________________
तिलकमारी
दन्दशूकैः ; सकुलक ! विधेहि वेदोद्धारिणः शकुलस्य केलिम् , उद्धर कूलपङ्कमग्नमूलामिमां नावम् , अधीर ! माऽवधीरय मद्वचः, विचर निराकुलो, नक्रवसयाऽञ्जितलोचनस्य स्थलं ते सकलमम्बुधिजलं ; शम्बूक ! बाढं प्रचलायसे, न चेतयसि ग्राहेणापि गृह्यमाणचरणः चेतसि, कृतं वैलक्ष्येण, क्षालय क्षारेण सामुद्रेण वारिणा वारं वारमास्य, यास्यति द्रागेव निद्रा सहेक्षणाभ्यां क्षयं ; राजिलक ! तर्जितोऽपि नोपरमसि, प्रगुणयायिनीमपि 5 नावमागस्ती गतिं ग्राहयसि, अस्ति कचिन्न ते दिङ्मोहः, यद्युदाहृतामप्यहृदय ! न जानास्युत्तराशावर्तनी प्रवर्तनी प्रवर्तय दृष्ट्वा दृष्ट्वा सप्तर्षिमण्डलम्' इत्यादि साध्वसकर च कर्तव्योपदेशपर सप्रार्थनौं च सपरिहास च जल्पताऽवसरेषु, नीयमाना, क्वचिच्चिरकालसंगलनसान्द्राणि कदाचिद प्रदलितानि यानपात्रैः पाटयन्ती शुकहरितशैवलपटलानि, क्वचित् सांयात्रिकप्रचारविरहादतिस्फीततां गतैरहरहः स्फुटतां शुक्तिसंपुटानां मुक्ताफलै- 10 निरन्तरनिचितेषु सैकतेषु सुखप्रसुप्तानि प्रबोधयन्ती जलमानुषमिथुनानि, क्वचिद् दूरत एव श्रूयमाणमुखरपक्षिरवाणि संभ्रमोत्पतनसविशेषविततदेहायामानि जलनिधिमध्यशायीनि शैलतरुपण्डेषु पिण्डयन्ती भारुण्डाण्डजकुलानि, स्वल्पेनैव समयेन दूरं जगाम । प्रगुणवातप्रेरिता च वजन्ती तत्रातिर्धेिऽपि वारिधेरध्धनि गगन इव मेघलेखा प्रायशो न क्वचिच्चस्खाल, प्रदक्षिणीकृत्य च क्रमेण तं क्षितिध्रमभिमुखीबभूव तस्य तूर्यशब्दप्रभवस्य 15 पर्वतोदेशस्य ।।
१०९) सोऽपि प्रदेशसतां दूरादेव दर्शितोव॑ध्वजभुजामात्मानमिव संज्ञया दर्शयन्तीमन्तिकागतां विज्ञाय सद्य एव तं वाद्यशब्दं कदाचित् तारं कदाचिन्मन्दमुच्चरन्तमच्छिन्नसंतानमाहानशब्दमिव संजहार । विरते च वादिनिःस्वने सन्नगमनोद्यमोऽपि पुनराकर्णनाशया तथैव तारकः स्तोक गत्वा सस्वरमाचकर्ष नावम् । उवाच च विगतहर्षः- 20 'कुमार ! विश्रान्त एष तावदत्रैव प्रदेशे मार्गदेशकोऽस्माकमातोयध्वनिः । आज्ञापय किमधुना कर्तव्यम् । किमेवमेव बद्धवेगा पुरस्तादबद्धलक्षमेव प्रवर्त्यत इयं नौः, उत पश्चान्निवय॑ते ? यावश्यमेव पुरः प्रयातव्यं द्रष्टव्यं च कौतुकमिति निश्चयः कुमारस्य, तन्न किञ्चिद् विलम्बेन विचारेण वा कृतेन प्रयोजनम् । अनेनैव पर्वतनितम्बावलम्बिना मार्गेण गम्यते' यावत् किमपि दृष्टम् । अथ न किञ्चिद् गतेन दृष्टेन वा कौतुकेन 25 साध्यसिद्धिरिति बुद्धिस्तदलमात्मना वृथैव क्लेशितेन । प्रस्थीयते स्थानादित एव प्रतीपं, गम्यते शिबिरम् , आश्वास्यते सर्वतस्त्वददर्शनेन विक्लवीभूतो भृत्यबान्धवमित्रलोकः, क्रियन्ते प्रस्तुतानि राज्यकार्याणि । कौतुकानि त्वपर्यवसानायामत्र दप्डयात्रायामदृश्यपारे भगवत्यकूपारे विचरतो यहच्छया कुमारस्य पदे पदे सुलभदर्शनानि । किं च तैः ? अयमेव हि तावदवधिर तानां निदर्शन दर्शनीयानां संकेतशाला कुतूहलकारिणां युज्यते रत्नकूट- 30 शैलः कथमपि प्रसङ्गहष्टो द्रष्टुमनुग्रहीतुं च सपरिग्रहस्य विविधक्रीडाभिः । अत्र हि पदे पदे सुन्दरतया सुरलोकस्यापि जनितव्रीडानि. क्रीडास्थानानि, स्थाने स्थाने सर्वर्नु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org