________________
तिलकमञ्जरी
शाखिनामारुरुहुरातपच्छेदाः । शुभेतरालापसंवरणपरेव विस्तारितानिबद्धकोलाहलानि शकुनिकुलानि तरुकूलायकोटरेष्वसू षुपदुपवनराजिः। लग्नशुद्धयर्थमनेकशोदृष्टसलिलाकृष्टिसाम
र्थ्यमपराम्भोधिजलकटाहे तपनमण्डलघटीताम्रभाजन निचिक्षेप क्षपारम्भः । सन्ध्यारागरतांशुकधारिण्यो विलासिन्य इव गगनमरकतस्थालसंचारितसतारकतमिस्रदधिलवोन्मिश्रदूर्वापल्लवाः परस्परं संजग्मिरे ककुभः। उत्तरासङ्गशोभि स्वस्त्ययनमिव कर्तुमुज्जगाम 5 व्योम्नि सप्तर्षिमण्डलम् ॥
१५४) क्रमेण चातिक्रान्ते प्रदोषसमये, समुल्लासितपौरस्त्यनभसि मन्दमन्दमुद्भिद्यमाने सौधांशवे महसि, शशिकरप्रभासंवलिततिमिरासु तत्कालविकसितसकैरवेन्दी. वरवनाभिररण्यसरसीभिः स्पर्धमानासु दिक्षु, विघटितान्तरालतिमिरसंधानेषु विच्छिन्नतया प्रतीयमानेषु तरुषु, तरुतलास्तीर्णपर्णशयने शयाने निर्भर राजपुत्रान्वेषणक्लान्तवपुषि 10 पृतनापदातिलोके, निभृतसकलसत्त्वे सर्वतः शान्तसैनिकप्रचारसुखसंचारविशिखे विजन इव संलक्ष्यमाणे सैन्यसनिवेशे ; समरकेतुर्विसर्जितनिशावसरसेवायातराजलोकः, प्रस्थाप्य तत्कालसंनिहितमाप्तपरिचारकजन, निश्चित्य निजयैव प्रज्ञया प्रस्थानसमुचित्त शुचिमुर्तमुत्थाय निवसितप्रत्यग्रसितदुकूलयुगलो विकचमालतीदामरचितशेखरः, कपूरसंभेदसंभृतामोदेन संपाद्य सद्यःस्नापितार्चितकुलदेवतार्चाचर्चावशिष्टेन चन्दनद्रवेणाष्टमीचन्द्रलेखालाव- 15 ण्यलोपिनि स्वललाटफलके तिलकमुल्लासितकोमलनीलकिरणानिवहमवहिताभिः प्रस्थानमङ्गलविधावायुधागारदेवताभिरभिनवदलैदूर्वाकन्दलैरिवावकीर्णमादाय विपदापगासंतरणसेतुमार्ग खड्गमतिगुरुखड्गभारखेदितेनेव स्पन्दमानेन तत्क्षण दक्षिणेन भुजदण्डेन व्यञ्जितारब्धकार्यसिद्धिराविजयार्धपर्वतादध्यवसितकुमारान्वेषणो, वैश्रवणवल्लभां दिशं प्रत्युदचलत् ॥
१५५) चरणपल्लवोत्क्षेपसमकालमुत्थितेन च स्थगयता दिगन्तराणि तारमधु- 20 रेणकतो यामशङ्खरसितेनान्यतो जयतुरङ्गहेषितेन जनितहर्षः, सुधापङ्कपाण्डुर पूर्णकुम्भमिव जम्भारिककुभा पुरस्तादुपदर्शित वन्दमानस्तुहिनकरबिम्बमविलम्बितगतिर्वासभवनान्निरगच्छत् । अनुसृतदिवसदृष्टवा च तत्क्षणप्रसृतेन पृष्ठतो दक्षिणपवनेन, पुरतो वा वामनासिकापुटश्वसनेन सौम्यगतिनापि सत्वर प्रवर्तमानः प्रतिपन्नदक्षिणवाममार्गागमैः परं शिवं शंसद्भिरभिप्रेतसाधकैः शैवैरिव प्रधानशकुनैः पदे पदे दत्तनिवृतिः, 25 शर्वरीमनयत् । उद्गते च स्पष्टिताष्टदिङ्मुखे दशशतमयूखे पृष्ठतोऽन्वेष्टुमापतन्तमात्मनोऽभिलषितस्य प्रत्यूहभूतमभ्यूहमानो भूपतिसमूहमपहाय तमनेकपथिकलोकप्रहतमुत्पांशुलं मार्गम् , अपरेण पतितशीर्णतरुपर्णनिकरावकीर्णन कान्तारवर्मना प्रयत्ननिहनुतपदपद्धतिः, प्रतस्थे । लवितानेकसमविषमभूधरधराविभागलब्धश्रमश्च तिरश्चीनलुलितरविबिम्बशेखरेण विश्रामार्थमभ्यर्यित इव नतेन किश्चिन्मध्याह्नसमयेनैकत्र पत्रललतागुल्मगुपिले विपुल- 30 सान्द्रच्छायशाखिनि सानुमत्प्रस्थे स्थितिमकरोत् । अतिवाहितलमश्च कश्चितकालमुत्थाय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org