________________
तिलकमलरी
प्रकटिताकूतानि सत्वराध्यासिताशुगत्वरवर तुरङ्गाणि वेगादधावन्त सवतः पर्वतोपकण्ठावासितान्यनीकनायकवृन्दानि ॥
१४५) समरकेतुरपि तत्कालसंनिहितराजपुत्रपरिवृतः प्रजविनां वाजिनां बलेन कवलयन्निव सपर्वतसरित्तटावटामटवी नितस्ततो दत्ततरलदृष्टिः 'इदमग्रतो धावति दानगन्धावकृष्टमलिपटलम् , इतः श्रूयते विप्रकर्षादनतिपटु घण्टारणितम् , इतः पूर्ण- 5 शशिबिम्बमालाविडम्बीनि वननिम्नगावतारकर्दमे घटितपरिपाटीनि जलभृतानि पदमुद्रामण्डलानि, एतन्मार्गतरुशाखाशिखाग्रे विलग्नमभिनवमृणालतन्तुकलापकोमलमनिलाहत घूर्णति कर्णचामरम् , इदमुभयतः प्रकीर्णमग्रकरपुष्करेण क्षरति पर्यन्तवल्लिपल्लवेभ्यस्तुहिनलवनिकरहारि शीकरबिन्दुजालकम्' इति समासन्नगजगमनशंसिभिः पुरोयायिनां सैनिकानामालापैः कियन्तमपि मार्गमर्पिताश्वासः सकलमपि दिनमटव्यामवहत् । 10 अस्ताचलतटाभिलाषिणि च तिग्मदीधितौ धृताध्वधूपिताश्वतन्त्रैः प्रवर्तितो निवासग्रहणाय राजपुत्रैरेकत्र सुलभतृणकाष्ठसलिले शैलसिन्धुरोधसि स्थितिमकल्पयत् । अतिमात्रमल्पीभूतभूपात्मजपुनदर्शनाशश्च प्रेर्यमाणोऽपि वारंवारमवनिपतिभिराग्रहेण नाहारमग्रहीत् । गृहीतगाढचिन्तामौनश्च दृढसमाधिस्थ इव लक्ष्यमाणः प्रतिक्षणक्षिप्ततप्तायतश्वासपिशुनितासमाधिदेवतास्मरणवन्ध्यां सन्ध्यामत्यवाहयत् । तरुतलप्रसारिते च तुरगपृष्ठास्तरण- 15 चर्मणि निषष्णो विषण्णेनान्तरात्मना चिन्तयन् कुमारमुद्दिश्य तानि तान्यनिष्टानि कथश्चिदपि तामनेककल्पायतैकैकयामां त्रियामामनयत् । उद्गते च दिनपतौ पुरस्तात् प्रतिष्ठासुः प्रष्ठेन सेनावण्ठवर्गेण नास्ति गतिरगतस्तुरङ्गिणामिति निवर्तितो गमनात् तत्रैव क्षणे गमनदक्षमखिलासु दिक्षु सर्वमात्मपदातिबलमवनिपालसूनोरन्वेष्टारमादिष्टवान् । आत्मनापि मार्गतरुमूलवर्ती परिहृतस्नानभोजनादिकर्तव्यो निवृत्तसकलापरव्यापारेण 20 क्षुत्पिपासापरिक्षीणवपुषा परिवृतः प्रधानपुरुषवृन्देन पृच्छन्नादरेण सुहृदुदन्त प्रत्येकमध्वगानादिनान्तमतिष्ठत् । अस्तपर्यस्तमण्डले च कमलबन्धौ बद्धनिर्वेदः कथञ्चिदागत्य वसतिस्थानमधिकमस्वस्थचेताश्चिन्तामयीमिव प्रबलदत्तदाह वेदनावेगदुःसहां सहासन्नवनदीर्घिकाचक्रवाकमिथुनर्निशीथिनीमनयत् । ईषद्विकसितालोक एव च वासवककुभि वासरे विनिःसृत्य वसतेः, पुनस्तदेव पादपमूलमगमत् , अन्धपालयच्च क्षितिपालसूनोावर्त- 25 नार्थमनुमार्गप्रधावितानापतिष्यतो हस्तिपकपुरुषान् ॥
१४६) अथ मुहूर्तावशेषेऽह्नि दूरादेव विद्राणवदनान् , इतस्ततो निहितशिथिलालसपदान् , असतचक्रमणखेदितेन मुक्तानिव जीबितेन, श्वेतायताभिरन्तरान्तरापरिस्रवत्सान्द्ररुधिराभिः खदिरतरुशाखाशिखोल्लेखरेखाभिर्निरन्तरगवाक्षितेन प्रकामरूक्षत्वचा कायेन दुर्गाटवीपर्यटनमनक्षरं व्याचक्षाणान् , सर्वदा व्यायामेन तक्षितानि तदा तु तेन 30 क्षुधा च क्षामतां परामानीतानि क्षीणजीवनोपायानीव प्रकंटवंशपृष्ठमाश्रितानि बिभ्रतो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org