________________
कविधनपाल कृता
कानि वनानि, वने वने विकचरत्नकुसुमस्तबकतारकितानि कल्पतरुषण्डानि, षण्डे षण्डे बहुप्रपश्चाः काञ्चनलतादोलाः, प्रतिदोलमान्दोलनक्रीडानन्दितानि दृश्यन्ते सततमनवद्यवेषाणि विद्याधरद्वन्द्वानि । अपि च सानो सानो निशम्यते कर्णामृतं किन्नरगीतम् , भृगौ
भृगावाकर्ण्यते निर्झरणझात्कृतमपि स्फीतम् , सरिति सरिति विलसन्ति रत्नवालुकापुलिनेषु 5 चित्राः पक्षिणः, काले काले वाति विस्तारितरतिकेलिरमराणां समीरणो दक्षिणः, प्रदेशे
प्रदेशे चिन्तिते चित्तस्य जायते परा प्रीतिः, वस्तुनि वस्तुनि विभाविते भवति लोचनद्वयस्य द्रष्टव्यदर्शनेच्छानिवृत्तिः । तथा च च्छाययापि पत्रपादपच्छायानामपसरति देहिनामङ्गग्लानिः, गन्धेनापि पुष्पद्रुमगन्धानामन्धीभवन्ति घ्राणानि, वातेनापि चैत्रवातस्य विकटमुद्वहन्ति
वनलताः कुसुमाट्टहासं, वार्तयापि दयितवार्ताया मनसि मानिनीनां करोति मन्मथः 10 स्थानाधिपत्येनावासम् । किं चापरोक्षवर्णनेन ? निर्णेष्यति यथावस्थितं स्वरूपमस्य स्वय'मेवानुभूय स्वामी ।' इति जल्पित्वा जोषमभजत् ।।
११०) अहं त्वकाण्ड एव खण्डितगमनरभसेन तस्यानेन वचसानवसानेन पथापि जनितव्यथः 'कष्टं, न लेशोऽप्यभिलषितसंपत्त्या सुखस्य संजातः, क्लेश एव केवलमनु
भूतः' इति भावयन् भूतगाढोद्वेगतस्तत्क्षणमधोमुखोऽभवम् । अदत्तोत्तरश्च तस्मै तदाकस्मि15 कमालोच्यालोच्य चापलमात्मनो, मनसि जातहासो विस्मयत्रपाविषादानां युगपदास्पदता
मगच्छम् । अकरवं च जातपरमानुतापश्चेतसि—'हन्त, कस्मान्मया मिथ्याकुतूहलतर लितेन सहसैव तूर्यरवमुपश्रुत्य धावता शिशुनेव लघुतां परामात्माऽऽनीतः १ किमित्यचिन्तितात्मविनिपातदुःखेन शिखरिणेव कुलिशपातभीरुणा संचरदनेकदुष्टग्राहदुरवगाहो महासमुद्र
कुक्षिरवगाढः १ किमनिवारितेन्द्रियवृत्तिना बालतपस्विनेव निष्फलोऽनुभूतः शीतवाता दिजनितः 20 कायक्लेशः ? कुतो ममेदमनुपदिष्टमशिक्षितमनभ्यस्तमचिन्तितमेवाद्य चापलमाविभूतम् ?
अहो चश्चलस्वभावता चित्तपरिणतेः। अहो विकारबहुलता तारुण्यगतेः । अहो दुःखदायकत्वं सुखाभिलाषाणाम् । अहो व्यसनदानवैदग्ध्यमनधीनतायाः । अहो कार्यपरिणतिविचार विद्वेषो दर्षोद्रेकविलसितानाम् । अहो मतिविपर्ययप्रदानतात्पर्य देवप्रातिकूल्यस्य । तस्य तादृश
स्य तातप्रयत्नस्य, तस्य विद्याभ्यासस्य, तस्य नीतिशास्त्रश्रवणस्य, तस्य हेयोपादेयतत्त्वपरि25 ज्ञानस्य, तेषां वृद्धोपदेशानां, तस्या विदग्धजनसंगतेः, तस्य च निसर्गसिद्धस्येन्द्रियवर्ग:
संयमस्य कीदृशो विपाकः संवृत्तः ? किमिदानीमस्य पृच्छतः प्रतिवचनं प्रयच्छामि ? किं कर्तव्यमुपदिशामि ? स्वयं च किं करोमि ? कथमयमवश्यमारब्धं मया निवर्वोढव्यमिति बद्धनिश्चयेनापि निरवधौ पयोधावनधारितायां गन्तव्यभूमावनिश्चिते. द्रष्टव्यस्तुदर्शने
क्लेशायासलाभाय वराकः पुरः प्रवर्तयितव्यः ? कथं च गमनं निवारयतः पूर्वमस्य 30 बचचमनादृतमिदानी बहु मन्तव्यम् ? कथं चास्थिरस्वभावतया सरभसप्रधावितेन
भूमिमियतीमागत्य भग्नमनसा तीरादर्शिशकुनिनेव पश्चान्निवर्तितव्यम् ? निवृत्तेनापि कथमयमनेकविकटावर्तशतसंकुलः सर्वतो विशृङ्खलप्रचारैर्दुष्टजलचरैः पदे पदे प्रस्खलितयान
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org