________________
तिलकमञ्जरी
विगतलक्षणस्य मे भाग्यदोषेण, येन भुवनत्रयख्यातविक्रमस्तस्मादपि करटिकीटादाषद प्राप्तोऽसि,' इत्यादि विलपन् ; विलीननिद्रो विद्राणदेहाति विस्मृतनिजज्ञातिपक्षः स कथमपि क्षपामनयत् । आचकाङ्क्ष च तत्कालमेव कालं कर्तुम् ।।
१४९) अथ समन्ततः प्रदीपितकाष्ठमवगताशयेनेव प्रभातानेहसा प्रकाशितमुदञ्चदर्चिश्चक्रवालं चिताचक्रमिव चण्डांशुमण्डलमवलोक्य संकलितशोकः सकलशर्वरी- 5 जागरणखिन्नानुद्वाप्पचक्षुषः क्षोणिपालानाजुहाव । निकटोपविष्टांश्च तानवनतमुखान् सदुःखमवलोक्य कञ्चित् कालमाबद्धाञ्जलिरुवाच-'भो भो भूमिपतयः ! किमेवमुद्विनमानसास्तिष्ठथ ? किं न कुरुथ प्रस्तुतानि कार्याणि ? कृत भवद्भिः कुमारस्य पुरुषकारोचित यत् कर्तव्यम् ; पृष्ठतः प्रतिष्ठमानैरनुसृतो दिनमशेषम् ; अन्वेषितः प्रेषितपदातितन्त्रैस्तत्र तत्राटवीगहनेषु ; प्रतीक्षितः क्षुत्पिपासापरिक्षीणकार्यरेष्यतीत्याशया मार्ग- 10 देशोपविष्टैरहोरात्रत्रितयम् ; अधुना तु किं कुरुथ ? निधन प्रापितो वः पौरुपावलेपो बलवता देवेन ; दूर गतोऽसौ । तदलमेतञ्चिन्तया ; कुरुत सांप्रतकालोचित' कृत्यम् । अद्यैव कमलगुप्तं पुरस्कृत्य यात साकेतम् । अर्पयताधिकारिणामत्र यत्किञ्चिदर्जित कुमारेण द्रव्यजातम् । आराधयत, मुक्त्वा छद्म, पादपद्मद्वन्द्वं कोशलेन्द्रस्य । मुञ्चत च सर्वात्मना मय्यपेक्षाम् । अहं हि प्रथमदर्शन एव देवेन भृत्यतां कुमारस्य नीतः ; न 15 तद्विरहितेन मया क्षणमपीह स्थातव्यम् । न च प्रवर्तितेन प्रदेशादितः पदमपि प्रतीप गन्तव्यम् । तदनुजानीत मां जीवितपरित्यागाय, यावदद्यापि न शृणोमि कुमारस्य चरमवार्ताम् । यावच्चैष चिरदर्शनोत्कण्ठितो न मे मार्गमवलोकयति तावत् त्वरित एव लोकान्तरगत तमनुगच्छामि ।' इत्युदीर्य चिन्तितचिताप्रवेशश्चरणोत्क्षेपसमकालमुत्थितेन व्योमविवरव्यापिना शिबिरलोकाक्रन्दकलकलेन सूचितगतिक्रमः शैलनिम्नगापुलिन 20 मुद्दिश्योदचलत् ॥
१५०) अत्रान्तरे पुरुषेणानुगम्यमानः प्रविश्य दौवारिको हर्को नाम हर्षगद्गदमवादीत् । 'कुमार ! कुरु दृष्टि दानेनानुग्रहम् । एप परितोषनामा कमलगुप्तसेनापतेरत्यन्तमाप्तो लेखहारकः कुमारहरिवाहनस्य कुशलवार्तामावेदयति ।' श्रुत्वा चेदमाकस्मिकमतर्कितामृतवृष्टिकल्प वचो झटिति विघटिताशेषशोकान्धकारः, पातालपङ्कादिवो- 25 न्मग्नम् , प्रलयघनदुर्दिनादिव निःसृतम्, कृतान्तमुखकुहारादिवाकृष्टम् , महाकालकर कपालोदरादिवोच्छलितम् , तक्षकाशीविषविषवेगवेदनयेवोन्मुक्तम् , अभिव्यक्तोपलक्षिताकाशकालदिग्विभागमवगतात्मीयपरकीयपरिजनमवलोकितासन्नवर्तिसुहृद्वन्धुवर्गमेकहेलोत्तीर्णसर्वाङ्गसंज्वरमुद्वहन्नात्मानमादरग्रहितनयनयुगलो गुरुमिव स्वामिनमिवाराध्यमिव जीवित- । प्रदमिवेष्टदेवतमिव सुचिरमवलोक्य त पुरुषमाहूय संभाव्य चासनदानवचनेन ‘भद्रमुख ! 30 भद्रमसदृशसौहार्दशालिशीलामृतमहोदधेः परमसुहृदः कमलगुप्तस्य' इत्यवोचत् । अथ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org