SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ १४० कविधनपालकृता केशवभुजायन्त्रामन्देरितं मन्दरमिवाधिक्षिपन्तं, कुलिशकृत्तपक्षव्रणनिभासु गम्भीरगैरिकखनिषु लम्बमाननिश्चलनिरायताङ्गैरजगर कुलैर्दुष्टरतापकर्षणार्थमायोजितै लौकोजालकैरिवदुरालोकपार्श्वभागम् ; कैश्चिदुद्भिन्नवैडूर्यरत्नाङ्कुरकलापैरधः करालकन्दरादर्शनजातरोमाञ्चैरिवातीततारापथैः पृथुपराक्रमाणि क्रीडाकिरातवंश्यानि शबरवृन्दानि कैश्चिदितस्ततश्चलिततनुसरिद्वेणिकैः स्खलनपर्यस्तसूर्यरथपताकैरिव पतनभीतविद्याधरसङ्घपरिहतलङ्घनानि सिद्धायत नानि कश्चिदन्धकारगह्वरप्रवेशितसरलनिझरसलिलधारैरसुरकन्याधिराहणार्थमवलम्बितरज्जुजालैरिव सततसप्तर्षियात्रापवित्रितानि दिव्याश्रमपदानि कैश्चिदुत्तुङ्गतालतरुवनस्त्रिविष्ट पमुपस्प्रष्टुमूर्चीकृतभुजैरिव निरातङ्कनाकिमिथुनाभ्यस्यमानमन्मथक्रीडाभणितानि माणशि लालयनानि शिखरैर्धारयन्तं , निविष्टानन्तवनदेवतानगरामिव लतागृहवातैः, आविष्कृता10 नेकपातालमिव सान्धकारकन्दः, प्रसूतनिःसंख्यापत्यमिव दिङ्नागयूथैः, उत्थापितप्रबल बहुलप्रदोषमिव तमालतरुमण्डलैः, आवासितापारवासरमिव स्वर्णसानुप्रभाप्राग्भाः, प्रकटितानेकरामायणमिव किलिकिलायमानवानरानीकनिकायैः, दर्शितापूर्वप्रजासर्गमिव किंपुरुषवगैः, क्वचिद् बद्धमण्डलगरुडगोत्रपक्षिव्यावर्ण्यमानीपान्तरप्रचारवार्त, क्वचिद् विपक्षवार गविरोधपरिणतगजोन्मूलितगलद्गण्डशैलं, क्वचिन्मृगारातिकरकुलिशदारितजलदगर्भोद्गीर्ण मुक्ता15 फलाकीर्ण, क्वचिन्नृत्तप्रवृत्तनीलकण्ठनिवहदर्शिताकालशाद्वलं, क्वचिन्मुग्धवनमहिषपुरस्कृत पलायमानाश्वमुखसमूह, त्रिविक्रममिव पादाग्रनिर्गत त्रिपथगासिन्घुप्रवाहं, रथमिव चक्रवर्तिबलचूर्णितासन्नभूतलं, मेरुकल्पपादपालीपरिगतमपि नमेरुकल्पपादपालीपरिगतं, वनगजालीसंकुलमपि नवनगजालीसंकुलं तमवलोकितवान् । १९३) उपजातविस्मयं च तं तस्य शिखरिणः स्वभावरमणीयासु शिखरश्रेणिषु 20 पुनः पुनः प्रहितदृशमुद्दिश्य ननाचार्य एकः समुच्चार्य जयशब्दमन्दध्वानजयिना स्वरेण प्रक्रमागतमिमं श्लोकमपठत् "दृश्यं भूमिभृतोऽस्य देव ! किमिह स्कन्धस्थविद्याधरश्रेणीयस्य वहन्ति यस्य समतामन्येऽपि गोत्राचलाः । द्रष्टव्यस्त्वमनन्यतुल्यमहिमा मध्ये धरित्रीभृतां येनाधःकृतखेचरेन्द्रततिना बद्धाऽस्य मूर्ध्नि स्थितिः ॥ ७३ ।। १९४) आकर्ण्य चैनमुद्भिन्नपुलकः सहर्षमब्रवीत्समरकेतुः- 'कुमार, साध्वनेन मङ्गलपाठकेन पठितम् । किं दृश्यते किं च वर्ण्यते सकलकुलधराधरसाधारणगुणप्रामगरिमा गिरिरेषः ? दर्शनीयो वर्णनीयश्च त्वमेको जगति येन निःसामान्यनिज चरितख: कृतसर्वान्यभूभृता निजभुजादण्डमात्रसहाायेन निर्गत्य शिबिरात्परिमितैरहोभिरावर्जितं 30 विद्याधरचक्रवर्तित्वम् , अनुचरीकृताः खेचराधिपतयः, विवेयीकृतं विद्यादेवताचक्रम् । तदास्तां तावदस्य शिखरिणो दर्शनव्यावर्गनानि । तमेवावेदय यथावृत्तमादितः प्रभृति 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001574
Book TitleTilakmanjari
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy