________________
तिलकमक्षरी
१०५ कौतुकस्य ; कालवशाच विश्रान्तेषु यन्त्राधारागृहप्रवेशेषु, मुद्रितेष्वाचरणचन्दनचर्चाविधिषु, अक्रियमाणेषु कमलकुमुदकुवलयशयनेष्वधार्यमाणेषु हारकेयूरमेखलादिपु मृणालाभरणेष्वनारोग्यमाणासु हृदि जलार्द्रावसंचार्यमाणेषु ससलिलतालवृन्तकदलीपत्रवातेष्वदीयमानेषु करचरणयोरिन्दुमणिदर्पणेष्वनुद्घाटयमानेषु भवनवलभीगवाक्षेषु, द्विगुणदीप्यमानविरहदाहज्वरोष्मणः स्वभावधीरत्वादनवधीरितयथारब्धकार्यस्य, लज्जया निपुणनिगूहितेगिताकारस्य, 5 द्वेष्यमपि ; वेणुवीणाविनोदमादरेण विदधतः, प्रस्तुतामपि विद्याधरविलासवार्तामनावतयतः, प्रेष्ठमपि नाम गन्धर्वकस्यागृहतो, रहस्यपि तदर्पित चित्रपटमप्रेक्षमाणस्य, रूक्षामपि कुबेरदिशि दृष्टिमक्षिपतः, समरकेतोरपि निजावस्थामप्रथयतः, श्रमेऽप्यायतोष्णान् पुनः पुनः श्वासपवनानमुञ्चतः, परमचिन्तायासजन्मना प्रचीयमानेनानुदिनमप्रतिविधेयेन देहक्रशिम्ना कदर्यमानस्य ; ग्रीष्मकालादधिकदुःसहो बभूव वर्षासमारम्भः ।। 10
१३७) अथ प्रोषिते जलदसमये तद्वियोगादनुदिवसमाविर्भवत्प्रबलातपायामभिनवपतिप्रवासदुःखितस्य विरहिणीजनस्य सदृशावस्थमात्मानमिव दर्शयितुमामागतायां शरदि हरिवाहनः सर्वथा गन्धर्वकागमननिष्प्रत्याशस्तिलकमञ्जरीसंततस्मरणजन्मना विक्लवीकृतो गाढमतिदारुणावेगेनोद्वेगेन कथञ्चनाप्यशक्नुवन् गृहेऽवस्थातुम्, एकदा स्वमण्डलावलोकनविषयमात्मनः कुतूहलमुद्दिश्य प्रधानमन्त्रिमुखेन पितरं व्यजिज्ञपत् । 15 अनुज्ञातगमनश्च तेन प्रशस्तेऽहनि समस्तनिजसैन्यपरिवृतो विविधयानवाहनाधिरूढेरुज्ज्वलविदग्धवेषधारिभिः समरकेतुपुरःसरैः सुहृद्भिरनुगम्यमानस्तत्कालशून्येषु नागरिकाजनमनस्सु रक्षणमिव निवेश्य निश्चलं रणरणकमतिभूयसा विभवविच्छर्दैन साकेतनगरान्निरगच्छत् । अवहच वर्मनि प्रतिदिनमविच्छिन्नैः प्रयाणैः ॥
१३८) प्रयान्तं च तं यदृच्छया तेषु तेषु जनपदेष्वासन्नयायी तत्रत्यराज- 20 लोकस्तत्कालोचितैरालापैरकृतनिर्वेदो विनोदयामास । तथाहि-एष निःशङ्कविचरदरण्यगजयूथव्याप्तकन्दरो दूरदृश्यमानोदप्रशिखरश्रेणिना परिगतोपरिस्थनगरः स्थवीयसा प्राकारवलयेन बन्दीकृतानामरिनरेन्द्राणामेकमन्दिर मन्दरकाख्यो दुर्गगिरिः, असावनेकनिकटग्रामपरिसरविसारिमारणिजला शरावती नाम किमपि सेव्यकूला सरित् , एतदुन्मदचक्रवाकवक्राङ्गकुररकारण्डवाकुलमुद्दण्डकमलिनीषण्डमण्डिततीरमंशावतार इव क्षीरजलधेः पुरा 25 दिग्विजयागतेन देवेन खानित सरः, एष दशसीरसहस्रमितसीमा सूर्यग्रहणपर्वणि पूर्वमपवर्जितो मदिरावतीदेव्या सर्वमण्डलग्रामाणामग्रिमो देवाग्रहारः, इदमतिस्निग्धसान्द्रसकलद्रमगहनमुन्मुखैमुनिभिरनुदिनमुदीक्ष्यमाणमार्गापतदतिथिवर्गमनादरप्राप्यसुन्दरस्वादुफलमूलकन्द मन्त्रिणा सुरानन्देन निर्मापित धर्मारण्यम् , इह करालकरिकुम्भास्थिकूटस्थपुटिततलायामचलपरिसरप्रान्तसीमनि समारब्धसमरकर्मणा प्रापितः प्रेतनगर- 30 मुत्तरदिगन्तदण्डनायकेन नीतिवर्मणा हूणपतिः, इमामविच्छिन्नकुङ्कुमकच्छलाञ्छिततीरदेशो
१४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org