________________
१०२
~
~
~
~
कविधनपाल कृता कटाक्षष्टिः १ कस्य सञ्चिताकुण्ठतपसः कण्ठकाण्डे करिष्यति पतिष्यन्त्यास्तद्भुजलतायाः प्रथमसूत्रपातमम्लानमालतीकुसुमकोमला स्वयंवरस्रक ? कः सुजन्मा जन्मफलभूतानि प्रस्थितः सह तया राजपथवर्तिनः सराग पुरजनस्य श्रोष्यति श्रुतिसुखानि प्रशंसावचनानि १ कस्त्रिभुवनलाध्यवरितस्तदध्यासितमधिष्ठितो गजस्क्न्धपीठमाकण्ठमुत्तानिततरल
तारैः पीयमानवदनलावण्यो नगरनारीलो वनैरवतरिष्यति विवाहमण्डपे वेदिबन्धम् ? कस्य 5 कन्दर्पबान्धवस्य तत्क्षणाबद्धकम्प स्वन्नसरल.गुलौ नदीयकरपल्लवे लगिष्यति श्लाव्यशत
पत्रशङ्खातपत्रलक्षणो दक्षिणपाणिः ? पुण्यकारी त परिजनो यः सर्वदा सविधवर्ती स्वास्थानभवनस्थितां विमाननिवहेन गगनं गाहमानामुधिरोधोवनेषु स्वेच्छया संचरन्ती श्रवणागतस्य प्रेयसो विद्याधरराजकन्यजनस्य सरहस्यमखिलं कलाकलापमुपदिशन्तों तामन्वह
पश्यति । अधन्यः खेचरगणो यः प्रकाममनुरक्तोऽपि दूरवर्ती तदृष्टिपातामृतरसस्य 10 रूपमात्रदर्शनतरलितो वृथैव मन्मथव्यथामहमिवोद्वहति । अहो मे मूढता, यदसावायतेक्षणा
भूभिगोचरनृपाधिपात्मजप्रणयिनी भविष्यतीति वार्तयापि श्रुतया हर्षमुट्ठहामि । सत्स्वपि रूपलावण्ययौवनशालिवपरेषु भूपालदारकेषु कालान्तरभुवस्तदनुरागस्यात्मानमेव लक्ष्योकरोमि । क्याहं, क्व सा, क भूमिगोचरस्थ निकेतन साकेतनगर, क दिव्यसङ्गसमुचिता.
चलप्रस्थसंस्थं रथनूपुरचक्रवालम् १ अपि च, विवेकिना विचारणीय वस्तुतत्त्वम् , नोज्झि15 तव्यो निजावष्टम्भः , स्तम्भनीयं मनः प्रसरदपथे, न देयमग्रणीत्वमिन्द्रियगणस्येत्यपि न
गणयामि । असौं पुनरपरा विडम्बना, यदयमात्मा मदनदाहोपशमाय प्रशममार्गमवतारितोऽप्यधोगति रागिणस्तदहियुगलस्यालोचयति, न प्राणिजातस्य ; कदलीस्तम्भतुल्यतां तदूरुपरिणाहस्य विमृशति, न देहनिःसारतायाः; हृदयवासिभिः सङ्गो दुःखहेतुरित्यलब्धविवर
तत्पयोधरद्वन्द्वमवधारयति, न कलत्रपुत्रादिवर्गम् ; मध्यस्थां तन्नाभिमुद्रामभिनन्दति, न 20 भावनाम् ; मधुरं मुखे तदधरप्रवाल ध्यायति, न भोगसौख्यम् ; युगान्तविलुलितक्षीर.
सागरसमं तदक्षिविस्तारमु प्रेक्षते, न संसारम् ; आरोपितानङ्गचापभगुर तद्भलताललितमध्येति, न विधेविलसितम् । अन्या अपि प्रकृष्टरूपलावण्यवत्यः प्राप्तयौवना दृष्टाः क्षितिपकन्याः । अन्यासामपि श्रुतस्तत्त्ववेदिभिरनेकधा निवेद्यमानो विलासक्रमः । न तु
कयाऽपि क्वाप्यपहृतं चेतो, यथाऽनया। कथमिदानीमासितव्यम् ? किं प्रतिपत्तव्यम् ? 25 केन विधिना विनीदनीयेयमनुदिनं प्रवर्धमाना तदर्शनोत्कण्ठा ? कस्यावेदनीयमिदमात्मीय
दुःखम् ? केन सार्धमालोचनीयं कर्तव्यम् ? कस्य क्रमिष्यते तदेशगमनोपायेषु बुद्धिः ? कस्य साहायकेन सेत्स्यति तया सह समागमप्राप्तिः १ अपि नाम देवमनुगुण स्याद् ? एष्यति स विद्याधरदारकः ? न विस्मरिष्यति परिचयम् ? करिष्यति पक्षपातम् १ द्रक्ष्यति मामिह
स्थितम् ? निर्वक्ष्यति वचनवृत्त्या स्वयं प्रतिपन्नमर्थम् ? नेष्यति तदीक्षगगो वरप्रापणेन 30 मत्प्रतिकृति कृतार्थताम् ? कथयिष्यतिशयेन मां गुणवन्तम् ? सापि शशिमुखी तथेति
प्रतिपत्स्यते तद्वचनम् ? भविष्यति मदीयदर्शनाभिलाषिणी ? प्रेषयिष्यति तमात्मानुराग
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org