SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ AnnannamrunminAmAnnawwanamoranwwmonomy तिलकमञ्जरी दण्डमायूरातपत्रष्विव द्विरदसारिसदनेषु निद्रायमाणकुमारम् , अच्छिन्नसंतानपवनप्रसारिताभिरतिभास्वरतया दिवापि प्रेजदुल्कादण्डमिव व्योम दर्शयन्तीभिः कल्पतरुरत्नांशुकवैजयन्तीभिः समन्ततो ज्वलद्रथविमानकेतनम् , उदारनेपथ्यधारिणा गृहीतनानाप्रहरणेन विद्यानुभावसिद्धत्वाद् गतेरकृतपदविक्षेपमग्रतः प्रसर्पता समपादस्थितेन पदातिसंदोहेन कृतकलकलं, पृष्ठतश्च वरकरेणुकारूढाभिरुपरिघृतकुन्दधवलातपत्रिकाभिः पुरःप्रधावमान- 5 कनकदण्डोडुमरमायूरच्छत्रमण्डलाभिरुभयतः प्रचलितभुजलतारत्नवलयेन वाराङ्गनोजनेन सलीलमुयमानचामरकलापाभिराप्रपदीनचीनकचुकावच्छन्नवपुषा निजनिजवाहनाधिरूढेन घृद्धान्तवैशिकसमूहेन सर्वतः परिवृताभिरालोहितापाङ्गतरङ्गैर्मन्दतारकापरिस्पन्देलॊचनारविन्दैरनुभूतदीर्घरजनिजागराभिरिव विभाव्यमानाभिरलम्बितालकश्रेणिभिरलुप्तललाटतिलकै. रग्लपितौष्ठमुद्रालक्तकैराननेन्दुभिरसंपादितमनोभधाज्ञाभिरिव ज्ञायमानाभिः प्रधानावरोध- 10 सुन्दरीभिरनुगम्यमानम् , अनतिभूरिपरिवारपरिच्छदम् , उच्चलितमध्वना सुवेलाद्रेः, खेचरनरेन्द्रवृन्दमद्राक्षम् ॥ ११५) दृष्ट्वा चाग्रतस्तं प्रभाराशिमत्यन्तदुरालोकतं चापतन्तमभिमुखं खेचरलोकमुल्लसच्चित्तवृत्तिः ‘प्रवर्तय पुरस्तान्नावम्' इति नियुज्य तारक तत्क्षणमेव चलितस्तेन विस्मयस्तिमितचक्षुषा समस्तेनापि गगनचारिणां गणेन 'कोऽयं, कुतोऽयं, किमर्थमायातः, 15 कथमिहातिदुर्गमायां नगोपकण्ठभूमावेकाकी प्रविष्टः, क्व यास्यति' इति जल्पता परस्परमवलोक्यमानो गत्वा स्तोकमन्तरमधस्तात् तस्य भूधरस्य झटिति दृष्टवान् ; अष्टापदाद्रिशिखरभास्वराकारम् , उत्पातपवनधूननोपजातखेदानां गर्भपातमिव संवर्तकाभ्रविद्युताम् , अनवरतवारिधिसलिलशोषणोत्पन्नजाड्यस्य दाहशक्तिभ्रंशमिव वाडवाग्नेः, अमृतमथनोत्फाल. मन्दरास्फालितस्य रुधिरच्छटोद्गारमिव पारावारस्य, प्रलयपर्जन्यगर्जितोपजनितप्रौढभेदायाः 20 कन्दलोद्भेदमिव पातालस्वर्गवैडूर्यभूमेः, अतुलगारुडगावघटितोदनविकटपीठम् , अध्यासितपीठबन्धमध्यया रसातलत्रिपथगातरङ्गमालयेव गगनमवलोकयितुमुत्पतितया चन्द्रकान्तमणिशिलासोपानमालया विराजितोदारमण्डपद्वारावतारमार्गम् , अनेकमाणिक्यमत्तवारणकभूषि तम् , अनिमेषलोचनाभिरतिशयितविश्वकर्मकौशलं शिल्पनिर्माणमवलोकयितुममरलोकादुपाग ताभिः स्वर्गरमणीभिरिव मणिशिलाशालभञ्जिकाभिरध्यासिताभ्रंकषपुष्परागपाषाणस्तम्भशिख- 25 रम् , उपरि घूर्णन्तीभिरणवोदकपानकालीभिर्बालजलधरलेखाभिरापादिताञ्जनवर्तिकृत्यैवलद्भिरुच्छिखैः पद्मरागकलशैः प्रकाशिताकालदीपोत्सवविलासम् , अविरलोद्गीर्णसुरचापचक्रकृतकलापापलापेषु वज्रमणिशलाकाजालकेषु कूजितानुमितनिलीननीलकण्ठम् , आशामुखव्यापिनि महानीलाश्मयोनेरामलसारकस्य घनदुर्दिनश्यामले प्रभाचक्रवाले बलाकायमानपवनलोलसितपताकम् , आभोगदूरोत्सारितदिशा तपनमण्डलमिवात्मनः कलशतां नेतुमुत्थितेन 30 चुम्बिताम्बरशिखमतिप्रांशुना शिखरेण, विततशिखरश्रणिना सागरवीचिमालास्फालवाचाल१२. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001574
Book TitleTilakmanjari
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy