________________
११९
तिलकमारी
नभस्तलादवतरतामानतपक्षपुटकण्ठनालानां, जलचरपतत्रिमण्डलानां, हेलानिपातजन्मना जर्जररवेण मुखरितोद्देशम् ; आराधनोद्यतविद्याधरावर्जितहृदयतया वैताढ्यमधिवसन्तीनां विद्यादेवतानामनवरतमापतद्भिर्वाहनैर्विहितानेकवृत्तान्तम् , तथाहि-क्वचिद्धरणमहिषीफणीन्द्रपीतारविन्दवातम् , क्वचिच्चक्रायुधागरुडकृतक्रीडाजलप्रपातम् कचिन्महामानसीसिंहचपेटास्फालितधनघटम् , क्वचिदच्युतातुरगखुरनाटयवाचालितशिलातटम् , क्वचिन्मानसी- 5 हंसजग्धमुग्धमृणालम् , क्वचिद्वत्राकुशीकुञ्जरकुम्भसिन्दूररञ्जितोर्मिजालम् ; सौमित्रिचरितमिव विस्तारितोर्मिलास्यशोभम् , विलासिनीगमनमिव कलहंसकलापकृतक्षोभम् , कुलाचलत्रयः मिव केसरिमहापातैगिछिभूषित', गगनमिव मकरमिथुनाध्यामितम् , दिनकरमिवानेकपत्ररथचक्राक्रन्दमुखरिताम्बरम् , रणाङ्गणमिवोत्कटशरारिबलाकाण्डकबरम् ; मद्गुरुतरुचितमपि नमद्गुरुतरुचितम् , बकैरवभासितमपि नवकैरवभासितम् , विषैकसदनमप्यमृतमयम्, 10 शङ्खनिधानमपि स्थोपेतम् , गाम्भीर्येण सत्त्वबहुलतया प्रसादवत्त्वेन विशालतागुणेन सेव्यतया च न केवलं विबुधानाम् , बुधानामपि मानसमधःकुर्वाणम् , अतिरमणीयम् , आनन्दकारि दृष्टेः; अदृष्टपाराभिधानं सरो दृष्टवान ;
वन्येभैभृशमपि गाह्यमानकूले, कालुष्य कलयति यत्र जातु नाम्भः । जात्यैवापहृतमलैः फलैरसक्त, संसक्त तटकतकदुमावलीनाम् ।।६१।। 15
१६१) तञ्च त्रिभुवनैकसारभूतं सरः सरभसप्रसारिभिदृष्टिपातै निरन्तरस्फुटितकैरवाकरमिव कुर्वन्नपूर्वविस्मयाकुलीकृतमानसः सिंहलेन्द्रसूनुर्मनसि कृतवान् । 'अहो, द्रष्टव्यतामुपेतः संसारः । सारतां गतो जीवलोकः । लोकोत्तर फलमवाप्तमुत्साहतरुणा । प्रकर्षों लब्धः परिपाकस्य शुभकर्मणा । पर्यन्तभूमिरधिष्ठिता कृतार्थभावस्य जन्मना । कोटिरध्यासिता पुण्यभागित्वस्य लोचनसृष्टया । दृष्टः समस्तरणीयानां सीमा । विलोकितः 20 कौतुकविधायिनामवधिः । वीक्षितो विस्मयनीयानामन्तः। साक्षात्कृतमद्भुतानामास्पदम् । आसादितं महिम्नामायतनम् । अधिगतमगाधानामधिष्ठानम् । अहो, काष्ठाधिरूढधवलिम्नो जलप्राग्भारस्य प्रसादातिशयचित्रम् ! यतो यतो दृष्टिरभिपतति ततस्ततश्चन्द्रिकामयमिव हिमानीमयमिव सुधामयमिव धरातलमालोकयति । किमेष तिमिरगुहान्तरूष्मणा विली. नेन वैताट्यशिखरिणा विस्तारितो रजतोपलजलप्रवाहः ? किं वाऽहिलालाविषपणभया. 25 दिहानिय मलयाद्रिणा विनिहितो रसद्रवौघश्चन्दनानाम् ? आहोस्विदमृतमथनोद्यतदेवासरत्रासादत्र निक्षिप्तः क्षीरसिन्धुना सारः सुधाकोशः ? कष्टं च कृतमिदं यदुपस्थिते मथनोपप्लवे पारिजातमृगलक्ष्मीप्रभृतीनि रत्नान्यत्र न स्थापितानि । यदि पुनः प्रथममेवास्थापयिष्यत्तदा नैकस्य, मन्दरशतानामपि न गोचरेऽभविष्यत् । इद च हेमारविन्दसहस्र सुन्दरमपहाय हिरण्यगर्भकपङ्कजाङ्कितोदर दामोदरवपुः किमर्थमाश्रितं श्रिया १ केन वा 30 कारणेन समग्रवरगुणोपेते सत्यस्मिन् पलितपाण्डुकरालशङ्खमण्डलो जलधिर्जगत्त्रयीतिलकभूतया जनुकन्यया वृतः पतिः ? व्यक्तमिदमिदानीन्तनम् , अन्यथा प्रथमोत्पन्ने
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org