________________
कविधनपालकृता राजपुत्रेषु, प्रचलितशिरसि सप्रपञ्चमाकर्णयति सरसतां कथापञ्जरस्य मञ्जीरमुख्ये बन्दिवृन्दे, सहसैव हर्षोत्फुल्ललोचना प्रविश्य प्रतीहारी हरिवाहनं व्यजिज्ञपत्–' कुमार ! युवराजवार्ताद्भुतश्रवणेन पीतमतिचिरं कर्णामृतम् । इदानीमीक्षणामृतं क्षणमेकमास्वाद्यताम् ।' इत्युदीर्य दूरावनतपूर्वकाया दक्षिणेन करेणादाय सादरमुपरितनवसनपल्लवप्रान्तसंयत 5 दिव्यं चित्रपटमुपनिन्ये ॥
१२२) नरेन्द्रतनयस्तु वीक्षितेन सर्वातिशायिना तस्य चारुत्वेन श्रुतेन चास्याः कुतूहल विधायिना विदग्धालापेन जनितप्रीतिगृहीत्वा तमादरेण 'भद्रे ! किमत्र लिखितम् ?' इत्यभिदधानः संनिधाने समासीनायाश्चामरग्राहिण्याः समुपनिन्ये । सलीलवलितभ्रूलताल
क्षिताज्ञया च तया तत्क्षणमेव विस्तारिते पुरस्तात् तत्र निहितदृष्टिरत्युत्कृष्टरूपां रूपिणी10 मिव भगवतो मन्मथस्थ जयघोषणामुदारवेषसविशेषचारुगात्रोमचिरप्राप्तयौवनां कन्य
कारूपधारिणीमेकां चित्रपुत्रिकां ददर्श । विममर्श चादृष्टपूर्वाकृतिविशेषदर्शनदूरविकसत्तारया दृशा त्रिभुवनातिशारिनीमस्याः शरीरावर वसमुदायचारुतामतिचिरम् । अनुपरतकौतुकश्च मुहुः केशपाशे, मुहुमुखशशिनि, मुहुरधरपत्रे, मुहुरक्षिपात्रयोः, मुहुः कण्ठकन्दले, मुहुः
स्तनमण्डले, मुहुर्मध्यभागे, मुहुर्नाभिचक्राभोगे, मुहुर्जघनभारे, मुहुरूरुस्तम्भयोः, मुहु15 श्चरणवारिरुहयोः, कृतारोहावरोहया दृष्टया तां व्यभावयत् । अनुरागभावितमनाश्च
परिवृत्य किञ्चित् तदाकारदर्शनोत्सुकचेतसः समरकेतोः कमलगुप्तप्रमुखानां च प्रधानराजपुत्राणामदर्शयत् । अपृच्छञ्च तां प्रसादप्रहितदृष्टिभरपालिकां-'वज्रार्गले ! कुतः सामासादितभिदमसंभाव्यदर्शनमन्यत्र दिव्यलोकाच्चित्रम् ?' इति ॥
१२३) अब्रवीच्च सा--'कुमार ! विज्ञापयामि, श्रूयतां, यतः प्राप्तमिदम् । 20 इदानीमेव द्वारदेशमशून्यं विधाय कौतुकाकृष्टा द्रष्टुमुद्यानलक्ष्मीमितो गतास्मि ।
सविरमयप्रहितचक्षुषा च तत इतः प्रसन्त्यिा मया सरित्तटासन्नतरुपण्डमध्यवर्तिन्यतिमुक्तकलतामण्डपे तत्क्षणानीतसलिलाद्रनलिनीपलाशकल्पित तल्पमधिशयानो मनसिशय इवातिशयतीवामीशाननयनाग्निदाहवेदनां विनोदयितुमायात एको दर्शनीयाकृतः पञ्चदश
वर्षदेशीयो वैदेशिकः पथिकदारको दृष्टः । पृष्टा च तेनाहमन्तिकोद्देशमागता समुपविश्य 25 द्वारि दर्शितादरेण-"सुन्दरि ! क एषः, कस्यात्मजः, किमभिधानश्च राजपुत्रः, यस्य विधृतातिरुचिरवेवोऽयमितस्ततः संचरति बाह्योऽप्यनुचरवर्गः ?” इति । निशम्य चेदं नूनमवैवायमन्यदेशादागतोऽन्यथा नैवं यदृच्छया पृच्छतीति चिन्तयन्त्या मया प्राञ्जलमेवोदितम्-'भ्रातः ! शृणु । निवेदयाभि एष निःशेषभारतवर्षविख्यातगुणसंपदखिलभूपाल
वृन्दवन्दितपादारविन्दयुगलः सकलविपक्षराजराजयक्ष्मा राजलक्ष्मीनिवासजङ्गमकमलखण्ड30 स्त्यागतृप्ताप्तचारणपरम्पराप्रवृत्तिजनिततीवमन्मथोन्मदाभिरखिलदिङ्मुखख्यातरूपसौभाग्यसंप
द्भिर्दीप न्तरमहाराजकन्यकाभिरनुदिवसमपहार्यमागचित्रफलकारोपितविद्धरूपो रूपतुलित
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org