________________
तिलकमञ्जरी
लोकयन् विद्याधरराजपुत्र्या रूपातिशयमनयद् दिवसम् । अवसिते च वासरालोके संगल त्तिमिरतया मन्दायमानरूपदर्शन सामर्थ्या कथञ्चित् ततो विनिवर्त्य दृष्टिमुत्थाय च यथा क्रियमाणमावश्यकं सान्ध्यमन्वतिष्ठत् । उपस्थिते च प्रदोषे प्रतीष्य कृतसपर्याणां द्विजन्मनामाशिषमारुह्य च सपर्याणां यामकरिणीं करेणुघण्टारवश्रवणगत्वरेण सत्वरं प्रधावता निजगृहेभ्यो गृहीता सिकुन्तकार्मुकेण पदातिसार्थेन सनाथीकृतपुरोभागः 5 पवनविलुलितपूलकाकारम्थूलचूलानामशेषतः प्रज्वलन्तीनां दीपिकानां कनकरेणुकपिलेन प्रसर्पता निरन्तरमा लोकेन समुपजातबालातपसमागममिव राजमार्गतिमिर मुपदर्शयन्नाजगाम राजकुलम् । अवतीर्य च द्वारि संभ्रान्तदौवारिककृतप्रणामः प्रविश्य परिवृतः प्रणयिना राजपुत्रलोकेन, विलोक्य प्रदोषास्थानमण्डपावस्थितं पितरमुपास्य सविनयमास्यनिहितनिभृतेक्षणो मुहूर्तमुत्थाय गत्वाभ्यन्तरं, प्रणम्य दूरानतेन शिरसा प्रतिदिवसमेव दर्शनाभिलाषिणीं जननीमागत्य निजमन्दिर, द्वारादेव विसर्जितानुयायिसेवकजनस्तत्कालविरलपरि- 10 जनप्रचारमप्रमत्तःप्तशस्त्रिपुरुष शतपरिक्षिप्तमातेर्द्वार रक्षिभिर्निरीक्ष्य सम्यक्प्रवेश्यमानतत्कालसेवोपयुक्तकथकगाथकप्रायलोकमस्तोकचन्दनच्छटोप सिक्तमसृणमणिकुट्टिममविरलप्रकीर्णविकचकुमुदेन्दीवरदलोपहार, समारव्वशिशिरोपचारैश्चतुरपरिचारकैः सत्वरमपसारितान्तलत्प्रदीपनिवहमनिल संपातेऽपि स्थैर्येण शिखाप्रपातिनामपि पतङ्गकुलानामप्लोषणेन जनितमुग्धवनिताविस्मयैरकज्जलै लद्भिर्माणिक्यदीपैः समन्तादुत्सारिततमोवितानं, वितान 15 कावलम्बिभिरविरलैर्मल्लिका मुकुलदासभिस्तुहिनकरमयूखैरिव शैत्यमादातुमन्तः प्रविष्टैर्जटालीकृत सकलक्षणप्रभीक्ष्णमापतता परिमलाकृष्टषट्पदकुलेन पर्यन्तोद्यानमारुतेन विस्तारितगवाक्ष विन्यस्तमणिभाजनविलेपनामोदं वासभवनं विवेश ||
१०१
१३२) तस्य चैकदेशे निवेशितमायतविशालं हंसविशदप्रच्छदपटाच्छादितमच्छजललवस्राविणा सुधाधवलेन जाह्नवी पुलिनमित्र फेनपुजेन जनितसांनिध्यं निद्राकलशेन 20 शयनमध्यासीनः, शयनसं निहितासनासीनाभिरनुवेलमार्गेण चन्दनद्रवेण सान्द्रीकृत करपल्लवस्पर्शशैत्याभिर्वारवनिताभिः संवाह्यमानचरणपहवस्त कालापव्याकुलेन चेतसा संस्मृत्य गन्धर्वकालापमुपजातविस्मयश्चिन्तितवान् । 'अहो काप्यद्भुता तस्याश्चक्र सेनदुहितुः शरीरावयवशोभासंपत्तिर्वस्मात् त्रिभुवनातिशायिरूपापि तत्प्रतिकृतिरियं चित्रपटगता रूपल इति निवेदिता तेन विद्यावरदारकेण । यदि च सत्यमेव तस्यास्त्रस्तमृगदृशस्तादृशं रूपं, 25 ततो जितं जगति विद्याधरजात्या | दूरमपवारितो निःसारताप्रवादो निजः संसारेण । प्राप्तमवधिमत्रलारूपकल्पनाशिल्पवै विधेः । स्तम्भितो रम्भादिसरविलासिनीवर्गस्य सौभाग्यः । नित्ता लावण्यगुणगणगणना रतेः । प्रवृत्तः सप्तलो की लोकलोचनानामचिन्तितो महोत्सवः । प्रकटितः प्रलयकालविप्लवः क्षुभितेन सर्वतो रागजलराशिना शृङ्गारिजनस्य । भ्रान्ता चतुर्दशस्वपि भवनेषु भगवतो मकरकेतनस्याज्ञा । न जाने, कस्य सुकृतकर्मणः 30 सत्वरपलायमानतिमिरमार्गप्रभावितशशिप्रभाप्रवाहधवला पतिष्यति वपुषि तरलायता तस्याः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org