________________
१०८
कविधनपाल कृता १४३) दृष्ट्वा च तमदृष्टपूर्वचेष्टमुत्सृष्टविनयपक्षमकालक्षेपविस्मृतसमस्तचिरकालाभ्यस्तशिक्षमतिशयप्रवृद्धमदमुद्दामकोपमकाण्ड एव व्यालरूपतामापन्नमुत्पन्नविस्मयो विकल्पयन् मनसा तत्तदतिचिरं तस्थौ । अवततार च निवारितसैन्यकोलाहलः कुतूहलेन
तं ग्रहीतुमश्वात् । पुनःपुनरादिष्टपरिचारकचिरोपनीतवीणश्च वेपमानतनुभिः ससाध्वसं 5 दृश्यमानो नृपकुमारैः ‘कुमार ! दारुणो वारणः; स्वल्पे प्रयोजने न किञ्चिदात्मना
संशयमारोपितेन फलम्, अन्यथैव व्यावर्तयितव्योऽयम्' इति निवायमाणोऽपि वारवारमन्तिकस्थेन समरकेतुना, दन्तिन प्रति शनैः शनैरुदचलन् । गत्वा च वञ्चितदृष्टिपातस्तरलतागुल्मगहनान्तरेण तत्समीपमास्फालयामास मनसि विस्फारिताभिमतग्रामरागवासनः
कलितकान्तरत्नकोणया वामपाणिपल्लवप्रदेशिन्या स्थानस्थानसंस्पृष्टतारतन्त्रीगुणां दक्षिणकरेण 10 वीणाम् । उच्चचार च तारतममस्यास्तत्क्षणक्षोभितसकलवनदेवतावृन्दमानन्दमुकुलितदृष्टि
भिर्गलितनिजगीतस्मयैः सविस्मयमाकर्ण्यमानमभ्यणवर्तिपु तरुनिकुजेपु बद्धगोष्ठीमण्डलैः किंनरकुलैर्मन्दरालोडितजलराशिजलमिव स्पष्टमूर्च्छनागमकरचित, प्रभातकालग्रहचक्रमिव दर्शितप्रकाशसर्वस्वरविशेष, मरुस्थलमिव कलमविकलग्रामतानमतिशयितसुरतप्रगल्भ
केरलीकण्ठमणित रणितम् । आगत च तच्छवणगोचरमाकर्णयन्नैकाग्रेण चेतसा स्वल्प15 मध्यकृतवारणः कर्णतालैः कपोलमदपरिमलाकृष्टानामलिगणानां स वारणः श्रान्त इव
सुप्त इव कीलित इव गलितचैतन्य इव क्षणमात्रमभवत् । निःस्पन्दमकलावयवं च तं क्षितितलन्यस्तसरलश्लथकरमपास्तकवलमाबद्धाच्छधवलस्थूलबिन्दुभिः स्रवद्भिरनवरतमानन्दबाष्पैः पारितोषिकप्रदानाय कुम्भमौक्तिकप्रकरमिव मृजन्तमतिचिरमवलोक्य संजान
संमदस्तत्क्षणमेव बद्ध्वा परिकरं क्षिप्रतरपातिभिः पदक्षेपैरुपासर्पत् । दूरविततस्तम्भनिश्चलं 20 च क्रमेण निजमिव प्रासादमतितुङ्गमप्युद्ग्रविकटेन दन्तसंक्रमेणाध्यारोहत । आरूढमात्र
एव च तत्र, स द्विपः सपदि तां विमुच्य वल्लकीरवश्रवणजनितामानन्दनिद्रामुन्मुद्रितलोचनश्चचाल तस्माच्छैलपरिसरात् । 'अङ्कुशोऽङ्कुश' इति श्रुत्वा च सत्वरं कुमार व्याहारमतिरभसप्रधावितैः संभ्रमस्खलितगतिभिरनवरतकृततर्जनैः प्राजनपाणिभिः परि
करवृन्दैः पृष्ठतः कृतानुगमनो गमनवेगोड्डोनसंध्यारागनिभकुम्भसिन्दूरपूरो दूगेच्छलच्छ25 ङ्खलागुणद्विगुणतारटकारेण घण्टाद्वयेन घटिताभ्यर्णवर्तिजनकर्णरोगः, 'एप गच्छति' एप
गच्छति' 'इतो गतः' 'इतो गतः' इति परस्परमुदस्तदक्षिणकरेण दर्शयता सशोकेन राजलोकेनावलोक्यमानो झगित्यदर्शनमगात् ॥
१४४) अथाकर्णितकुमारहरणवृत्तान्तभयसंभ्रान्तानि 'चलत चलत' इति सत्वरादिष्टयथादृष्टसनिकृष्टाश्ववाराणि गमनवेगश्रमश्वाससन्नपदातिसैन्यशून्यीकृतपुरोभागानि 30 दूरविच्छिन्नच्छत्रधारपङ्क्तिस्वशक्तिकृतानुसरणानि केशहस्तैरपि जवानिलप्रसारितकुसुममा
लैर्द्विरदसयमनाय सज्जीकृतवरत्रैरिव, नयनपश्मभिरपि प्रतिपन्नवम॑भिर्दूरोन्मुखैर्वनविभागावलोकनपरिव, चरणैरप्युभयतश्चलितपादकटकैरश्वपार्थेषु निरर्गल वल्गद्भिर्धावमानैरिव,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org