________________
तिलकमञ्जरी
तिलकमञ्जरी । अतोऽस्याः सकलनिजपरिवारवाराङ्गनाचित्रकौशलदर्शनव्याजेन दर्शय निसर्गसुन्दयाकृतीनामवनिगोचरनरेन्द्रदारकाणां यथास्वमङ्कितानि नामभिर्यथावस्थित नि विद्धरूपाणि ; वर्णय च तेषामाहितोत्कर्षया गिरा त्यागसौभाग्यविभवचक्षण्यलावण्यादिगुणगणम् । अचिन्त्या हि देवशक्तिः । एवमपि कृते कदाचित् क्वापि विश्राम्यति चक्षुरस्याः । 'तथा' इति प्रतिपद्य तच्छासनमावेद्य च सविस्त, तत्रैव क्षणे विसर्जिताः 5 सर्वदिक्षु दक्षाश्चित्रकर्मणि समस्ता अपि स्वप्रतिबद्धाः शुद्धान्तसैरन्ध्रीदास्यः ।।
__ (१२९) ' अहमपि तत्र समये समासन्नवर्ती सादरमभिहितः-"वत्स ! गन्धर्वक ! तवाप्ययमेवाधिकारः । केवल सुवेलगिरिवासिनो निजपितुर्विचित्रवीर्य देवस्य पार्श्व त्वमद्य कार्यवशेन देव्या पत्रलेख या प्रस्थापितोऽसि । अतो न शक्यसे वतुमन्यत किमपि । किन्तु कृतराजकार्येण तस्मात् समागच्छता त्वया विज्ञापनीयमिदमस्मद्वचो नभश्चरेन्द्रस्य 10 या सा सकलदाक्षिणात्यसास.न्तमौलिविश्रान्तचरणनखमरीचेः काञ्चीनगरीनायकस्य राज्ञः कुसुमशेखरस्य सर्वान्तःपुरप्रमुखा महादेवी गन्धर्वदत्तेति नामसाम्यादुपजालसंदेहेन रत्नकूटाद्रिबन्धावुदधिजलपरिक्षिपीठे स्वयंभुवि तत्र दिव्यायतनमण्डले विहितयात्रेण रात्रौ सादरं तथाश्रुता देवेन पूर्व सीत् , सैव सा देवस्यात्मजा गन्धर्वदत्ता ; यतो मया देवादेशमन्तरेणापि गत्वा सायं दृष्टा; ममाश्वासिता च सर्वस्य ज्ञातिवर्गस्य कुशलवृत्ता- 15 नावेदनेन ; पृथ्या च विजने वैजयन्तीनगरविप्लवात् प्रभृति सर्वस्तया निवेदितो निजप्रवासवृत्तान्त इत्यवधार्य, कार्यो न देवेन तां प्रति संदेहः इति । अतिबाह्य च तस्य नगरे रात्रिमेका मुद्गते समन्तादुद्दयोतिताशेषदिशि दशशतमरीचौ मेचियित्वात्मानमागत्य काश्चीमुपास्य कञ्चित् काल भर्तृदारिका गन्धर्वदत्तां, क्षिप्रमेवागन्तव्यम् । एष चाधुनैव साधित बहुरूपिणीविद्यश्चित्रमायो नाम विद्याधरः प्रस्थितस्य ते पथि सहायो भविष्यति" 20 इति । तदेतदवश्यकरणीयं राजकार्यमवधार्य धीमता, गन्तुमेवाहमादेष्टव्यो न मनुष्यरूपाणि चित्रकर्मणा निर्मातुं, यम्मादिदानीमत्यन्तगमनोत्सुकोऽहम् । उत्सुकमनोभिश्च कर्तुमारब्धमतिस्थूलमपि कर्म नोपजायते सुसूत्रम् , किं पुनश्चित्तकाग्रतातिशयनिवर्तनीयं चित्रम् ? तदधुना तत्र त्रिकूटाचलकूटचूडामणौ विचित्रवीर्थनगरे काऊच्यां च तावन्मया गन्तव्यम् । अन्तरा च यदि कश्चिदन्तरायो न भविष्यति, ततस्ततो निवृत्तेन नियमा- 25 दिहागत्य पुनरपि द्रष्टव्य मिष्टफलदायकं सकलार्थिकल्पद्रुमस्य ते विमारुणतलं चरणप्रवालयुगलम् । उपदर्शितबहुविकल्पचित्रशिल्पेन च स्थित्वा दिवसमेकमेकाग्रमनसा तथाभिलेखितव्यं यथावस्थितं महाभागस्य रूपं, यथा चित्रपटवर्तिना तेन पुरतो दृष्टमात्रेण सिद्धगारुडमन्त्रेणेव भर्तृदारिकायाः प्रशममुपयास्यति समस्तबान्धववर्गदत्तदुःसहोद्वेगः पुरुपद्वेषविषवेगः ॥'
30 (१३०) इत्युदीर्य जिगमिपुः पुनरुवाच-'कुमार ! दृरे मया गन्तव्यम् , अनुमोदस्व माम् , आदिश च किमपि प्रयोजनं निजमुद्दिश्य यन्मया विधेयम् , प्रणुि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org