________________
तिलकमारी
१२१ त्प्रौढिमायात, पारिजातदुममद्राक्षीत । दर्शनानुपदमेव च प्रबुद्धः प्रवृद्धविभवेन सख्या सह समागमप्राप्तिमचिरभाविनी निरचैपीत् ।।
१३) विशेषावगतये च स्वप्नस्य कृतयत्नः सहसैवोच्चरन्तमतितारम् ‘उत्क्षिप्तगुरुकार्यभारस्य भवतः किमियं प्रमादासक्तिः' इति तर्जयन्तमिव, “धीरप्रकृते ! सरोदर्शनमात्रेणापि विस्मितोऽसि ?' इत्युपहसन्तमिव, 'तूर्णमेहि, दर्शयामि रम्यप्रदेशपरम्पराम ,' 5 इत्याह यन्तमिव, तत्क्षणत्यक्तपङ्कावगाहकेलिभिरुत्कर्णपल्लवैरुल्लसितरोमाञ्चभीषणाकृतिभिरुन्नमितघोणैराघरध्वनिगर्भगलगह्वर्वराहयूथपतिभिः ससंभ्रममाकर्ण्यमान, समन्ततो विजम्भितभीमप्रतिशब्दतया प्रत्युद्गम्यमानमिवारण्यचतुरङ्गहेषासहस्रैरतिविस्तारितया कम्पयन्तमिव प्लावयन्तमिव तर्जयन्तमिव कान्तारमतिमहतोऽश्ववृन्दस्य श्रवणपरुषहेषाध्वनिमश्रौषीत् । 'हन्त, कस्मादयमदृश्यमानमर्त्यसंचारे निरन्तरगिरिग्रावदुर्गमाध्वनि 10 मृगाधिपप्रमुखप्रेतत्सत्त्वभीपणे महारण्येऽस्मिन्नकाण्ड एव दिङ्मण्डलाट्टहासानुकारी समुल्लसितो हेपारवः ? किं तावदत्राभ्यर्णवर्ति किमपि नगरमास्ते ? किं वा कस्यचिद् दिग्विजयागतस्य नृपतेरावासित सैन्यम् ? उत म्लेच्छराजपुत्रः कोऽपि मृगयाप्रसङ्गेनायातः ? आहोरिवदम्बरात स्वयमेवावतीर्णः स्नातु सप्तसप्तिः ? अथ गन्धर्वसुरविद्याधराणामन्यतमः कतमोऽपि कमनीयोद्देशदर्शनकुतूहली विहरति १' इति मुहूर्तमिव ध्यात्वा समुपजातजि- 15 ज्ञासस्तस्मातागृहाद् विनिःसृत्य सत्वरमध्यासिततटविटङ्कः समन्ततो विलोकयामास ।।
१६४) विप्रकृष्टतया तस्य प्रदेशस्य, प्रांशुतया सरोरोधसः, सान्द्रतया च द्रमावलीनां यदा प्रयत्नाहितचक्षुरपि न किञ्चिदद्राक्षीत् , तदाऽचिन्तयत्--'किमिदानी सरःपर्यन्तेषु निःशेयतो विचरामि ? अथवा किमनेन प्रस्तुतकार्यान्तरायकारिणा निरर्थकाध्यवसायेन ? सततचलप्रकृतिना हि पुरुषेण भवितव्यम् । संप्रति च विरतसंतापमुपशा. 20 न्तशोपमुत्तीर्णश्रममुल्लसितसविशेषोत्साहमध्वक्षम वर्तते वपुः १ तरुणदूर्वाप्रतानसुकुमारसमतलाश्च मार्गभूमयः ; प्रावृषेण्यजलदश्यामलानि च पुरस्ताद् विभाव्यन्ते पादपवनानि; प्रसन्नदिङ्मुखो मन्दपवनश्चानन्दशंसी चाद्यतनो वासरः ; सरःपरपारदर्शनौत्सुक्यपरवशं च मानसम् ; न चाद्यापि तिलकयति मध्यभागमम्बरश्रियो वासरमणिः ; अनारूढप्रौढयश्च नातिगाढमुद्वेजयन्ति घोमयः; तद् गच्छामि तावत् कियन्तमप्यध्वानम् ; पश्चात् कठो- 25 रतामुपेयुषि वासरे कम्मिंश्चित् प्रच्छायपादपे सरसि वा शैलप्रस्रवणे वा गिरिनदीस्रोतसि वा तापसाश्रमपदे वा विश्रम्य विश्रब्धनिर्वर्तितदेवतार्चनविधिर्विदग्धकविप्रबन्धैरिव परिपाकमधुरैर्विविधरसशालिभिस्तरुफलैराप्यायितवपुर्दिवसमवलोक्य स्तोकमग्रतः प्रस्थास्ये स्थास्यामि वा' इति ॥
१६५) कृतगमननिश्चयः प्रविश्य भूयो लतावेश्मनि, निबिडीकृतपरिधानो, 30 दृढावनद्धस्नानविरलकेशकलापः, प्रावृतोत्तरीयांशुकः, कठोरपङ्केरुहानुकारिणा करेण ૧૬
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org