________________
तिलकमञ्जरी
कराग्रेण सत्वरमुत्तरीयसिचयाञ्चलं, कदलीगृहाभ्यन्तर एवं द्वित्राणि पदान्यभिमुखमगच्छत् । उपसृतं च क्षितिचुम्बिना शिरसा कृतप्रणाममुक्षिप्य सरभसप्रसारितबाहुयुगलः प्रवेशयन्निव हृदयमेकतां नयन्निव शरीरेण निर्दयालेषनिष्पिष्टवक्षःस्थलपुलकजालमालिलिङ्ग । शिथिलितपरिष्वङ्ग च भूयः प्रणम्य भूमावुपविशन्तमाकृष्य निजविष्टरैकदेशे न्यवेशयत् । परिष्वज्य च पुनः पुनः प्रीतचेताः पप्रच्छ कुशलम् । स्थित्वा च तन्मुखासक्तदृष्टि- 5 रनतिदीर्घकालमीषद्वलितवानः स्मितोद्भेदविशदमक्षिपत् तस्यां क्षितिपदुहितरि चक्षुः । अवच-'देवि ! सोऽयमखिलसिंहलद्वापभर्तुमहाराजचन्द्रकेतोरात्मजन्मा स्वयंवृतो वरस्त्वदीयायाः स्वसुमलयसुन्दर्याः सकलवीरवर्गाग्रेसरो युवराजः समरकेतुर्यत्स्नेहमोहितेन मया मनोरथानामप्यपथभूतमप्रार्थिताभिमुखेन भगवता देवेन कथमपि करुणया संपादितमेकपद एव परिहृतं त्वदीयमुखपङ्कजावलोकनसुखमङ्गीकृतः कालमियन्तमेतावानयं क्लेशः'। 10 इत्युक्तवति हरिवाहने तां कृतस्मितामुत्थाय समरकेतुः सादर प्रणनाम । प्रणतोपविष्ट च तमसौ प्रकटितसंभ्रमारम्भविकसितपुटेन निश्चलपक्ष्मणा निस्तरङ्गतारकेण चक्षुषा पिबन्तीवालपन्तीवाह्वयन्तीव सविधे समुपवेशयन्तीव सप्रेमबहुमानमपश्यत् ।।
१८४) अत्रान्तरे कनकवेत्रहस्ता प्रविश्य प्रतीहारी सप्रश्रयमवनिपतिकन्यकां तां व्यजिज्ञपत्-'भर्तृदारिके ! देव्या पत्रलेखया त्वज्जीवितपरित्यागव्यवसायवार्तामाकर्ण्य 15 लोकादधिकमुत्पन्नहृदयोत्कम्पया विसृष्टः कञ्चुकी द्वारि तिष्ठति' इति । मुखनिहितनिश्चललोचना च सा विलम्ब्य क्षणमलब्धोत्तरा सत्वरमेव निश्चक्राम ॥
१८५) निर्गतायां च तस्यामतिक्रान्ते कियत्यपि कालक्षणे गीतविधिविचक्षणः कोऽपि मध्यदिनावसरपाठावसाने समासन्नदीर्घिकातीरवर्ती वारंवारमावर्तितपदामार्यामिमामुच्चैरगायत्
'तव राजहंस ! हंसीदर्शनमुदितस्य विस्मृतो नूनम् ।
सरसिजवनप्रवेशः समयेऽपि विलम्बसे तेन ॥६६।।'
श्रुत्वा च सुचिरमेतामवगतार्थो विहरय हरिवाहनस्तां महाराजकन्यामवादीत् । 'देवि ! देवज्ञावेदितस्य विद्याधरराजधानीपुरप्रवेशलग्नस्य समयातिलङ्घनशङ्किभिः शाक्यबुद्धिपुरःसरैः प्रवर्तितो बुद्धिसचिवैः विराधनामा नरेन्द्रनर्मसचिव एष हंसमिषेण 25 मामितो गमनाय त्वरयति । तदादिश । गच्छाम्यहम् । त्वमपि गत्वा देवीमवलोकय' । इत्यभिदधानः सहैव मागधजयध्वनिकलकलेनोदतिष्ठत् । द्वारसंगलितसावराङ्गरक्षककरतलप्रचलदुत्खातखड्गमण्डलीपरिगतश्च विकचनीलोत्पलवनमध्यचारी राजहंस इव गत्वा सविभ्रमं ससंभ्रमाधोरणढौकितां कुम्भपीठपातिताङ्कुशकोटिघटनोपविष्टामनवरतनिष्ठुराक्रोशकर्शितोत्थानयत्नां यानगजवशामग्रतोऽधिरूढेन समरकेतुना समर्पितपाणिरध्यरोहत् ॥ 30
१८६) अथोष्णीषपट्टकृतशिरोवेष्टना दृढाकृष्टकञ्चुककशाधिक कृशोदरश्रियः स्कन्धविन्यस्तवलाविहस्ताग्रवामहस्तास्तदितरकरावलम्बमानलम्बाजिनयष्टयः पादकटक.
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org