________________
१००
कविधनपालकृता कुशलोदन्तमादेश लेख वा कस्यापि योऽस्यां दिशि मया गन्तुमिष्टायामिष्टस्तवाम्ते । वस्तु च व्यक्तिकुरु वचनवृत्त्या यदानेतव्यमेतद्देशदुर्लभं ततः ।' इति ब्रुवाणं च तमासन्नसमु. पनततद्विरहचिन्तासंतप्तमानसः सुचिरमवलोक्य स्नेहगर्भया दृष्टया, स्पृष्ट्वा च पाणिना
प्रणतशिरसमंसदेशे, हरिवाहनः प्रतिव्याहरत्-'गन्धर्वक ! किमहमत्र ब्रवीमि ? सर्वा5 त्मना हृदि निविष्टै विनयवैदग्ध्यमधुरवादितादिभिस्तव गुणैर्गुणरिव गाढमरवतन्त्रतामुपनीतया बुद्धथा प्रवर्तयितुमपार्यमाणा न मे वाणी जिह्वाग्रमवतरति । कथं गच्छेति भद्रमनुजानामि ? किं करोमि ? प्रकृतिरेषा । प्राकृतस्यापि जनस्य जातपरिचयस्य विप्रयोगं न सहते मचित्तवृत्तिः, किं पुनस्वादशस्य येन च संनिधानवर्तिना प्रवर्तते
सुभाषितगोष्ठी, प्रवर्तन्ते विचित्राः कथालापाः, जायते गीतनृत्तचित्रादिषु कलासु व्यु10 त्पत्तिः, आस्वाद्यते नर्मवादश्रवणेन श्रुतिसुखम् , अतिवाह्यते सर्वदा निरातङ्कचित्तैः
काल: १ सत्पुण्ययोगादयत्नलब्धं पुरुषरत्न किमबालिशः कोऽपि शिथिलयति ? तथापि किं क्रियते ? पराधीनवृत्तिस्त्वं न शक्यसे दिवसमपि धारयितुमात्मसंनिधौ । उत्तिष्ठ प्रतिष्ठस्व राजकार्यसिद्धये । मत्कार्य तु भूयो भवदर्शनमपहाय नास्त्यगम्त्यपरिगृहीतायां
ककुभि किञ्चित् । तच्च यदा स्वत एवाभ्युपगतं भद्रेण तदा निरर्थकस्तद्विषयो मम 15 प्रार्थनादरः । ततो देशादस्मद्देशदुर्लभमिदं त्वया समानेतव्यमित्यत्रापि न भवान् व्या
पारणीयः । यतः किमेकेनास्मदेशेन , त्रिभुवनेऽपि यद् दुर्लभं वस्तु तदुपनीतं त्वयेदमपनीतरम्भोर्वशीपुरःसरसुराङ्गनारूपगमस्याः सर्वत एवानवद्यमुपनयता विद्याधरराजदुहितुर्बिम्बम् । अमुनैव कृतकृत्योऽहम् । विरतकौतुकश्च वस्त्वन्तरदर्शने संवृत्तः । ततो
निवृत्तेन मया कर्तव्यमेतदिति यदपि किञ्चिदभ्युपगतं तदपि सर्वदानेककार्यव्यग्रचेतसि 20 भवति नावश्यतया संभावयामि । एतत् तु साभ्यर्थन ब्रवीमि । सविधवर्तिना दूरस्थेन
संपत्संपन्नेन विपदमापन्नेन वा त्वया नैष विरमर्तव्यः सहास्माभिः क्षणमात्रमुपजातो वचनपरिचयः ।' इत्युदीर्य दिव्याभरणवस्तुवस्त्रताम्बूलदानेन तस्मै प्रसादमुपादर्शयत् । उपानयच्च समरकेतुना स्वप्रयोजनसंबद्धमभिलिख्य तक्षणमेव समुपनीतं लेखम् । अब्रवीच्च
तमवधार्थ-'गन्धर्वक ! याऽसौ त्वया गन्धर्वदत्ताभिधाना कुसुमशेखरनरेन्द्रमहिषी सुवेला25 चलानिवृत्तेन काऊच्यां द्रष्टुमध्यवसिता तदीयदुहितुर्भलयसुन्दर्या रहस्युपेत्य सादरमयं समर्पयितव्यः' इति ।।
१३१) अथ 'तथा' इति सोऽभ्युपगम्य दूरानतशिराः प्रणम्य हरिवाहनमाभाष्य च ललाटचुम्बिना पाणिसंपुटेन तत्समासन्नवर्तिनः समरकेतुपुरःसरान् राजपुत्रा.
ननुचराप्तिप्रसादप्राप्तवस्त्रभूषणादिवस्तुकलापो जलमण्डपान्निर्जगाम । विस्मयोन्मुखद्वारस्थ. 30 लोकावलोकितश्च विहगपतिपोत इव पवनवेल्लितोत्तरीयपल्लवप्रान्तपक्षतिरन्तरिक्षमुदपतत् ।
प्रस्थिते च तस्मिन्नगस्त्याश्रमालंकृतां ककुभमारब्धतद्गुणसंकथः स्थित्वा क्षणं क्षोणी पतितनयः स्वावासमगमत् । कृताह्निकविधिश्च विनिविश्य विजने, तमेव सर्वतोऽनवद्यमव.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org