________________
१०६
कविधनपालकृता तरङ्गिणीमुत्तीर्य युवराजसमरकेतोभुक्तिः, इतः प्रदेशादारभ्य पश्चिमेन समग्रोऽपि ग्रामनगरग्रामो विलम्भके सेनान्यः कमलगुप्तस्य, इत्येवं च सर्वतो निवेद्यमानमण्डलविभागः ; सविभ्रम इवेतस्ततो भ्रमन्नुत्पाककलमकेदारकपिलायमानसकलग्रामसीमान्तमातपक्लान्तकान्तारमहिषयूथाध्युषितपल्वलोपान्तकृष्णागुरुतरुतलमविरलोद्भिन्नकुसुमगुच्छसप्तच्छद5 विटपिभिर्बद्धविकटाट्टहासमुद्विकासकमलाकरामोदवासिताशामुखभ्रमन्मदमुखरालिमालमुत्ता
लशालिवनगोपिकाकरतलतालतरलितपलायमानकीरकुलकिलिकिलारावयन्त्रितपथिकयात्रमुच्छितपत्रखण्डपुण्ड्रेवुवाटपरंपराभिरामं, कामरूपनाम्ना लब्धव्यपदेशं देशमाससाद । तत्र च प्रतिदिवसमधिकाधिकोपदर्शितभक्तिना प्राग्ज्योतिषाधिपेन प्रतिबद्धगमनः स्कन्धा
वारममुञ्चत् ॥ 10 १३९) आबद्धनिश्चलावस्थितिं च तं चारपुरुषेभ्य उपलभ्य सर्वेऽपि सत्वर
मुत्तरापथनिवासिनो दर्शनार्थिनः पार्थिवाः समाजग्मुः, उपनिन्युश्च निजनिजदेशजातानि जातप्रीतयः प्रधानानि तस्मै प्राभृतानि । प्रारब्धनवनवोपचारसंभृतप्रणयैश्च तैः प्रत्यहमनुगम्यमानः स्निग्धपत्रलतागुल्मगहनेष्वनेकतरुफलरसास्वादजनितनानाशकुनिकुलसौहित्येषु
लौहित्योपकण्ठकाननेषु विचचार । विहरमाणश्च यदृच्छया तेषु तेषु स्थानेषु कृतावस्था15 नानेणकानरण्यमहिषान् मृगपतीन् वराहान् द्वीपिनश्चमरान् द्विपानन्यांश्च नानारूपधारिणः
श्वापदविशेषान् सहस्रशो ददर्श । जातकौतुकैश्च मृगयाव्यसनिभिः क्षितिपतिकुमारैः क्षपणाय तेषामनुक्षणं व्यापार्यत, न च प्रकृतिसानुक्रोशतया शस्त्रगोचरगतानपि तान् जघान । केवलं कुतूहलोत्पादनाय प्रधाननृपतीनामनवरततन्त्रीताडनाभ्यासलघुतराङ्गुलि
व्यापारेण सव्येतरपाणिना स्फुटतरास्फालिततरलवीणस्ततध्वनिश्रवणानिश्चलनिमीलितेक्षणान. 20 र्भकानामपि विधेयांश्चकार । दृष्ट्वा च तांस्तथाविधानुपजातधृतयो विधृत्य ते क्षितिभृतो
निभृतमेव तान् कांश्चिदङ्गदत्तस्थूलकुकुस्थासकान् , कांश्चिच्छिरसि विरचितोच्चकुसुमशेखरान् , कांश्चित् कर्णलम्बितविचित्रवर्णचामरान् , कांश्चिच्छृङ्गकोटिबद्धोत्कृष्टपट्टांशुकपताकान् , कांश्चित् कण्ठघटितवाचाटकनकघण्टिकाभरणान् , कांश्चित् पुच्छनालदोलाय.
मानविपुलपल्लवपूलान् , उदीरितोत्तालकलकलपदातिवलतुमुलतालरवतरलितानेकहेलयवोद25 स्राक्षुः। तैश्च त्रासघशविलोलतारैर्विकृतरूपदर्शनादन्योन्यमप्यसंगच्छमानस्तुच्छजनविस्तारि
ताट्टहासरसमसमञ्जसं दिङ्मुखेषु प्रपलायमानैः क्षणमात्रमाहितोत्कण्ठाभरविरामो राजपुत्रः प्रतिदिवसमक्रीडत् ॥
१४०) एकदा च प्रातरेव तं मृगारण्यमुपगतमविश्रान्तमदकलजलरङ्कुविरुतौ मारुतानीतजलतुषारासारशीतले शिलातलिनि शैलनिम्नगातीरतरुतले निविष्टम् ; अन्तिको 30 पविष्टेष्टसेवकलोकमधिकसुश्लिष्टसंयोजितकलाया नूतनगुणारोपसविशेषलब्धशोभासंपदः
सविलासमङ्कदेशोपवेशिताया प्रियवनिताया इव विपञ्च्याश्चटुलनखकोटिघट्टनावाप्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org,