________________
तिलकमञ्जरी
१२५ कथितमन्दरक्रोधेन निर्भय॑ वैरोच निममरशैलमिव पातालमूलान्निर्गतम् , अशेषतश्च विसर्पता कुसुम्भरसरागलोहितेनातिबहलतया किसलयीकृतप्रान्तवनस्पतिपलाशराशिना प्रवालयष्टीकृतार्ककिरणेन सान्ध्यसमयीकृतवासरेणालक्तकतूलपटलीकृतशिखरासन्नघनमण्डलेन भक्तिपरसुरसुन्दरीसुखावतरणाय सिन्दूरकुट्टिमानीव रचयता ग्रीष्मवशविज़म्भितरजोरोधाय कुङ्कुमजलासारमिव क्षिपता गगनकुट्टिमालङ्करणाय जपाकुसुमनिकरानिव प्रकिरता 5 दाहावलोकनसकौतुकोपवनप्रीतये मिथ्यादवाग्निमिव प्रथयता तरुतलान्धकारतिरस्काराय तरुणातपमिव वर्षता प्रभाजालेन दिवापि ज्वलितोषधिकलापमिव पल्लवितरक्ताशोकमिव कुसुमितपलाशमिव विकसितबन्धूकमिव तं प्रदेशं कुर्वाणम् , उत्कृष्टाष्टापदघटितेन तडिपाटलत्विषा मरकतकपिशीर्षकप्रभाजटालेन सतिमिरसन्ध्यारागवलयेनेव रविमण्डलममरगिरिवप्राकारेण न वप्राकारेण परिवृतम् , अन्तःप्राकारभित्ति समन्ततो निर्मितानामति- 10 रम्याकृतीनां स्फाटिकानामपि संक्रान्ततरुप्रतिमाश्यामायमानकान्तितया मरकतमयानामिव प्रासादानामासादितपरभागैः शिखरमण्डलाइम्बरधारिभिः प्रतिबिम्बैः परिक्षिप्तशिखरम् , अग्रशिखरसङ्गिनो मृगाङ्कमणिकलशस्थ ज्योत्स्नापटलपाण्डुना द्युतिमण्डलेन महत्त्वचरितार्थतापादनार्थ धृतेन धवलातपत्रेणेव विस्तारितच्छायम् , अच्छमणिकुट्टिमोच्छलत्प्रभापटलनिर्मग्नमूलतया प्लवमानमिव, सुघटितस्फटिकोपलपट्टकल्पितानल्पपीठबन्धात्यच्छतयाs- 15 न्तरिक्षस्थित मेव विभाव्यमानं : कृतावलोकनमिवेन्द्रनीलजालकैः, विहिताह्वानमिव पवनचलितोर्ध्वध्वजपताकाञ्चलैः, प्रस्तुतप्रत्युत्थानमिव तुङ्गस्तम्भैः, आरब्धसंभाषणमिव गवाक्षमुखनिलीनकलापिकेकारवैः, क्वचित् सितभुजङ्गशङ्किमयूरोपरुध्यमानबिम्बागतचलच्चीनांशुकपताकं, क्वचितचचुशुकमुच्यमानदाडिमवीजबुद्धिजग्घसूर्यकान्तवान्ताग्निकणिक, क्वचित् प्रदीपलोलशलभलङ्घयमानोच्छिखपुष्परागं, क्वचिदामिषाशनश्येनहेलाक्रम्यमाणकृत्रि- 20 मविहङ्ग, क्वचिन्मदनपरायत्तमत्तपारापतपरिक्षिप्यमाणनिजप्रतिबिम्बं, क्वचिदम्बुधारोत्कचातकचुम्व्यमानमौक्तिककलतामालम्बम् , वैशम्पायनशापकथाप्रक्रममिव दुर्वर्णशुकनासमनोरमं, जीवमिव चित्रकर्मखचितप्रदेश, विदग्धकामिनीकेलिमन्दिरमिव मणितारावभासितोदरम् , उत्तमपुरुषमिव विशालनेत्रहृत्कपाटं, चक्रवर्तिसैन्यमिवानेकरत्नशारीकृतभत्तवारणपरिकर, वराङ्गनावपुरिव शातकुम्भस्तम्भधृतपीवरोरुतुल, वसन्त चूतद्रुममिव 25 चारुमञ्जरीकम् , अनेकमणिमालालङ्कृतमपि रत्नचतुष्कराजितं, ध्वजाधिष्ठितमपि सिंहाक्रान्तम् , अङ्गीकृतविमानाकारमपि सर्वतोभद्रम् , अग्रमणिभूमिनिपतितप्रतिमानिभेन च भग्नगतिना दिनकरेणापि सदैन्यमात्मरथप्रस्थानपथमिव प्रार्थमान, शिखरोल्लेखनदुःस्थितेन व्योम्नापि मन्थरतामिव ग्राह्यमाणं, कृत्रिममृगेन्द्रक्रमघातभीतेन जलदवृन्देनाप्यभयमिव याच्यमानम् , संभावनीयोच्छायजनितविस्मयेन निजप्रतिबिम्बेनाऽपि निपत्ये- 30 वालोक्यमान, प्रलयार्कमण्डलोत्पत्तिमृत्पिण्डमिव प्रजापतिकुलालस्य, मौलिमुकुटमिव मर्त्यलाकभूपालस्य, तपनीयबुध्नमिव तारकाकुसुमनभःकल्पद्रुमस्य, विद्रुमकलशमिव शेषा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org