्यमानकायः, कचिदयत्नातपत्रतां गतैरम्भोदपटलैरुपरिविस्तार्यमाणमांसलच्छायः, क्वचिद्भवम॑नाभिमुखमापतद्भिः सिद्धाध्वन्यमिथुनैः करिभयादूरत व विहितापसरणः, क्वचित्तरलितोत्तरीयपटपल्लवेन तुङ्गगिरिशि खरनिर्झरवायुना स्वयमुद्धृततालवृन्तेनेवापनीतश्र- 30 मस्वेदजलकणः क्षणेनैवास्य पर्वतपतेरे कशङ्गाख्यस्य शिखराप्रवर्तिनमाकाशप्रदेशमासादयम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org