SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ १३२ कविधनपाल कृता दर्शयन्तीः, काश्चिन्मरकतप्रभाप्रवाहहरितायमानकान्तिनिर्भरतया शेवालितलावण्यजलानीवाङ्गनि दधतीः, काश्चिदिन्द्रनीलप्रकृतीरुपान्तज्वलन्मणिप्रदीपप्रतिबिम्बकरम्बितावयवतया निश्चलोल्काकलापदन्तुरमुत्पातान्तरिक्षमिवाक्षिपन्तीः, रूपान्तरनिरीक्षणप्रवर्धगानाक्षेपतथा मन्दीभूतहरिवाहनदिदृक्षारसः क्षरदमन्दानन्दवाप्पवृष्टिललाटयटिताञ्जलिपुटा गौरवाकृष्टेनेव 5 सुदूरमवनमता मुहुर्मुहुरुत्तमाकोन बन्दमानो जिनानामजितादीनामप्रतिमशोभाः प्रतिमाः, प्रदक्षिणीकृतमूलायतनस्तत्कालम् 'इत इतो गम्यताम्' इत्यभिधाय पुरःस्थितेन स्कन्ध. देशारोपितकृपाणयष्टिना गन्धर्वकेणोपदिश्यमानमरणिः, उत्तरप्राकारप्रतोलिकया निर्जगाम ।। १७८) गत्वा च किञ्चिदन्तरमुत्तरदिग्विभागेनोद्यानस्य, दूरादेव रदनविघट्टनजन्मनाऽतिमुखरेण खरखलीनखणखणारवेणाऽनुशीयमानम् , आननस्रस्तपाण्डुरफेन10 पिण्डस्तबकतारकितभूतलम् , आलोलकर्णचामरशिखाहतिविषमविकूणितेक्षणं, पर्याणव पर्यन्तोद्गतदराश्यानफेनराजिव्यज्यमानदूरागमनखेदम् , इतस्ततः शब्दानुसारसंभ्रमवलमानस्तब्धकर्णशुक्तियुगलम् , अनवरत चरणाप्रवल्गनायासितवल्गावलग्नप्रेष्यपुरुषपरुपहुकारपुन: रुक्तोन्नमन्निमासमुखनालम् , आपूरितवनान्तरालतरुतलम् , अतुलमश्ववृन्दमद्राक्षीत् ।। १७९) दृष्ट्वा च विस्मितमानसः, 'सरस्तीरातिमुक्तकलतामन्दिशेवर प्रसुप्तेन 15 निद्राविगमे मया श्रुतो यः श्रुतिपथोन्माथी हेपाध्वनिः स नूनममुना सरोभ्यर्णचारिणा प्रथममिदमुद्यानमवतरता तुरङ्गव्यूहेन कृतः' इति वितर्कयत एवास्य, मकरकेतुसैन्यास्फालितचापसहस्रनिघोपमांसलो, गृहागतहरिवाहनमहर्षप्रनृत्ताया रसनाकलापरवइवो द्यानश्रियो दशनार्धगृहीतदर्भार्भस्थलीस्थितप्राथपुटान्युत्कोटिविषाणच्छलेन स्थूलशूलप्रोता नीवातिनिश्चलानि मुखान्युद्वहमानामीलितदृष्टिभिः कृष्णसारैः श्रूयमाणः, इतस्ततस्तार20 कितभूतलमानन्दाश्रुबिन्दुविसरमिव कुसुमप्रकरभनवरतमुत्सृजद्भिः विरहकविटपैः सूच्य मानपञ्चमस्वरप्रवृत्तिर, आमन्द्रास्फालितमृदङ्गनादोत्कण्ठितानां च शितिकण्ठवयसामुदाञ्चित. कण्ठकन्दलीदीर्पण क्रियमाणषड्जस्वरानुवाद इव कूजितेन, रतिरसतरङ्गिणीपुरायमाणस्तरुगहनान्तरितमूर्तेर्गाथकजनस्य प्रबलवेणुवीणाविलाससंवलनतारो, गीतझात्कारः कर्णमूलमविशत् ॥ १८०) तेन च मनुष्यलोकदुःश्रवेण अवणेन्द्रिवाहादिना सुहृदयस्थानलीलापि शुनेन श्रवणविषयमुपसेदुषा दिव्यगीतशब्देनोत्सार्य गाम्भीर्य मुद्गताश्रुबिन्दुक्लिन्नलोचनोदरेण कठोरपुलकपक्ष्मलितकपोलभित्तिना स्मितज्योत्स्नाविशदेन वदनशशिना व्यक्तीकृतं हपवैकृतं नियन्तुमितस्ततो दृष्टिपातैः कृतालीकचित्तव्याक्षिप्तिः, अभ्यर्गप्टसमागमप्रीतिरसविसंस्थूलैर खिलाङ्गः परवानिव, अनेकसहस्राख्यानामेकनीलवर्णमिव विश्व दर्शयितुमुत्थितानां 30 पृथक्पृथग्वीथीक्रमनिर्मितानामपि परस्परसंपविणातिमांसलेन हसितनीलीरसनीलिन्ना प्रभाप्लवेन निर्विभागानामिव विभाव्यमानानां सुधनविजयप्रवृत्तमकरध्वजगजानीककदलिका 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001574
Book TitleTilakmanjari
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy