________________
११४
कविधनपाल कृता निर्वर्तितस्नानदेवतापूजश्च पुनरुक्ततर्जितेन गत्वा प्रतीहारलोकेन सत्वरमुपहूतैरनुभूतदुःसहप्रभुवियोगदुःखक्षामतनुमिरवनीपतिभिरन्यैश्च प्रणयिभिः प्रधानपुरुषैः सार्धमाहारविधिमन्वतिष्ठत् । उपस्पर्शनादिकृत्यावसाने सर्वदा स्वकर्मावहितकार्मनिर्मिततार्णमन्दिरोदरास्ती
र्णमध्यास्य शयनीयमपनीय च क्षणमात्रमुपलब्धनिद्रो द्राधीयसा रजनीजागरणेन जनित5 मङ्गजाड्यमीपद्वलितनयनः शयननिकटे समुपविष्ट शय्यापालक तं पूर्वमुपसन्निधीकृत कुमारसत्क लेखमयाचत । ढौकित चोत्थाय सत्वरेण तेन गृहीत्वा गृहीतार्थमपि पूर्वमपूर्वमिव सयत्नमुद्वेष्टय विस्तार्य च पुरस्तात् प्रीतिविस्तारितेन चक्षुषा पिबन्निवोपगृहन्निवान्तः प्रवेशयन्निव पुनः पुनरवाचयत् । अकरोच्च चेतसि-'कुमारस्य लेखोऽयं
स्वहस्तलिखित इति लिपिप्रत्यभिज्ञानात् तावद्वगत, यथा चायमद्याप्यनधिगतगाढपाण्डिम्नि 10 नूतने ताडीपत्रशकले निहितसान्द्रधातुद्रवाक्षरो यथा चावचूर्णितः क्षोदीयसा स्वर्णरेणु
कणनिकरेण दृश्यते, तथा कापि दिव्यजनसंचारोचिते वनोद्देशे कृतस्थितिना कुमारेण लिखितः । किमर्थ पुनरिह स्थानमात्मीयमविशेषेण निर्दिष्टम् ? नूनम् “इष्टोऽहं समरकेतोः, स नामतः प्रकटितेषु निकटवर्तिषु ग्रामनगरादिषु चिहनेषु विगतसंशयो दूरदेशस्थमपि
मामनुसरिष्यति, आपतंश्च प्रकृतिदुर्विलचये दीर्घकालमध्वनि क्लेशमतिमहान्तमासादयि15 व्यति" इति शङ्कितवान् । अहो मूढतास्य ? जानाति स्नेहनिर्भरां मदन्तःकरणवृत्तिम् । न
चेदमवगच्छति यदुत मत्परोक्षे कथञ्चिदप्येष न गृहे स्थास्यति, अविदिताश्रयश्च मदर्शनाशया समुद्रपर्यन्तां पर्यटन्नवनिमतिमात्रमायासपात्र भविष्यति । किं वा ममैतेन चिन्तितेन ? न तावन्मया समादिष्टेनापि शिबिरसंरक्षणाय वनभूमाविह स्थातव्यम् ।
नापि कृमारेण सह निर्गत्य सांप्रतमेकाकिना प्रविश्य साकेतमात्मजप्रवासवार्ताश्रवण20 विक्लवस्य विलपतो देवस्य मेघवाहनस्य मुखं दर्शयितव्यम् , आश्वासनं वा कर्तव्यम् ।
तत् किं वृथैवात्र स्थितेन १ व्रजामि वैताट्यम् , अनुसरन्नमुमेव गजगमनमार्गम् । अन्वेषयामि तदुपान्तवर्तिषु ग्रामेषु नगरेष्वाश्रमपदेषु काननेष्वपरेषु च संभाव्यमानतद. वस्थितिषु रम्यस्थानेषु कुमारम् । अनुज्झिताभियोगस्य सततमन्विष्यतो भविष्यत्यवश्यं
मम क्वापि तद्वृत्तान्तोपलब्धिः । लब्धनिर्गमा निसर्गविमलाभ्यः कलाभ्यः प्रभेव 25 मृगलाञ्छन छन्नमपि तमाविष्करिष्यति विजृम्भमाणा दिग्मुखेषु सद्गुणख्यातिः । कथं
पुनः प्रयातव्यम् ? न तावदनवतयातव्यदेशे दुरारोहशिखरिणि दुःखोत्तारसलिलासंख्यनिम्नगाढये वैताढ्यवर्त्मनि सपृतनापरिकरस्य युज्यते गमनम् । नापि निरुपधि स्वामिभक्तौ कुमारमनुगन्तुमुत्सुके सर्वत एव राजलोके कतिपयाप्तपुरुषकृतसाहायकेन शक्यते
तत् कर्तुम् । तदसंस्थाप्य परिजनमनापृच्छय बन्धुवगमेकाकिना निशीथे प्रस्थातव्यमित्यर्था30 दुपागतम्' इति विहितसंकल्पस्तल्पममुश्चत् । अकरोच्च तत्रैव दिवसे यात्राबुद्धिम् ॥
१५३) अथावबुद्धतदभिप्रायः प्रयाणशुद्धिमिव प्रष्टुमुपससर्प परिणतज्योतिष मतुषारदीधितिमस्तमयरागः । प्रस्थानवन्दनमालाकिशलयानीव ग्रहीतुमवनीतलादग्रशिखरेषु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org