________________
तिलकमञ्जरी
प्रकटनाय मत्पार्श्वम् १" इत्यनेकसंकल्पपर्याकुलचेतसः प्रबन्धवर्धमानारतेरनवरत मुक्तायतोनिःश्वासम्य मुहुर्मुहुः पर्यङ्कपरिवर्तनैस्तरङ्गितोत्तरच्छदपदस्य, प्रभातागमन पर्युत्सुकतया प्रदोषेsपि नष्टनिद्रस्य, निशीथेऽपि देवतार्चनाय परिचारकानुद्यमयतः शतयामेव कथमपि क्षपा विराममभजत ॥
१३३) प्रभातायां च शर्वर्यामुधाय निर्वर्तितप्राह्णेतनावश्यकविधिः प्रतिपद्य 5 सविशेष संपादितशोभमभिनवं सर्वाङ्गीणमाकल्पमल्पपदातिबलपरिवृतस्तदेवोद्यानमगमत् । तत्र चातिबहुलपादपच्छाये हंसपदप इक्तिलाञ्छितस्वच्छसुकुमारसैकते संततापतत्कमलरेणुकषायशीतलमरुति मकरध्वजायतनदीर्घिकातीरपरिसरे निषण्णः संनिधानवर्तिभिश्चित्रवियो पाध्यायैरन्यैश्च जनपरम्पराजनित कुतूहलैश्चित्रमवलोकयितुमागतैरा लेख्यशास्त्रविद्भिर्नगरलोकैः सह विचारयन्नविचार्यचारुत्वतत्त्वं तस्याश्चित्रपट पुत्रिकाया रूपमपसारितः परविनोद: 10 पूर्वाह्नमनयत् । उपस्थिते च मध्याह्नसमये यथाविधि विसर्जितायातमान्यलोकः सखेदमुत्थाय चिरनिरोधमन्थरैश्चरणविन्यासैरितस्ततो बभ्राम । गत्वा च सुघटित सोपानसुपमावतारे सरसवानी वीरुधि समासन्ननीरे पुरःसरैरागत्य किङ्करैः समन्ततो विस्तारित - रुचिरपरिवत्रांशु शुचिनि सारखे रोधसि, पुरोधसा संनिधापितप्राज्य पूजोपकरणः समाहितेनान्तःकरणेन कृत्वा देवतार्चनम् उत्थाय गत्वा विविक्ततरमुद्देशं, समनन्तरमेव 15 सत्वरमागतैर्माहानसिऋपुरुषैरुपनीतमतिहृद्यवर्णगन्धसमुत्कृष्टमूल्य संपद्भिः सूपकारशास्त्रोपलब्धैर्यथावसरमुपकल्पितैरनल्प बहुभिर्तवैर्द्रव्य विशेषै रुपस्कृतानेक भक्ष्य लेह्य पेय प्रकारमास्वादयाञ्चकार परिवृतो राजपुत्रैरुरूपवने तत्रैवाहारम् । उपस्य चात्रातधूपधूमवर्तिरुद्वर्तितवदनकरतलः कुरङ्गमदकर्पूरामोदिना चन्दनद्रवेण स्पर्शसंवेदनानन्दमन्दीकृतभुज परिस्पन्दाभिरत्रिरतस्यन्दमान हस्तारविन्दसंपादितान्तः प्रीतिभिः प्रसाधिकाभिरतिमात्रमतिचिरेण निर्वर्तित- 20 कुङ्कुमोद्वर्तनक्रमः शिरसि घटितपाटलाकुसुमसारस्मेर मल्लिका मुकुल मुण्डमालो यथासन्नमुपनीत ताम्बूलकुसुममालानुलेपनैः प्रणयिलोकैः सहारब्धविविधसंकथस्तस्थौ काञ्चिदपि वेलाम् । गते च विरलतां विलीनतापे तपनतेजसि तरलितस्तिलकमञ्जरीसंगमाभिलाषेण तत्कालसमुपस्थितावधैर्गन्धर्वकस्यागमनमार्गमवलोकयितुमभ्यग्रवर्तिनः शिखाग्रचुम्बिताम्बरक्रोमा शैलस्य शिखरमारुरोह ॥
"
Jain Education International
१०३
(१३४) तत्र चोर्ध्वस्थितः पुरस्तादवस्थितस्य प्रेयसोऽन्यतमभृत्यस्य प्रत्यंसमर्पिताङ्गभारो, निवारितातपः त्र्यस्त्रीकृतातपत्रेण छत्रवारेण तत्काललब्धावसरैरवारितैः प्रतीहारलोकेन, प्रविश्य पार्श्वतः स्थितैः प्रणयवाचालैरुद्यानपालैवेद्यमानरामणीयकेषु लतामण्डपेषु तरुषण्डेषु सारणिस्रोतस्सु कृत्रिम नदी सेतुबन्धेषु केलिवापीकूलजलयन्त्रेषु चाभिनवकृतसंस्कारेष्वन्तरान्तरानिक्षिप्तचक्षुरीक्षमाणो दक्षिणाशां तावदास्त, यावदस्तशिखर 30 मगादशिशिरगभस्तिः । स्draraशेषे च दिवसकरधामनि श्यामायमानेषु दिग्भागे
For Private & Personal Use Only
25
www.jainelibrary.org