________________
तिलकमञ्जरी
जन्मनः स्वभावमन्मनानविरतमवतरतः कर्णकोटराध्वनि ध्वनिविशेषानवधारयन्तम् , 'इयमृक्षसंकुला वृक्षसंहतिः, एष वनमहिषयूथाधिष्ठितो नधुपकण्ठः, इदमुदरदेशासीनमेदुरवराहमाद्रिगह्वरम् , असावन्तरनिभृतभ्रान्तशरभः शरस्तम्बनिकुरम्बः' इत्युपेत्योपेत्य सरभसमावेदयन्तमवधानदानेन विदधानमनुचरगण कृतकृत्यम् ; उपमृत्य सत्वरकृतप्रणामः . पुष्करो नाम करिसाधनाध्यक्षः स्फुटाक्षरमवादीत् । 'कुमार ! विरमतु विनोदैकफला 5 तावदेषा गीतगोष्ठी, गरिष्ठमन्यत् प्रतिविधेयं राजकार्यम् ; अद्य यामिन्याश्चरमयामे वैरियमदण्डाभिधानः प्रधानदन्ती दिगन्तरव्यापिना घ्राणपथमुपगतेन प्रबोधितो मदगन्धेन सविधचारिणमरण्यवारण रणायानुबध्नन्ननवबुध्यमानो निपुणमन्धकारसंपर्कादध्वन्यतयंमाणगतिरेव कठिनकर्करव्यतिकर कष्टसंचारमतिमहत् कान्तारं प्रविष्ट, दृष्टश्च दिनकरोदये पृष्ठतः पदानुसारप्रधावितैस्तत्प्रतिबद्वैराधोरणगणैः; आरब्धश्च शिबिरमानेतुम् ; न तु. 10 कृतानेकयत्नैरपि पारितो निवर्तयितुम् ; तदेष यावन्नातिदूर याति, दुर्गमं वा वनप्रदेश न विशति, व्यालबहुले वा वन्यद्विरदयूथे न स्थिति बध्नाति, तावदादिश्यतां कोऽपि तद्ग्रहणाय साधनिकः' ।।
१४१) इति ब्रुवाणे तत्र हरिवाहनः क्षणमिव ध्यात्वा 'भद्र ! न किञ्चिदादिष्टे-: नान्येन, वयमेव त व्यावर्तयिष्यामः' इत्युक्त्वा सत्वरस्तरुतलादुत्तस्थौ । शिबिरनिक्षिप्त- 15 कमलगुप्तश्च तत्क्षणादिष्ट परिवर्धकबद्धपर्याणमधिरुह्य प्रधानवाजिनमधिष्ठितापरवरवाजिपृष्ठेन वारंवारमभिमुखचलच्चक्षुषा सिंहलेश्वरसुतेन सार्धमारब्धतत्कालसमुचितसंकथो यथासन्नविनिवर्तितानुयायिमान्यराजलोकस्तोकपदातिबलपरिवृतो मुहुर्निशावृत्त गजगमनवृत्तान्तमावेदयता, मुहुर्मार्गभूमेः समविषमस्थानानि कथयता, मुहुश्चिहूनीकृतैरचलसानुभिनिरन्तरालतरुगहननिहूनुतं यातव्यदेशमुपदर्शयता, सह प्रस्थायिना महामात्रवर्गेण 20 सूच्यमानमार्गोऽभिजवेनाटवीमगच्छत् ॥
१४२) तत्र चाविरलपत्रलतरुणतरुगणे निर्झरिणि विपुलविषमोपलपटलदुःसंचरे शैलेपरिसरे कृतावस्थानम् , अविरतप्रसृतमदजलासारसूत्रिताकालजलदागमम् , अधःकृतप्रलयजलधरस्तनितेन विस्तारिणा कण्ठरसितेन वित्रासितसकलवनचरवृन्दम् , आसक्तवनदन्तिदानपरिमले पुरोवर्तिनि महति पर्वतपादपाषाणे सरोषनिहितोभयविषाणम् , 25 वारंवारमतिदूरोल्लासितेन सरससल्लकीविटपधारिणा करदण्डेन 'दमयितुमकाण्ड एवोद्यताः शमयितव्या मयते दुष्टलेशिका न मे दोष' इति शाखोद्धारमिव कुर्वाणम् , कैश्चिदनवरतकृतनिष्ठुरनिभर्सनैः, कैश्चिन्मधुरवचनघटितचित्रचाटुभिः, कैश्चिदितस्ततो विसष्टलोष्टविसरः, कैश्चिदग्रतः क्षिप्तकोमललतापल्लवकवलैः, कैश्चिदारोढुमध्यासितपृष्ठपीठोपरिस्थपादपशाखैः, कैश्चिद्वद्रुमधः प्रविश्य पातितपादपाशैः, आश्रितदुर्गदेशैरपि त्रासतरलेक्षण. 30 राधोरणगणैः सर्वतो निरुद्ध, क्रोधमिधः मूर्तिमन्तम् , अन्तकमिवोपजातगजविवत्तम्, आरब्धान्धकारातिसमरगजासुरभासुराकारमात्मशरीरसंरक्षणविहस्तैरितस्ततो हस्तिपालकैः सशङ्कमुपसृत्योपमृत्य ढौकिताभिः परिगतमपि वशाभिरवशमिभमद्राक्षीत् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org