________________
कविधनपालकृता
१२४
व्यक्तं जगत्यदृष्टवशाद् विशाल गुणसंपद् द्भिरण्यसुलभाः स्वल्पगुणैरपि सुप्रापाः प्रसिद्धयो भवन्ति, येनात्र निरन्तर कदली कलापान्तरितदिङ्मुखे मदमुखरासंख्य शिखिकुलोद्भासिन्यनन्तलतान्तकोटिसंकटैकैकवृक्षविटपे सत्यपि कानने तदेकरम्भाक्रान्तमन्तर्भ्रान्तिसप्तमात्रचित्र शिखण्डि कतिपयाभिरेव सुमनसां कोटिभिराकीर्णममरोद्यानमावर्ण्यते । किमिदमसमीक्षित5 कारिणो जनस्य जाड्य विलसितम् ? उत निरङ्कुशगिरां कवीनामलीकाभिनिवेषः ? आहोस्वित् तस्यैव दूरदेशावस्थानसामर्थ्यम् १ सर्वथा स्वर्णभूमिसंसर्गस्यैवायं प्रभावः; प्रतिगुणस्थानस्थितस्यासतोऽपि हि माहात्म्यमाविर्भवति ; पद्मिनीदलोत्सङ्गसङ्गी जलबिन्दुरपि मुक्ताफलद्युतिमालम्बते ; मृगाङ्कबिम्बचुम्बी कलङ्कोऽप्यलङ्कारकरणिं धत्ते ; कुरङ्गलोचनालोचनलब्धपद्मञ्जनमपि मण्डनायते”; इत्यादिसंकल्पजालसंकुलेन रसाकुली10 भूतसकलेन्द्रियवृत्तिना तत्कालमन्यतामिवापन्नेनान्तरात्मना मदनमयनिव शृङ्गारमयमिव प्रीतिमयमिवानन्दमयमिव विलासमयमिव रम्यतामयमिवोत्सवमयमिव सकलजीवलोकमाकलयन्, अनिलोद्धूतैः समन्ततः प्रचलितैरतिप्रबलतयाऽकालनीहार वृष्टिमिव दर्शयद्भिः कुसुमधूलिपटलैर्धवलीकृतविग्रहो वसन्त इव विग्रहवान्, इतस्ततः पचरणमालास्पर्धयेव धावन्त्या कुसुमनिर्भरद्रुमावकृष्टया दृष्टया कदर्थ्यमानः प्रतिलतादोलमुत्पद्यमानान्दोलनप्रतिदीर्घिकमाविर्भवज्जलक्रीडाभिलाषः,
15 स्पृहः,
प्रतितरुच्छायमुपजायमान विश्रामेच्छः, प्रतिपत्रमण्डपमुल्लसद्दिवसा तिवाहन वाञ्छः, स्वच्छन्दनिपतितानेक तरु कुसुमप्रकरमेदुरितमेदिनीपृष्ठचारुणा चरणपातमञ्जुशिञ्जानमुकुमारसिकतेन तस्योद्यानस्य मध्यभागेन कतिपयशरक्षेपमात्रमध्वानमतिक्रान्तः; कदाचिददृष्टपूर्वमितरतरुविलक्षणाकारतयाऽप्यभूतकरम्, उद्रश्मिमरकतच्छदच्छायान्धकारितदिगन्तरम्, अनिलतरललता तरङ्गितैरनेकवर्ण चारुभिर्दिव्यां 20 शुककलापैः पल्लवितम्, उल्लसत्करालकिरणस्तम्बैः शाखावलम्बिभिराभरणानि कुरुम्बैः स्तबकितम्, अमरकामिनी संवाहनविलासम सृणिताभिरायामिनीभिर्मणिलता दोलाभिर्दन्तुरितम्, अन्तरान्तरा च तारकितत लभूभागैरालीढफलमधुवारविद्याधरद्वन्द्वोज्झितै रक्तपङ्कजप्रकरानुकारिभिः पद्मरागचषकचक्रवालैरलंकृतम्, इतस्ततश्च चित्रीकृताच्छिद्रच्छायैरध्वखिन्नसिद्धाध्वन्यशयनीकृतैः शाखान्तर।लनिपतितातपच्छेदचारुभिश्चामीकरवल्कलैर्विभूषितम् अशेषता 25 जटालीकृतविटपत्रातैः शिखरसञ्चरद्वनदेवता केशपाशभ्रंशिभिः प्रालम्बायमानैर्दिव्यकुसुमदामभिरामोदितम्, अमन्दसान्ध्यरागभिन्नाभिनवघनसंघातकल्पम्, अनल्पं, कल्पतरुखण्डमपश्यत् ॥
१६८) तस्य च मध्यभागे झगिति दीपिताशेषदिग्भागम्, आभोगरुद्धवसुन्धरोत्सङ्गम्, उत्तुङ्गशृङ्गोत्तम्भिताम्बरम् अतिभास्वरत्वादपरिस्फुट विभाव्यमानावयवशोभम्, 30 उद्यान जाड्यपीडया द्वाग्निशिखापण्डमिव पिण्डीभूय स्थितम्, अभ्राश्रभ्रमिखेदेन सौचमिनीसंदोहमिव लब्धनिद्रम्, उदधिजलात्यशनदुःखासिकया वडवामुखमिवागत्य विश्रान्तम्, उद्दण्डवात्यावर्तत्रशेन भोगावतीशातकुम्भाम्भोजवनरजोराशिमिवाकाशमुत्पतितम् अमृतमथन
Jain Education International
For Private & Personal Use Only
,
www.jainelibrary.org