________________
तिलकमञ्जरी
समुद्भूतत्रिस्मयः समासन्नसचिवैः सहालोच्य कर्तव्यमकृतकालक्षेपः क्षितिपालसूनोः प्रतिलेखं स्वयमेवालिखत् । महार्हमणिपीठप्रतिष्ठापित च तं निवेश्य प्रत्यग्रगोमयोपपशुचौ सुरभिकुसुमप्रकरभाजि प्राङ्गणवितर्दिकोत्सङ्गे, गत्वा च सविधमूर्ध्वस्थित एव बद्ध्वा शिरसि करसंपुटमतिस्फुटोच्चारया गिरा सादरमवादीत् । “भो भो मनुष्यलोकविहारिणो दिव्याः ! विधायानुग्रह शृणुत सपरिग्रहस्य मे विज्ञापनां ; येन केनचिद् 5 भरतकुलपक्षपातिना देवेन वा दैत्येन वा विद्याधरेण वान्येन वा दिव्यलोक निवासिना देवतावर प्रभाव लब्धस्य महानरेन्द्रसूनोः सकलविश्वोपकारिणः कुमारहरिवाहनस्यान्तिकादतकिंतमेवानीय लेखमिममनुकम्पितोऽयमेतावान् नृपतिलोकः, स भूयोऽपि भूत्वा सकरुणः साक्षात् प्रकटितस्वाकारो वा नभस्यन्तर्हितो वा श्रद्धेयवाक्यजनवचनसंचारिताक्षरो वा निवेदयत्वेतत् —— कस्मिन् प्रदेशे लेखनिर्दिष्टा सा अटवी १ कं विभागमस्याः कुमारोऽधि- 10 तिष्ठति ? केन वर्त्मना तत्र यात्रा संपद्यते १ इमं च मणिपीठावस्थापित प्रापयतु तत्पादमूलमस्मत्प्रतिलेखम्" इति वारद्वितयमुच्चारितवान् । तृतीयवेलायां च किञ्चिदुच्चरितवचसि तस्मिन्नकस्मादतिदूरवर्तिनो afras पल्लवोत्पीडपिहितनिः शेषशास्त्रासंचयस्य चूतशाखिनः शिखरदेशादवततार शुकशकुन्ति रे कोऽति रे करमणीयाकृतिः । चातिवेगेन, संमुखमवाङ्मुखस्य पश्यत एव तस्य तं लेखमादाय दूव्यात्तविकटकोटिना 15 च चञ्चुपुटेन, झटित्येवान्तरिक्षमुदपतत् । सैन्यपतिरपि उपजातविस्मयः सहान्तिकस्थेन पार्थिवसमाजेन "कोऽयं शुकः ? किमर्थमभ्यर्थनानन्तरमेव तरुशिखरादितः क्षिताववतीर्णः १ किंनिमित्तं च लेखोऽयममुना गृहीतः ? किं वाऽविलम्बितगतिरुदीचीमेव दिशमाश्रित्य प्रस्थितः ? किं परमार्थतः शुक एवायमुत शुकव्याजेन कञ्चिद् दिव्यः ? ” इति कृतानेकविकल्पः स्थित्वाल्पमेव कालं तत्कालमनतिदूरस्थम् " एहि" इत्यन्तिके समाहूय सादर 20 मामवदत् । “भद्र ! परितोष ! गच्छ त्वमविलम्बितगतिरिदानीमेव तमरण्योद्देशं यत्र युवराजसमरकेतुरद्य गृहीतवानावासम् । अगणितायासश्च गत्वा सत्वरं समर्पयान्तर्विसर्पदुद्दामशोकस्य तस्य स्तोकदाहवेदना विच्छेदकारिणममुं कुमारकुशलप्रवृत्तिलेखम् । आचक्ष्व चाखिलक्षोणिपाललोकसमक्षमाश्वासनाय यथादृष्टमेतमप्यादितः प्रभृति सर्वजनविस्मयकर शुकव्यतिकरम् । अति हि भक्तिमानसावनुपलब्ध कुमार कुशलवृत्तान्तो न जाने किं व्य- 25 वस्यति” इत्यभिधाय स्वहस्तेन लेख में समुपनीतवान् | अह ं तु तत्क्षणमेव दृष्ट्वा मुत्थितः समुपस्थितानुगुणशकुनद्विगुणितोद्यमश्चन्द्रमण्डलप्रभाप्रकटितावटस्थाणुतृणगुल्मवल्मीक दावोल्मुकेन पूर्वावलोकितेनेव वर्त्मना विलङ्घयाटवीभविघ्नेन भक्तिनिघ्नजनसुखाराध्यमवन्ध्यप्रसादस्य ते पादपङ्कजमूलमनुप्राप्तः' इत्युक्त्वा विरराम ॥
१५२) समरकेतुरप्युपजातपरमानन्दः प्रीतिनिःस्पन्देन चक्षुषा सुचिरमवलोक्य 30 दत्त्वा च सक्षौमयुगलं सकलमङ्गस्पृष्टमात्मीयभूषणगणं, 'परितोष ! गच्छ स्वावासम्, आयासितोऽसि संततेनामुना वासतेयी प्रयाणेन' इति व्याहृत्य तं लेखहारकं विससर्ज ।
१५
Jain Education International
११३
For Private & Personal Use Only
आगत्य
www.jainelibrary.org