________________
तिलकमरी
सदोहसंदेहदायिनां कदलीगृह णामन्तरेण स्तोकान्तरमतिक्रम्य, अंहिपच्छायाकलापमिव पल्लवितम् , अश्वकान्तिहरितं हरिदश्वरथपताकानिकुरम्बगिव प्रतिबिम्बितम् , अम्बरमन्नाकिनीजम्बालकूटमिव वीचिविघटनभ्रष्टम् , अभ्रसमयध्वन्त संचातभिव नभसः शर्वरीविरहविनोदनागतम् अनिलसङ्गतरलाभिरुष्णसमयमवजित्यावर्जित निबैंजयन्तीवित तिभिरिव प्रान्तपातिततपनपादच्छेद नवाञ्छया व्यापारिताभिः परश्वधपरम्पराभिरिव पत्त्रराजिभिरव्यज्य- 5 मानविवराभिर्विराजितम् , अविरतारब्धवारिच्छटासेककिङ्करपुरुषमध्यपतितेन शतपत्त्रकोशरजःकषायमुदकशीकरनिकरमादाय पुनरुक्तमापतता पर्यन्तसरसीसमीरणेन कौतुकादिव चतुर्दिशमुपसिक्यमानम् , उपरचितसिन्दूरकुट्टिमकमनीयाभ्यन्तरम् . अन्तःप्ररूढस्य किञ्चिदारूढप्रोढेरुद्राढसौकुमार्यावलीढसुदृढमूलस्य मूलभागकल्पितेनानल्पीयसा कार्तस्वरशिलापीठबन्धेन महार्ह सिंहासनेनेव यथार्थीकृतसकलवनस्पत्याधिपत्यस्य प्रवालभङ्गमुग्ध- 10 स्निग्धपल्लबालङ्कृतस्य मरकतहरितहारिपत्त्रनिवह निवारितदिनेशदीधितिप्रवेशविशदच्छायस्य विसारिसौरभाहृताभिरपहायोपवनपादपानुपसर्पन्तीभिर्मदान्धमधुपधोरणीभिरहमहमिकयेव विलुप्यमानमञ्जरीजालकस्य मुनिजनमनःस्खलिदमार्गणप्रसरामर्षितेन कुसुमधनुषासकत्सायकीकृतकुसुमस्य दक्षिणश्रवप्सि गृहीतसविशेषभूषण या स्मरप्रणयिन्या शतशोऽवतंसिताप्रकिसलयस्य दिङ्मुखविसर्पणक्षीणपरिमलेन मलयमस्ता सततमापीतपरिमलस्य परिमण्ड- 15 लतयातिमनोहरस्य नातिमहतः पारिजातकतरोनिरन्तराभिरविरलस्तबकभारखर्वितशिखाभिः शाखाततिभिः समन्ततः स्थगिता , उन्नवत: कृतोर्वावस्थानैः पृथुतरोरुस्तम्भशोभिभिः शरन्नभःसन्निभासितपत्रप्रभाश्यामायमानशरीरकान्तिभिः कदलीद्रुमैरिवापरैरुपरचितपति भिः पुरुषैः पुरोदर्शितदीर्घरथ्य मुखम् , अजिरकुट्टिमोपविष्टनिभृतभूपाललोकम् , एकदेशारब्धमधुरंगानगाधकपेटकोपजुष्टम् , उनघुष्टजयशब्दबन्दिवृन्दाध्यासितसविधभूभागम् , आगृहीत. 20 कनकदण्डप्रतीहारमण्डलाधिष्ठितद्वारदेशम् , अभिरामदर्शनम् , आरामलक्ष्म्याः साक्षादिव चतुःशालम् , अतिविशालम् , एकम् , अकठोरहारीतहरितप्रभ रम्भागृहमपश्यत् ॥
१८१) तस्य च मध्यभागे कृतावस्थानम् , अमलांशुकच्छादिते किशुकच्छविनि चरणारविन्द्रशचिसंतान इव स्त्यानतां गते पृथुनि कुरुविन्दमणिशिलातले निषण्णम् , अच्छशिशिरेण शैलेन्द्रमिव हिमद्रवेण चन्द्रातपरुचा दिव्यचन्दनेनापात्मनुलिप्तम् , अतिविमल- 25 घनसूत्रेण संख्यानशास्त्रणेव नवदशालङ्कृतेन वेतचीनवस्त्रद्वयेन संवीतम् , अखिलदेहाभरणमणिसंक्रान्ताभिरासन्नचामरग्राहिणीप्रतिमाभिर्विद्यादेवताभिरिव सद्यःसाधिताभिः सर्वतोऽधिष्ठितशरीरम् , नाभिलम्बम भिनवं मौक्तिकपालम्बमद्याप्यशुष्कमभिषेकवारिकणकलापमिव हेमाचलशिलाविशालेन वक्षसा धारयन्तम् , निसर्गनिर्मलालोकाभ्यामभिनवं नयमार्गमुपदेष्टुममरगुरुभार्गवाभ्यामिवोपगताभ्यामिन्दुमणिकुण्डलाभ्यामाश्रितोभयश्रवणम् , 30 अलिकतटसङ्गिना विततभास्वरेण कनकपट्टबन्धेन वलयितमुत्तम मणिमुकुटमरिकुलविना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org