________________
२७
तिलकमञ्जरी
किं बहुना ? यद्यदवलोक्यते तत् तत् सर्वमपि रूपमस्य चित्रपटस्य चारुताप्रकर्षहेतुः । एक एव दोषो यदत्र पुरुषरूपमेकमपि न प्रकाशितम् । अनेन च मनागसमनशोभोऽयम् । तदधुनाऽप्यस्य शोभातिशयमाधातुं , प्रेक्षकजनस्य च कौतुकातिरेकमुत्पादयितुमात्मनश्च सर्ववस्तुविषय चित्रकर्मकौशलमाविष्कतु युज्यन्ते कतिचिदस्यो नरेन्द्रदुहितुः प्रकृतिसुन्दराणि पुरुषरूपाणि परिवारतां नेतुम् । अविरुद्धो हि कन्यकावस्थायामङ्गनानां मनुष्यसन्निधिः ।' इति व्याहरति हरिवाहने स प्रतिव्याजहार- "कुमार ! युक्तमादिष्टम् । 5 युज्यते तस्य सर्वमेतद् यः सामान्यकन्यकायाश्चरितमालिखति । मया तु नेदं तथा । किन्तु कस्याश्चित् पुरुषविद्वेषिण्या यथादृष्ट रूप विलासचेष्टित च प्रकटितम् । इद चेत्थमेव प्रकाश्यमानमुपपन्न भवति नान्यथा । तेनापरिज्ञानमनवधानमनुचितज्ञतामनभ्यासं चात्र विषये न मे संभावयितुमर्हति माननाहः । यदि पुनः कुतूहल कुमारस्य पुरुषरूपनिर्माणविषयमपि नैपुण्यं द्रष्टुं ततस्तान्यपि दर्शयिष्यामि । सत्वरोऽहमत्र कर्मणि 10 निजेनैव प्रयोजनेन । यदि वा किमन्यैः पुरुष रूपैः ? कुमारस्यैव तावन्मुख्यं मया रूपमभिलेखनीयम् । केवलमनभिलेखने संप्रति कारगं किञ्चिदस्ति, तच्च वर्णयामि संक्षिप्तैरेव वणः। आकर्णयतु कल्याणराशिः ।'
१२६) 'अग्ति वैताठ्ये शैले सकलभारतवर्ष लक्ष्मीविलासतल्पमनल्पकल्पतरुपण्डमण्टि तानेक सार्वर्तुकोपवनरमणीयमनणुमणिगृहप्रभाप्रभावदुर्विभावदिनविभावरिविभागं 15 चतुरङ्गगतमिव सुनिरूपितत्रिकचतुष्कर चन रथनू पुरचक्रवाल नाम विद्यावरनगरम् । तत्र भरतसगरादिराजसदृशो विश्वत्रितयविख्यातकीर्तिर्नीतिशास्त्रनित्यविहितासक्तिय॑क्तशक्तित्रयः शत्रुषइवर्गनिग्रहपरः पराभिभूतभूपतिशतशरण्यो धर्मारण्यपरिसर इव सततमयक्तसंनिधिः संयमैकधनैर्मुनिभिरप्रतिहतविद्यायलो महाबलैरप्यरातिभिरधिपतिः समग्राया अपि दक्षिणश्रेण्या महाभुजपराक्रमश्चक्रवर्ती चक्रसेनो नाम । तस्य शैशवाभ्यस्तनिरवद्यशस्त्रशास्त्रविद्यस्य 20 यौवनारम्भरभसप्रसाधितपूर्वापरपयोधिमर्यादमेदिनीमण्डलस्य नित्यमभिनवानाखण्डलस्येव नन्दनोपवनपादपानासेवमानस्य पञ्चप्रकारानपि विषयानतिक्रान्ते कियत्यपि काले रूपतुलितसकलसुरसिद्धखेचराङ्गनमनेकदेवतोपयाचितशतैरतिशुभस्वप्नसूचितावतारमुदारविद्याधरवंशसंभवायामङ्गलावण्यलक्ष्मीलघूकृतरतिरूपसंपत्तो पत्रलेखाभिधानायां महादेव्यामेकमखिलत्रैलोक्यतिलकस्तिलकमञ्जरीनामधेय कन्यकारत्नमुत्पन्नम् , यस्य रूपलव एष लावण्य- 25 निधिना चित्रपटसंक्रान्तः कृतार्थीकृतो दृष्टिपातप्रसादेन ।।
१२७) 'सा चेयं देवी जन्मदिनमहोत्सवश्रीविश्राणितोभयश्रेणिचरखेचरगणानन्दा, पाश्चालिकाकन्दुकदुहितृकाविवाहगोचराभिः शिशुक्रीडाभिरतिवाहितसर्वलोकस्पृहणीयबालभावा , बहुलेतरपक्षशशिलेखेव प्रत्यहमपरापरासु कलासु परिचयं कुर्वाणा , क्रमेण कुसुमबाणकेलिकानन यौवनमनुप्राप्ता । संप्रति च दृष्टविनयदाक्षिण्यशीलत्रपादिस्त्रैणगुणगण- 30
१३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org