SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ कविधनपाल कृतां शार्थमुद्गतं तपनमण्डलमिव सपरिवेषमुत्तमाङ्गच्छविमुद्वहन्तम्, इतस्ततः प्रहितरलतारकाभिदिग्भिरिव सेवागताभिश्चतसृभिर्वारवनिताभिरुद्धूयमानचामरम् ; उदारनेपथ्यसहचरी - वृन्दपरिवृतया विधूयमानेन कान्त्या विलासिनी संहत्या च विरलविरल मुज्ज्वलहेमदण्डेन बालव्यजनकव्रजेन वीज्यमानया सखीजनोत्सङ्गनिहितनिः सहार्घदेहया धृतैकैकमणिवलय5 मात्रालङ्कारया ताम्बूलविर होत्कलितमधुरबिम्बाधररागया शरदिवेव चन्दनागपाण्डुरपयोधरया राजहंसिकयेव सरसमृणालिकाहारभूषितशरीरया तत्कालमेव सलिलादुद्धृतैः कमलकुमुद्रकुवलयमृणालैः कल्पितोपधानमब्जिनीपत्रसंस्तरमधिशयानया जगत्त्रयातिशायि - रूपलावण्यया नवीनवयसा नरेन्द्रकन्यया सनाथीकृतपार्श्वम्, अंह्निपैरपि कृतोर्ध्वावस्थानैरनुजीविभिरिव परिवृतं, कदलीभिरप्यनिलद्दोलायित दलाभिश्चामरग्राहिणीभिरिव वीज्य - 10 मानं, धरण्याप्युपरिवृतसरलकाण्डसुरपादपया गृहीतातपत्र येवोत्सङ्गितम्, अह्नापि तरुशाखान्तरप्रवेशितप्रांशुर विक रेण प्रतिपन्नकनकवेत्रेणेव प्रकटितानुभावं, हरिवाहनमद्राक्षीत् ॥ " १८२ ) अथोपसृत्य पुरतः सत्वरेण स्खलत्पदप्रसरया गिरा गत्या च सूचितहृदयहर्ष प्रकर्षेण 'देव ! दिष्टया वर्धसे, परागतो युवराजः समरकेतुः' इत्यावेदिते गन्धर्वण संभ्रान्तचेताः सहसैव हरिवाहनः, परित्यज्य तथा राजकन्यया सह प्रवृत्तां 15 कथां, ‘कथय कथय, क्व वर्तते' इति सगद्गद् गदन्नासनादुत्तस्थौ । द्वारदेशावस्थापितेक्षणश्च दृष्टवानीपदवनतदृष्टिम् आपतन्तमभिमुखं, दुःखविधृतकण्ठदेशागतोद्गाढबाष्पवेगम्, अकृत्रिमानुरागेण सुहृदा प्रथममेव प्रणयिनीकृताया विद्याधर विषयभूमेर्महादेवीपदाभिषेकमिव कर्तुं तुषारनिःष्यन्दशिशिरैरानन्दाश्रुवारिभिराकर्णमायते नयनापात्रे पूरयन्तम्, अविरलकराङ्गुलीगलन्नखमयूखजालजलधारेण रोमाञ्चजालकमुचा म 20 मन्द्र दोलायमानेन प्रांशुना भुजादण्डद्वयेन सद्य एव प्रतीर्णायाः प्रियसुहृद्दर्शनप्रतिज्ञापगायाः पारमाश्रयन्तमिव लक्ष्यमाणम्, अतिशयकर्कशेन वातातपस्पर्शेनातिमात्रकशितमपि जलनिधिभिवापरित्यक्तसहज लावण्यम्, अभिनवलताप्रताननद्धविकटोर्ध्व जूटम् अधिजघनमासक्तसूक्ष्मवल्कलम्, अनिललुलितेन वनतरुपुष्परेणुना धूसरितक्लावयवम्, अनेकदुःखनिधानमानुष्यकद्वेषेण वृक्षतामिव लब्धुमारब्धोद्यमम्, आधारमिव धैर्यस्य, हृदयवि 25 सौहृदस्य, स्वतत्त्वमिव सत्त्वस्य, परिपाकमिव पौरुषस्य, जयस्तम्भमिवावष्टम्भस्य, दृष्टान्तमित्र कष्टंसहानाम्, सुदुस्तरव्यसनसागरविलङ्घनैकसेतुं समरकेतुम् ॥ १३४ १८३) आलोकितमात्र एव तत्र, गलितनिः शेषहृदयातङ्कभारः सहसैवाध्यासितस्वदेशभिव दृष्टसकलस्त्रज्ञा तिलोकमिवाने कसहा यशतपरिवृतमिव प्रत्यागतसमस्त पूर्वानु भूतनिर्भरक्रीडासुखसमूहमिवात्मानमुद्वहन्, अधिष्ठितोभयकपोलेन सिंहलेश्वरसू नुमभि 30 सरभावितस्य चक्षुषः प्रसरमपवारयन्तमानन्दा भुजलपटलमिव परिमार्ज्जुमनवरत मुत्तिष्टता पुलकजालकेन पिशुनितान्तः प्रहर्षोदयः, किसलयाग्रहस्त पर्यस्तदशमुद्विका शकुसुमप्रकटितस्मिताभिः पूर्णपात्र संभावनयेव वारंवारमवलम्ब्यमानमासन्नवर्तिनीभिर्वनलताभिराकर्षन् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001574
Book TitleTilakmanjari
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy