________________
तिलकमञ्जरी दिक्षु रत्नकूटाद्रिकटकदेशेष्वनुक्षणक्षिप्तविस्मयस्मेरलोचनं तारकमवोचम्-'सखे ! तारक ! लचितो निर्विनमेवास्माभिरेष जलनिधिशैलान्तरालवर्ती सर्वद्वीपसांयात्रिकाणाममार्गो मार्गः । समाक्रान्ता सुखेन दिव्यजनसंचारपूतेयं भूमिगोचराणामभूमिभूभिः । आसादितमिदं सर्वसुन्दरपदार्थानामधिष्ठान स्थानम् । अवलोकितं लोकत्रयतिलकमेतत् सकलकौतुकानामायतनमायतनम् । सर्वथा पुण्यभाजो वयम् । जातं जन्म सफलम् । उत्तिष्ठ 5 तूर्णम् । अनुतिष्ठ सांप्रतं कालोचितं कृत्यम् । उपमृत्य पर्वतनितम्बादितः समाहर प्रत्यग्रविकसितानि संतानकप्रभृतीनां पुण्यपादपानां कुसुमानि, पानीयं च निर्झरादानय स्वादु, येन संपादितपाणिपादशौचाः प्रविश्य पश्यामः पूजयामश्च भगवन्तमन्तः प्रतिष्ठितमस्य देवतायतनस्य देवम् । अत्र हि विलोकिते, साक्षादभ्यर्चिते स्वहस्तेन, स्तुते च परमया भक्त्या महार्थाभिः स्तुतिभिरेषा विशेषतो नः फलवती भविष्यति यात्रा' 10 इति । स एवमुक्तो विहस्य मां प्रत्यभाषत-'कुमार ! सर्व संपाद्यते । किं पुनरिद विज्ञापयामि । कथमिह प्रवेष्टव्यम् १ यत्तावदिदमवलोक्यते पुरस्तादस्य गोपुरप्रतिबद्धमम्बरोत्तम्भिना मणिस्तम्भतोरणेन तिरस्कृततरणिरथसंचार द्वारम् , अनेन योऽवतारः, स दूरमुभयतः प्रसृतेन टङ्कच्छिन्नपर्वतकटकसङ्गिना प्राकारेणव वारितः। यानि त्वस्य पावतः संभवन्ति प्रतोलिकासु क्षुद्रद्वारकाणि तान्यपि नभस्तलनिर्विशेषभित्तेरस्यैव 15 प्राकारस्य प्रकर्षप्राप्तेन स्वच्छतागुणेन दुरुपलक्ष्यतां नीतानि । तदेतदधुना प्राप्तकालम् । अत्रैव स्थिताः प्रतिपालयामः क्षणमात्र, यावदस्माद् देवतायतनात् कोऽपि भूगोचरः खेचरो वा निर्याति, योऽस्मभ्यमस्मिन्नवतरणमार्गमुपदिशति । अस्य चावश्यमभ्यन्तरे केनापि भवितव्यम् । अचिरनिर्वृत्तयात्रोत्सवं हीदमुद्भाव्यते लिङ्गैः । तथाहि-अत्र तुङ्गत्वादधिकसंसृज्यमानसमीरणेष्वपि द्वारतोरणेषु सान्द्ररुचयश्चन्दनप्रवालवन्दनमालाः, 20 प्रत्यग्ररचिताभिश्चीनांशुकपताकाभिः पल्लवितशिखराणि चामीकरचक्रदोलायन्त्राणि, गुणनिकाप्रासादस्य च पृष्ठवेदिकायामिन्द्रनीलमय्यामासादितप्रकटपरभागानि पिशुनयन्ति वारसुन्दरीवृन्दस्य रासविभ्रमभ्रमणमभिनवमम्लानयावकपङ्काङ्कानि पदमुद्रापरिपाटिमण्डलानि । प्रततमास्फालितानां च वादित्राणामारावेण विद्रावितानि त्रासादनासन्नतरुशाखाशिखासु कृतस्थितीनि नाद्यापि निकटीभवन्ति शिखरापकोटरकुलायशायीनि पारापतपतत्रिकुलानि । 25 झङ्कारमुखरितमण्डपद्वारदेशानि च सूचयन्त्यवचूलकुसुमस्रजां प्राचुर्यमग्रतश्चञ्चूर्यमाणानि चञ्चरीकचक्रवालानि । क्रीडारसाक्षिप्तेन च कुर्वताव्यात्युक्षीमितस्ततः कनकशृङ्गैर्भुजङ्गलोकेन क्षिप्तमेतान्यपि क्षरन्ति विरलविरलै बिन्दुभिः कुङ्कुमारण केलिपुष्करिणीनां वारि प्राकारमूलमरकतप्रणालानि' ॥
११८) इति व्याहरत्येव तस्मिन्नकस्मादग्रतो दिगन्तसी, तर्पयन्निव 30 सुधारसस्रोतसा श्रुतिविवरमग्रचञ्चुनिश्चलधृता|पयुक्तशैवालप्रवालयुगपदावलितकण्ठनालमाकर्णितः सोत्कण्ठैरायतनवापीकलहंसैः, सत्वरोपमृतवेलासरित्सारसरसितसंभिन्नेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org