________________
तिलकमञ्जरी
नलकूबरश्चतुरम्बुराशिवेलावनावच्छिन्नभूमण्डलपतेरेक्ष्वाकक्षोणिपालकुलतिलकस्य त्रैलोक्यनाथेन भगवता पाकशासनेनाप्यनेकशस्त्रिदशसंसदि श्लाघितमहिम्नो महाराजमेघवाहनस्य निजशिरश्छेदसाहसप्रसादितराजलक्ष्मीवरप्रदानलब्ध एकसूनुर्नृत्यगीतचित्रादिकलाशास्त्र. पारदृश्वा हरिवाहनो नाम कुमारः क्रीडार्थमिदमुद्यानमागतः सविध एवास्य मार्गतरुशाखान्तरालेन विरलोपलक्ष्यमाणरतांशुकपताकस्य कुसुमायुधवेश्मनः कल्पितमनल्पेन 5 परिगतं चूतषण्डेन जलमण्डपमध्यास्ते । प्रस्तुतविचित्रकथाविनोदं चैनमागत्यागत्य नगरनिवासिनो वैदेशिकाश्च लोकाः कलासु शास्त्रेषु शिल्पेषु च प्रकाशयितुमात्मनो विचक्षणतामनुक्षणं पश्यन्ति । यदि च कौतुकं प्रयोजनं च दर्शनेन ततस्त्वमपि सज्जो भव । अनुभव भूयसः कालादविकलं जन्मफलम् । अहमेव गत्वा दर्शयामि द्रष्टव्य लोकदर्शनाधिकारनियुक्ता महाभागम् ।" इत्युक्ते मया प्रीतिविकसितेक्षणः स क्षण 10 ध्यात्वा गदितवान्–“वाग्रिम नि ! किमप्यानन्दितोऽहममुना त्वदालापेन । यदि यथावेदितस्तथैवासौ कुमारः, तत् प्रवर्तस्व शीघ्रम् । अस्ति मे महत् प्रयोजनमस्य दर्शनेन । यथा च मम तथाऽस्यापि मदर्शनेन । केवलमिदं कुरु । गृहाण चित्रपटमेनम् । अत्र सप्रयत्नेन भूत्वा लिखितमेकं मया दिव्यकुमारिकारूपमनुरूपपरिवारपरिकरम् । तदस्य कुरु कलाशास्त्रकुशलस्य कौशलिकम् । अहमपि त्वामनुप्राप्त एव ।" इत्यभिधानः 15 संनिधानस्थापितायाः प्रकृष्टचीनकर्पटप्रसेविकायाः सयत्नमाकृष्य चित्रपटमेनमुपनीतवान् ।'
१२४) इति निवेदयन्त्यामेव तस्यां स पथिकदारकः पार्थिवसुतस्य दर्शन पथमाययौ । आजगाम चाभिमुखमस्खलितया गत्या स्वभावपाटल चरणयुगलमङ्गलतासङ्गवेल्लिताभिर्मार्गवल्लिभिर्निजपल्लवकान्तिलोपाशङ्कयेव कुसुमरजसा धूसरीकृतमुद्वहन् , गूढजानुपर्वणा वृत्तानुपूर्वेण प्रेङ्खता पादक्षेपेषु सविलासमूरुदण्डयुगलेन चलित बालरम्भा- 20 स्तम्भमिव तमुद्यानदेशमादर्शयन् , ज्वलदनेकपद्मरागशकलया तानवप्रकर्षादतिकष्टदृश्यमुदरदेशमाविष्कर्तुमुपसंगृहीतप्रचुरदीपयेव तपनीयपट्टिकया गाढावनद्धशुकहरितपट्टांशुक निवसनः, शुष्कचन्दनाङ्गरागसंदेहदायिना हारच्छविपटलेन छुरितोरःकपाटः, स्खलद्विशृङ्खलप्रकोष्ठहाटकवलयवाचालस्य पाणियुगलस्य विलसन्तीभिरुभयतः सलिलधाराधवलाभिनखमयूखसंततिभिरापूर यन्नासन्नतरुलतालवालानि , नीलपीतपाटलैरुजसद्भिरङ्गुलीयकरत्नरागैरनुरागवृद्धये 25 राजसूनोरपरमिव चित्रकर्मनर्म निर्माणमम्बरे कुर्वाणः, सूक्ष्मविमलेन पाटलाकुसुमपाटलकान्तिना शरत्कालदिवस इत्र बालातपेन दूरमाहितच्छायावृद्धिर्धतनेत्रकूर्पासकेन, श्रवणपाशप्रणयिनोरिन्द्रनीलकर्णाभरणयोरधोमुखपातिभिर्मयूखप्ररोहै: पक्ष्मलितपर्यन्ततया समुपजातश्मश्रुलेखोद्भेदमिव वदनमुन् , ललाटपट्टच्छलादुपरि संनिविष्टाष्टमीचन्द्रशकलस्य मुखसरोजस्य म्लानिशङ्कया बालदिनकरेणेव संयोजितमात्ममण्डलैकखण्डमखण्डताम्बूलोप: 30 योगबद्धबहलरागमधरपल्लव दधानो , धीरदृष्टिविक्षेपक्षोभिताभिमुखतेजस्विराजहंसमण्डलः ,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org