________________
तिलकमञ्जरी
दातपस्पृहयालुकपिपोतसेव्यमानरताशोकपल्लवव्यूह', क्वचिदालीढपिप्पलीफलकलकण्ठकुहरकुहकुहायमानदात्यूह', क्वचित् कृष्णागुरुच्छायानिषण्णरोमन्थायमानचमरमिथुन, क्वचिदाकर्ण्यमानग्रन्थिपर्णकग्रासिकस्तूरिकाकुरङ्गदशनबुबुरस्वनं बहुशो गन्धर्वबालिकावकृष्टस्फुटिततरुवल्कलोद्गीर्णघनसारम् , अनेकशो गुह्यकाभिसारिकासेवितनमेरुवीथिकान्धकारम् , असकृसिद्धसुन्दरीनिबद्धबालमन्दारद्रुमालवाल; सततमवतरल्लालसभुजङ्गभामिनीभग्नसंता- 5 नकानेकप्रवालम् ; अन्तरान्तरा च विकचकाञ्चनारविन्दवनराजिनीभिर्मदज्वरवेदनाविदूनविद्याधरीपरिभुतविविक्तोदरैः सान्द्रहरिचन्दनलतामन्दिरैः श्यामलीकृतपरिसराभिरुपयुपरिघटितस्फटिकशिलाश्रेणीतरङ्गिततीराभिर्नीरापसर्पणक्रमस्थितस्त्यानफेनराजिभिरिव पयस्यमानपयःप्रपूरिताभिः सरसीभिरुद्भासितम् , अम्भोधिमथनमिव सुरभिपारिजातोद्गमसुभगमुत्सर्पितगरं च, त्र्यम्बकोत्तमाङ्गमिवपतत्रिमार्गाङ्कितमध्यमानीलनागलतावनद्धबालपूग च, 10 कामिनीकपोलतलमिव पत्रलतालीकृतच्छायमुद्यन्मधूकधवल च, आपानगोष्ठीबन्धमिव मधुकरकामोदितमामत्तनानामधुपमण्डलीमुखरितं च, कश्मीरमण्डलमिव विकसत्कुङ्कुमकच्छकमनीयमनेककीरग्रामानुगतं च, वातरोगोपहतमिव बहुगुल्मसंकुलोदरं श्यामलताक्रान्तं च, सर इवोत्पलाशमल्लिकाक्षमुरुतरलहरिसेवितं च, पादपैरपि पवनकम्प्रशिखरैर्विस्मयचलितमौलिभिरिव निवण्यमानं, लताभिरपि विकसितस्तबकाभिः कौतुकोत्तानलोचना- 15 भिरिव विलोक्यमान, विटपैरपि विततपल्लवान्तरितरविकरप्रवेशैरीाप्रसारितकरसहरिव ब्रियमाणम् , ऋतुभिरपि दर्शित निजनिजद्रुमकुसुमसमृद्धिभिरन्योन्यबद्धस्पर्धेरिवाध्युष्यमाणम् , एकमन्दिरमिव सकलवनदेवतानां, नन्दनमिव नन्दनस्य, तिलकमिव त्रिलोक्याः , रतिगृहमिव रतेः, आयुधागारमिव कुसुमायुधस्य, राजधानीनगरमिव मधोः समन्ततोऽर्धगव्यूतिमात्रपरिणाहम् , अशेषतः क्रकचक्षतकरिदन्तक्षोदपाण्डुरतरेण क्षोदीयसा मौक्तिकचूर्णवालुका- 20 प्रकरेण समसुकुमारभूतलम् , अतिबहलस्निग्धपादपाभिरामम् , आराममद्राक्षीत् ।
१६७) तस्य चारामस्य रमणीयतानिधानं, नानाविधाभिधानतरुसहस्रसंबाधमपन्धकारनिर्भरतया तमालमयमिवोपलक्ष्यमाणम् , अतिशीतलतया च कन्दरमिव हिमाद्रेः, उदरभिव क्षीरोदस्य, हृदयमिव हेमन्तस्य, शरीरान्तरमिव शिशिरानिलस्य, तुषारगिरिजन्मभूमिभूतमभ्यन्तरमवततार । अवतीर्णश्च तस्मिंस्तापमतापमातपमनातपं तपनमतपनं 25 दिवसमदिवसं ग्रीष्ममग्रीष्म कालमकालं तुषारपातमतुषारपातं त्रिभुवनमत्रिभुवन सर्गक्रममस्त । समचिन्तयञ्च
" मन्ये दक्षिणमारुतेन विदितं सेव्यत्वमस्येदृशं, तेनोत्सृज्य वनानि चन्दनगिरेरुद्दामशैत्यान्यपि । याम्याशाविरहोल्लसद्दवथुना नाथेन धाम्नां समं, संजाते शिशिरात्यये धनपतेराशामुखं सर्पति ।। ६२ ।।
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org