________________
कविधनपालकृता तलशिलासोपानमालेन मूलदेशासीननानारूपजलचरजातिना स्वच्छतातिरेकादात्मकरतलस्थितवदवलोक्यमानापरभागावस्थितपदार्थजातेन शुद्धजातिस्फाटिकनिर्मितेन स्फुटस्फातिना प्राकारमण्डलेन कुण्डलितम् , अमलप्राकारभित्तिलग्नैः प्रतिबिम्बकैरिव निजैरनिलवेल्लितपता
कापल्लवतया प्राप्तुमुन्नतिप्रकर्षमारब्धसेवासमुचितोत्तरीयाञ्चलवीजनैरमरगिरिशृङ्गैरिव सर्वतः 5 परिवृतं हिरण्यमयः सुरप्रासादः, छन्दोविचितिशास्त्रमिव बृहत्या जगत्या भ्राजित, युगान्तदिवसमिव विलसनेकरूपकालीकान्तं, हेमन्तमिव समासन्नशिशिरवातायनालंकृतं, प्रौढवादिनमिवातिविषमपत्रभङ्गविस्मायितप्रेक्षकजनम् , अनेकमाणिक्यखण्डखचितकाश्चनशिलासंघातम् , एकं दिव्यमायतनम् ॥
११६) उपजातविस्मयश्च विस्मृतनिमेषनिश्चलेन चक्षुषा तदवलोक्य सुचिरमकरवं 10 मनसि-'फलाभिलाषिणा पुरुषेण नैकान्तो नीतिनिष्ठेन भवितव्यम् । अभिमते वस्तुनि
दैवं प्रमाणीकृत्य सर्वात्मना प्रवर्तितव्यम् । अनुकूलविधिविहितसाहायकस्य साहसिकस्य सर्वदा शस्यसंपदिवानीतिरनीतिरपि फलति, येन सकलबुधजनोपहासपात्रमेषोऽपि यात्राविधिरीदृशस्य मे नितिलाभस्य कारणं संघृत्तः । यद्यपायभीरुतया नीतिमनुसरन्नाहमेतां
भूमिमागमिष्य, कथमिदं कथापथोत्तीर्णरूपगुणलुप्तसुरपतिविमानकमनीयताप्रवाद प्रासा15 दरत्नमद्रक्ष्यम् , यदवलोकनेनाद्य विनिवृत्तमिवाह्लादकरपदार्थदर्शनकुतूहलं दृष्टेः, उपरत
इवाद्भुतकथाकर्णनादरः कर्णयोः, नृत्यतीव हृदयमन्तः प्रहर्षेण १ पुण्यभाजो जगति, यैः परित्यज्य राज्यमपि, गृहीत्वा पारिव्राज्यमपि, भुक्त्वा फलमूलमयमाहारलेशमपि, विषह्य दुःसहं वनवासक्लेशमपि, अङ्गीकृत्य बान्धवसुहृद्वियोगमपि, प्राप्य पक्षिजातियोगमपि,
कृतस्थितिभिरत्र कालः प्रेयते । वन्द्यवैभवः स कोऽपि भगवान् देवो वा दानवो वा 20 येन सुकृतकर्मणा निर्मापितमिदम् । अस्य हि प्रारम्भसमये प्रवर्तितः प्रथममादरात् तेन
संख्यातीतानां विश्वकर्मणां सर्गनिर्माणाय भगवान् प्रजापतिः ; तदनु गत्वाऽलकापुरीमाबद्धवर्मणा रणपराजितस्य मनुष्यधर्मणः कृतं कात्स्न्येन कोशापहरणम् ; अथ कदर्थितत्रयस्त्रिंशत्रिदशकोटिना समूल एवोत्पाटितः सुरशैल इति निश्चयो मे । न किविश्वकर्म
समारब्धकर्मणा, प्रकारान्तरोपार्जितधनेन, स्थानादन्यतः समाहृतमणिशिलादारुणा, 25 कारयितुमतिभूयसापि कालेन कीर्तनमीदृशं शक्वम् । शके चात्र निष्पाद्यमाने त्रिदिव
शिल्पिनामभीक्ष्णमतितीक्ष्णकोटिभिष्टङ्किकाभिस्तक्ष्यमाणाभ्यः शिखरमणिशिलाभ्यः समन्ततः समुच्छलितानि यानि स्थूलशकलानि तेरेष लम्भितो रत्नाकराभिधान लवणसिन्धुः' ।
११७) इति चिन्तयत्येव मयि तत्कालसत्वरकैवर्तरभसप्रेरिता क्षणेनैव दक्षिणामायतनप्राकारभित्तिमाससाद नौः । आक्रम्य च क्रमेणातिरमणीयमस्याः पर्वतनितम्बसङ्गिनं 30 पूर्वभागमवस्थितायां तत्र क्षणमात्रमतिवाहिताध्वखेदो दिव्यदेवतायतनदर्शनप्रीतमनसम
दृश्यमानुषप्रचारेषु मदमत्तविविधपक्षिकुलबद्धकोलाहलेषु नित्यविकचदेवद्रुमवनामोदवासित
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org