________________
तिलकमञ्जरी
कालकूटस्यापि रसपाटवापनोदिनीभिः, तक्षकस्यपि विषतीक्ष्णता तिरस्कारिणीभिः, भुवनत्रयस्यापि सुभगंकरणीभिः, अञ्जनमात्रदर्शितादृश्यदूरान्तरितभावाभिः,लेपमात्रप्रवर्तितानिलवर्त्मगमनाभिः, तिलकक्रियामात्रकृतसकलतनुतिरोभावाभिः , अभ्यवहारमात्रजितजरारोगमृत्युभयाभिः, महाप्रभावाभिः, ओषधीभिः, अवन्ध्याम् ; क्वचिदुपलरूपतापरिणतैकदेशेन तृणपलाशादिनार्धमग्नेन गम्यमानशीलैः शिलोदकैरशून्यां; क्वचित् पान्थतण्डुलप्रस्थम्पचैः प्रति- 5 गर्तमावर्तिना कपथनेन कथ्यमानप्रकृतिभिर्दहनोदकैरुपेतां ; क्वचिदुपान्तमूर्छितपतत्रिसूचितसामयः, सत्त्वरक्षार्थमाटविकरचितकाण्टिपरिवेवियो इकैर्विदूषितां ; स्थानस्थानेषु मणिमयोर्ध्वसंस्थानाभिः, महाप्रमाणत्वादुद्ग्रीवपुरुषप्रयत्नदृश्यमुखमण्डलाकृतिभिः , अन्तरिक्षचारिणा खेचरगणेन शिरसि पात्यमानपुष्पवृष्टिभिः, अनैदयुगीनमनुष्यकल्पिताभिः , कल्पान्तरस्थायिनीभिः, प्रसिद्धसिद्धप्रतिमाभिः, प्रसाधिताम् ; इतश्चेतश्च नाकिमिथुनमन्मथ- 10 क्रीडोचितैः, चित्तहारितया नन्दनवनोद्देशैरिव दिवश्च्युतैः, ईर्ष्यासमरविच्छिन्नकिन्नरमिथुनपिच्छलाञ्छितलतासद्मभिः, अन्योन्ययुद्ध-यमानपोत्रिप्रकाण्डतुण्डोच्छलितमुक्ताफलधवलितैः, अशङ्कमृगकुलकलिततापसाश्रमतमालवनवण्डैः , आहिण्डद्भरिभारुण्डमण्डलैः , आरण्यकोच्चोटितवल्कलपट्टकस्थपुटिताग्निशौचशिलातलैः, अनोकहस्कन्धावतीर्णसरसप्ररोहाभ्यूह्यमानधरणीगतनिधानैः, स्वर्णचूर्णावकीर्णभस्मपुञ्जकव्यज्यमाननरेन्द्रधातुवादक्रियैः, वरार्थिनिर- 15 शननरोपरुद्धगिरिशिखरचामुण्डायतनमण्डपैः , वातिककुट्टाकटङ्कशकलिताकृत्रिमशिवलिङ्गः , एकैकधार्मिकाध्युषितनिझरप्रपातासन्नाशून्यसिद्धायतनैः, विविक्षुसिद्धविक्षिप्तबलिशवलितासुरविवरद्वारैः, भीतभीताध्वन्यदृश्यमानरसातलसहोदरपतनकन्दरैः, यदृच्छाप्रवृत्तविद्याधरपुरन्ध्रिसान्निध्यक्षुभितरसकूपिकैः, स्मरान्धखेचरानीतभूगोचरवधूविलापवाचालैः, अर्धजर्जरद्विरदशय्यासहस्रसूचितातिक्रान्तचक्रवर्तिसैन्यसंनिवेशैः, प्रदेशैरुपशोभिता; सर्वतश्च सर्व. 20 विद्याधरनगरनिर्गतैः, सर्ववर्णान्तःपातिभिः, सर्वारम्भविरतैः, सर्वविषयप्रतिषेधलब्धाशयशुद्धिभिः, सिद्धिनिमित्तमङ्गीकृतारण्यवासैः, विरागतैश्च, अचिरप्रविष्टैश्च, सरित्तटनिवासिभिश्च, गिरिगुहाध्यासिभिश्च, गह्वरोपह्वरविहारिभिश्च, निर्झरानुसारिभिश्च, सदनीकृतल ताजालैश्च, प्रतिपन्नपर्णशालैश्च, परित्यक्ताभ्यवहारैश्च, फलमूलपायाहारैश्च, पञ्चतपःसाधनविधानसंलग्नैश्च, आकण्ठमुदकमग्नैश्च, प्रारब्धधूमपानाधोमुखैश्च, बध्नबिम्बनिरीक्षणोद्वीक्षणैश्च, 25 जञ्जपूकैश्च, वाचं यमैश्च, कैश्चित्कन्दमूलोद्वारिभिरवगाढवातातपोपहतवारिभिर्विधृताजिनजटाकलापैस्तापसाकल्प कलयद्भिः, कैश्चिदुद्दण्डकोदण्डपाणिभिः प्राणिविशसनोपरतैरन्तिकस्थप्रेयसीभिः संभोगसुखपराङ्मुखैः पत्रशबरपरिबह वहद्भिराप्तोपदेशप्रतिपन्न नानाविधवतैराराधयद्भिः साधयद्भिश्च नानाविधा विद्या विद्याधरैरध्यासितां ; स्फटिकराजपट्टप्रायो. पलां; सैकतप्रायभूतला ; नीवारप्रायतृणोलपां; कस्तूरिकामृगप्रायश्वापदां ; शिखण्डिपर- 30 भृतप्रायाण्डजां ; किंपुरुषप्रायवनचरां; चन्द्रकान्तनिःष्यन्दप्रायनिझरां; गल्वोद्गीर्णपावकप्रायदावानला; वनदेवतानिःश्वसितपवनप्रायमाझताम् ; एकशङ्गवैताढ्यपर्वतान्तरालादवी,
१८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org