________________
कविधनपालकृता
११० जठराणि, सत्वरचरणपातपरम्परोत्थापितेनारण्यपथरेणुना पाण्डुरीकृतशिरःश्मश्रुकेशान् , अपक्रान्तयौवनावलेपलब्धान्तरया जरयेवागत्य कवलितान् , अप्रसाधितारब्धकार्यचिन्ता. वान्तपौरुषान् , अभिमुख मुखनिखातदृष्टिमार्गोपविष्टमिष्टस्वामिकुशलवार्ताश्रवणपयुत्सुकं राजकमवलोक्यावलोक्य लज्जया परस्परस्य पृष्ठे निलीयमानारतानपश्यत् ॥
१४७) दृष्ट्वा च दूनचेताः समीपागतानकृतप्रणामानेव पप्रच्छ-'भद्राः । किमाकुला यूयम् ? आयात विश्रब्धम् । अवद्भिरेव युष्माभिरनेन दूरावनतपक्ष्मणा व्रीडाजडविलोकनेन प्रयत्नरक्षितगलाद्वाष्पाम्भसा लोवनद्वयेनैवावेदितमदर्शनं द्विपस्य ; तथाप्यलीकाशया खलीकृतः पृच्छामि किञ्चित् । दृष्टः क्वचिदरण्योद्देशे गच्छतस्तस्योच्छ
न्नमूर्तेमृगाधमस्य गतिमार्गः ?' त एवमनुयुक्ताः समरकेतुना निःश्वस्य दीर्घमायातमनसो 10 मन्युना, प्रणम्य, शनकैः सगद्गद जगदुः–'युवराज ! न केवलं गमनमार्गः, सोऽपि
दुष्टात्मा पापकर्मभिदृष्टोऽस्माभिः । केवलं यद्व्यावर्तनाशया तस्य पृष्ठे प्रधाविताः, यं चान्वेषयभिरनुभूतो दिनत्रयमसावसह्यः क्षुत्पिपासाकृतः परिक्लेशः, यौं चानीय युवराजेन योजयितार इति पुरा चिन्तितमस्माभिः, स नास्ति सकलमे दिनीचक्रचन्द्रमाः कुमारः।'
इत्यभिधाय बाष्पजललवानधोमुखाः समृजुः । युवराजस्तु तदकाण्डकुलिशपाशपातप्रख्य15 माकर्ण्य तेषां वचनमक्रमोपचितेन पूरितः परमशोकेन–'भद्रा ! किमद्यापि कथयिष्यथ ?
श्रुतं श्रोतव्यम् । उपसंहरत वार्ताम् । अतः परमशक्तः श्रोतुमस्मि ।' इत्युदीर्यावच्छाद्य च त्वरितमुत्तरीयवाससा सोत्तमाङ्गमङ्ग, 'हा सर्वगुणनिधे ! हा बुधजनैकवल्लभ ! हा प्रजाबन्धो ! हा समस्तकलाकुशल ! कोसलेन्द्रकुलचन्द्र ! हरिवाहन | कदा द्रष्टव्योऽसि ?'
इति विलपन्नेव मीलितेक्षणः क्षणेनैव निकटोपविष्टस्य खगग्राहिणो जगाम पर्यस्तविग्रह: 20 स्तिर्यगुत्सङ्गम् ।।
१४८) अत्रान्तरे निरन्तरोदितरुदितरवसंभेदमेदुरो दारयन्निव दयालुहृदयानि रोदोरन्ध्रमाचस्कन्द दारुणो राजवृन्दस्याक्रन्दः । तेन च प्रकाममार्तेन बान्धवजनेनेव सत्वरेणोपमृत्य श्रवणमूलमवबोधितः, सधीरमुत्थाय शिथिलितविलापश्चचाल सिंहलाधिप
सुतः शिविरम् । अनुचरावलम्बितबाहुयुगलश्च विगल भिरविरलैरथुपटलैरनवलोकितपथः 25 कथञ्चिदाससाद शयनीयसदनम् । प्रविश्य च क्षितितलावस्थापितकुथास्तरणपर्यस्तदेहो,
निवारिताशेपपरिजनासत्तिरविरतप्रवृत्तिभिः श्वासपवनैरिवाहतेन प्रसरतानुपदमास्पदीकृतो दाहदहनेन, सततबाप्पसलिल मङ्गादामूलमङ्कुरितमिव निःसंख्यतां गत दुःखभारमुद्वहन मानसेन , क्षण निषण्णः क्षणमासीनः क्षण' परावर्तमानो, मनुजलोकावासविद्वेपेण
द्वेषमव्रजन्तीं महीमपतदुपरि, ब्रह्माण्डमदलत् सहस्रधा हृदयम् , अक्षीयमाणमेकक्षणेनायुः 30 पुनः पुनः साधिक्षेपमाक्रोशन् ; 'भ्रातः! विघटितः स ते शुभग्रहदृष्टिपातः. गता वृथात्वमवि
तथा नैमित्तिकादेशाः, क्षीणश्चकवतिलक्षणानामनुभावः , विसंवदितमुदित राज्यलक्ष्म्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org