________________
तिलकमारी
वनमिवोद्विकासमुपदर्शयन्तीम् , अङ्गुलिप्रणयिपद्मरागोर्मिकारागसंवर्धितप्रभासमृद्धिभिः समन्ततः प्रसरन्तीभिरभिनवातपताम्राभिरहिनखमयूखलेखासंततिभिर्दाशरथिशरकृशानुकशि. तत्विषामुदधिविमलतावनानामुज्जीवनाय कुङ्कुमरसवारिकुल्यासहस्राणीव प्रवर्तयन्तीम् , अच्छकुङ्कुमरसपिञ्जरेण ममृणमाणिक्यवलयश्रेणिना जङ्घाकाण्उयुगलेन गिरितटाघातकुण्ठितमणिप्रतिममनङ्गकरिकलभदन्तद्वितयमाक्षिपन्तीम् , उभयथापि परिमण्डलोरुणा द्विधापि 5 निबिड कक्षाबन्धबन्धुरेण नितम्बिना जघनबिम्बेन प्रयत्ननिवसितमप्यदृश्यत्वादविद्यमानकल्प कल्पपादपांशुक कलयन्तीम् , आच्छादितोदरवलित्रयस्य हसितहारीतपक्षहरितिम्नः कचुकारपल्लवस्य चञ्चलतया प्रतिक्षणमवेक्ष्यमाणविपुलनाभिमण्डलां, प्रमृततनुतरङ्गपर्यायो. क्षिप्तपद्मिनीदलोपलक्ष्यमाणसुकुमारावाभिवोद्याननदिकामनन्यजनिवासवेश्मनो जघन- ' मण्डलस्योपरि परिस्फुरन्तीमायतारुणां नाभिचक्रचुम्बिनो हारनायकस्यांशुलेखां विभ्रम- 10 पताकामिव शेमराजिमरकतदण्डिकाशिखरलग्नामुद्वहन्ती, मेरुमत्सरिणा दूरदर्शिताभोगसंक्षोभितसुरासुरेण विन्ध्यगिरिणेव प्रतिदिन प्रवर्धमानेन सानभरेण निरुद्धयमानवदनचन्द्रालोकाम् , अचिगवतीर्णेन निरमदभृता यौवनवनगजेनेव दूरविक्षिप्तस्य लावण्यपयसो वीचिवलये रिव सबुद्बुदैरविरलप्रत्युप्तवम्रोपलगणैः कनककङ्कणैरधिष्ठितकोमलप्रकोष्ठकन्दलाम् , सुदर्शनोपेतेन वैकुण्ठेनेव कण्ठनालेन तुलितशङ्खां, प्रकटितादभ्रविभ्रमेण प्रथम यौवना- 15 वतारमरुता तरलितायतापाङ्गतरङ्ग-योरन्तस्तरच्चारुतारकयोः क्षीरधवलयोरीक्षणमहानदीप्रवाहयोर्जलतुषारजालकमिवोच्छलितमच्छमुक्ताफलस्तम्ब मुभर श्रवणशिखरावलम्बिनं बिभ्राणाम् , अविरलावदातदन्तकुड्मलममलगण्डफलकमनिलविलुलितविनीलालकालिकमनीयमनिभृतभूलताविलासमुन्नतनासावंशमभिनवप्रवालपटलाधर मुत्कलितकालागुरु तिलकशोभमाबद्धनि बिडपुष्पापीडमाक्रीडमिव रतिपतेरुभयकर्णपाशदोलायमानमाणिक्यदन्तपत्रं वदनशतपत्रमुगु- 20 हन्तीम् , उदधिनापि तरङ्गचलिततनुशीकरक्षो जालकेन करविधूतश्वेतचामरेणेवोपवीज्यमानाम् , प्रत्युषसापि गगनमरकतस्थालनिहितदिनकरप्रदीपेन प्रस्तुतारात्रिकेणेव कृतोपस्थानाम् , दिगन्तैरपि दूरमुल्लसितैः साभिलापैरिव प्रतीष्यमाणपटुविलेपनामोदाम् , वेलावनतरुभिरपि विबुद्धशकुनिकृतकोलाहलैरुभूतमदनोन्मादैरिव परिवृताम् , अन्तरिक्षेणापि गलवश्यायबिन्दुना बद्धस्मरस्वेदेनेवोत्सङ्गिताम् , निशान्तमरुताप्याकृष्टकमल केसरचयेन 25 रोमाञ्चिताङ्गेनेवालिङ्गिताम् , मदशक्तिमिव मन्दरान्दोलनात् पलायितां मदिरायाः, निष्यन्दधारामिव मुष्टिनिपीडनाद् विगलितामनङ्गेक्षुचापयष्टेः, द्विरष्टवर्पवयसं दिव्यरूपां कन्यकामद्राक्षम् ॥
[ इति समरके तुनिरूपितात्मवृत्तान्त समाप्तम् ] १२१) इति कथारसाक्षिप्तचेतस स्ववृत्तान्तमावेदयति समरकेतौ, निश्चल 30 पक्ष्मलेखे लिखित इव पश्यति तदीयमुखमभिमुखप्रहितशि सभ्यलोके, श्लथीकृतान्तरकथेष्वाकर्णयत्सु सकुतूहलमन्तरान्तर विस्त रितहर्षकोलाहलेषु कमलगुप्तप्रभृतिषु प्रधान
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org