________________
९६
कविधनपालकृता शशिबिम्बदर्शनेऽपि मुकुलितान्युपहसन्निवापाङ्गनिर्गतेन क्षीरशुचिना चक्षुषः प्रभापटलेन मार्गवापिकापुण्डरीकवनानि, पट्टांशुकोष्णीषिणा सहशवर्णतया कूजितानुमितपरिमलालीनषद् पदकुलेन विचकिलमालभारिणा केशभारेण भ्राजमानः , यौवनोपचितसर्वावर वेन प्रांशुना विशदनेपथ्येन सावष्म्भ पदनिक्षेपपिशुनितान्तःपौरुषावलेपेन प्रलघुवेत्रकरण्डिकाक्रोडनिहित. 5 कतिपयताम्बूलबीटकसनाथां दक्षिणेतरांसस्रसिनीमजस्रभुजदण्डदोलनचलाचलामुत्कृष्टकर्पट. प्रसेविकामनतिलम्बां बिभ्रता खगधेनुकामात्रशस्त्रपरिग्रहेण पुरुषेणानुगम्यमानः । कृतोपसर्पणश्च द्वारभूमावुत्थाय सत्वरमाकारितः प्रतीहार्या , प्रविश्य सरभसमभिमुखप्रहितसप्रसाददृष्टेः कुमारस्य प्रकटितादरः , प्रणाममकरोत् ।
१२५) आकारसौन्दर्यातिशयदर्शनोपारूढप्रीतेश्च तस्य किञ्चिदुचोच्चारिताक्षरम् 10 'एहि'इति कृतसंभाषणस्य समीपमुपससर्प । निर्दिष्टसमुचितासनोपविष्टश्च दृष्ट्वा राजसूनोरधः
कृतसकलसुरसिद्धविद्याधररूपमाधुर्यमङ्गसौन्दर्यमुपजातविस्मयः परममन्तःपरितोषमुदवहत् । अभिमुखप्रहितसस्पृहेक्षणेन च स्तिमितमवलोकितस्तेन कृतपुण्यमात्मानममन्यत । स्थित्वा च कश्चित् कालमुपरतवचाश्चित्रपटनिहिनिश्चलनयनमवनिपालतनय विनयवामनशिराः
शनैः पप्रच्छ-'कुमार ! अस्ति किञ्चिद् दर्शनयोग्यमत्र चित्रपटे रूपम् १ उद्भूतरूपः 15 कोऽपि दोषो वा नातिमात्र प्रतिभाति ? अद्याप्यनुपजातपरिणतिश्चित्रविद्यायां शिक्षणीयो.
ऽहमखिलकलाशास्त्रपारगेण महाभागेन' इति । हरिवाहनस्तु त प्रत्युवाच–'बालक ! कि शिक्ष्यते तव । स्रष्टा त्वमस्या जगति विद्यायाः । सुजनतेव स्वभावमधुरा जन्मान्तरशताभ्यासादुपागता तवैषा चित्रगतिः । विनीततायामिवास्यामल्पमेव ते र धुपदेष्टा
गुरुजनः । इदमनेकचम्पकाशोकतिलकतालीतमालमालितकूलमुन्नालकनकाम्भोजशोभिभिर20 ब्जिनीवनैर्दिव्यमिति बालिशैरपि व्यज्यमानमुचितेन क्रमेण परिणाहिनि क्षोणिधरशिखर
पृष्ठे प्रतिष्ठापितमपारपरिसरं सरः । इमान्यतिसुन्दराणि लवलीलतासदनानि पूगगहनानि नागवल्लीपत्रमण्डपकतलकुट्टिमानि च तीरदेशेऽस्य दर्शितानि । असावत्र निर्यत्नचारुणि रत्नवालुकासकते सञ्चरन्ती पादचारेण सहचरीवृन्दपरिवृता, राजनीतिरिव यथोचित
मवस्थापितवर्णसमुदाया , दिनकरप्रभेव प्रकाशितव्यक्तनिम्नोन्नतविभागा , रथाङ्गमूर्ति रिव 25 रुचिगवर्तनाभिः सम्यगभिलिखिता , शिखामणिरखिलस्यापि रमणीचक्रस्य चक्रवर्तिकन्यका ।
एतानि चास्याः परिवारलाकेन प्रचलता पुरस्तरलितानि त्रासाद् विहायस्युड्डीयमानान्युड्डीनानि च साक्षात् सचेतनानीव प्रकाशितानि पक्षिमृगमिथुनानि । सेवाचाटुचतुरश्च निपुणमवस्थापितोऽयमस्याः स्थानस्थानेषु निकटवर्ती प्रवृत्तो निजनिजव्यापारेषु रुचिरवेषो
वारयोपिज्जनः । तथाहि-असावुपरि 'धृतसितातपत्रा गगनमध्यारूढहिमकरेव पौर्णमासी30 रजनिः पृष्ठलग्ना प्रतिपदमिमामनुसरति , एषा सविभ्रमोल्लासितकनकदण्डा प्रावृडिव
सतडिद्गुणा नूपुरध्वनिश्रवणवावितानुत्सारयति गतिमार्गरोधिनो राजहंसान् , इयमुत्क्षिप्तपाण्डुपत्रबीटका समुपसृत्य सत्वरा प्रसारिते तिर्यगुपनयति करतले ताम्बूलमस्याः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org