________________
कविधनपालकवा स तेन संभ्रमवता तस्य संभाषणेन कृतकृत्यमात्मानं मन्यमानो भृत्यवत् समुपमृत्य सत्वरकृतप्रणामः अद्य भद्रं मच्चक्षुषा महाभागदेहारोग्यदर्शनेन' इत्युदीर्योत्तरीयपटपल्लवप्रान्तसंयत सयत्नमादाय दक्षिणकरेणाग्रतो लेखमक्षिपत् । सिंहलेश्वरतनयोऽपि त
गृहीत्वा निरीक्ष्य च क्षणं त्ष्णीमेव दृष्ट्वा किमपि हेष्टचेताः सतर्षमर्पितश्रवणस्य 5 शृण्वतः सकलस्यापि राजकस्य स्पष्टवर्णोच्चारया वाचा स्वयमवाचयत् । पाठावसाने
च त पुरोलिखितरुचिरलेखस्वस्तिकमावासगृहमिव मुहुनिरीक्ष्य सस्पृह पांशुकणिकाधूसरितवर्ण गुरुचरणयुगमिवावस्थाप्य शिरसि प्रकृष्ट पुण्योदयासादित प्रधानरत्नालङ्कारमिव वेष्टयित्वा यत्नेन निकटवर्तिनः शय्यापालकस्य हस्ते चकार । व्याजहार च
प्रहर्षपुलकितकपोलोदरः–'परितोष ! कदा कमलगुप्तेनैष लेखः प्राप्तः ? कुतो 10 वा प्राप्तः ?' इति ॥
१५१) सोऽब्रवीत्-'एष विज्ञापयामि । श्रूयताम् । इतो वासरादतीतेऽहन्यपराह्नसमये "नास्ति कुमार" इति विरलविरल प्रवृत्तायामनिष्टवार्तायामाकुलाकुलेषु विशेषोपलम्भार्थमितस्ततो धावत्सु सैनिके पु, शिरोजठरनिष्ठुराभिघातध्वनिघनेषु प्रबलीभवत्सु
प्रतिवेलमवलाजनस्याक्रन्देषु, सविधचारिचारणकरुणगीतोत्थापितप्रेक्षकवृन्दपरमनिर्वेदेषु, 15 मत्तुमुच्चलितेषु वेलावित्तकेषु, हाकष्टशब्दोच्चारमुखरासु वर्णयन्तीषु विरसतां संसार
स्थितेः स्थानस्थानपिण्डितासु पण्डितमण्डलीष्वप्रहततूर्येष्वनारब्धमङ्गलगीतिषु वनाय प्रस्थितेन स्थविरसामन्तलोकेन शोकाश्रुमिरैः पल्वलवारिभिः प्रारभ्यमाणेषु युवराज्याभिषेकेषु, संभ्रान्तवण्ठहठनिरुध्यमाननिजदेहदारणोद्यतदासदारके, चिताभिमुखचलितचेटी
परित्यक्तघालापत्यकटुविलापदलितदयालुहृदयमर्मणि, प्राणनिरपेक्षाङ्गरक्षविक्षिप्यमाणद्रविण20 धावद्रमककुलकृतोदामसमर्दै, दुःखमय इवोद्वेगमय इव विषादमय इव वर्तमाने निवृत्त
गीतनृत्यादिसकलप्राक्तनव्यवहारे स्कन्धावारे, सेनाधिपतिरात्मसदनाजिरोपविष्टः पाववर्तिना प्रयत्नविनिवर्तितात्मशोकेन प्रवयसा प्रधानलोकेन राजसूनोः साधयितुमनपायमस्तित्वमनेकधोपन्यस्ताभिरुपपत्तिभिर्मन्दीक्रियमाणजीवितपरित्यागबुद्धिरधोमुखो धरणि
तलनिहितनिश्चलोद्वाष्पदृष्टिरकस्मादिम लेखमग्रतो दृष्टवान् । “कस्यायम् ?" इति चिन्तयंश्च 25 क्षणमात्रमवलोक्य पृष्ठेऽस्य लब्धप्रतिष्ठानि कुमारनामाक्षराणि जातसंक्षोभो, गृहीत्वैनमु
द्वेष्टयावधार्य च प्रत्यभिज्ञातराजपुत्रलिपिनिवृत्तापरप्रयुक्तिसंशयः शिरसि कृत्वैन शण्वतः सकलस्यापि नरपतिवृन्दस्य प्रहर्षगद्गदवचाः स्वयमवाचयत्-"स्वस्ति । अटव्या महाराजपुत्रह रिवाहनः कुशली लौहित्यकूलावासिते विजयिनि निजस्कन्धावारे युवराजसमरकेतु
कमलगुप्तपुरःसरांश्च राजपुत्रान् सप्रसादमादिशति-अत्रैव कतिचिदिनानि स्थातव्यम् । 30 ताताम्बयोश्च यथा मदपहारवार्ता श्रुतिपथं नायाति तथा प्रयतितव्यम्” इति । संवर्ति
तलेखश्च सर्वतः समवलोक्य “भद्राः ! केनायमानीतः कुमारसत्को लेखः १" इति प्रत्येक लेखहारकानपृच्छत् । यदा च तेषु "मयायमानीतः” इति कश्चिन्नाचचक्षे तदा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org