________________
कविधनपालकृता गमनायासदोलायमानध्वजध्वनितकिङ्किणीनिबद्धोधुरविरावां नावम् । प्रावर्त यच्च प्राचेतसेन मसृणमसृणमनुसृततूर्यनिस्वनो दिक्पथेन । प्रस्थितायां च तस्यां सहसैव स्पन्दिताधरपुटमचिरभाविनमानन्दमिव मे निवेदयामास दक्षिण चक्षुः । आश्चर्यदर्शनत्वरयेव सर्वतो विभाव्यमानरम्यरोमोझेदमश्वमिव जात्यमनिमित्तमेवारुरोह हर्षप्रकर्षमन्तरात्मा । हृदय. 5 प्रसर्पदुद्दामहर्षोत्थापितश्च किञ्चित् सशेषनिद्र इव प्रारभत जम्भितुमायताध्वपरिश्रमप्रसुप्तो गमनोत्साहः ॥
१०८) अथ सा स्वभावधीरेण, सम्यगभ्यस्तयानपात्रप्रचारकर्मणा यथाविभागमवस्थितैः, स्थैर्यवद्भिरन्तिकस्थसकलरवोपकरणैरमूढबुद्धिभि विधुरेषु, पञ्चषैः कर्णधारैरात्मनः
सहायीकृतैरनुगम्यमानेन, सर्वतो दत्तसप्रयत्नदृष्टिना रक्षता निपुणमद्रितटसंघट्टम् , 10 अनुवेलमीक्षमाणेन सुश्लिष्टबन्धानपि फलकसन्धीन् , निरुन्धता तूर्णमूर्णासिक्थकेन सूक्ष्ममपि
विवरेभ्यः क्षरत्तोयमनुक्षणम् , अनिलसंक्षोभेषु नूतनाः संयोजयता रज्जूः; अजर्जरस्यापि वारंवारमापादयता सितपटस्य पाटवम्-'इतश्चक्रम्यते मकरचक्रम् , इतः परिक्रामति नक्र. निकरः, इतः सरति शिशुमारश्रेणिः, इतः प्रसर्पति सर्पपङ्क्तिः , उत्सर्पयत दीपिकाः, प्रकाशयत
सर्वतो मार्गम् , अपसारयत निकटचारिणो दूरं दुष्टजलचरान् ; अयमनुप्रस्थमचलस्य 15 चटुलवेल्लितलाशूलवल्लिरावल्लूरशङ्कया रतांशुकपताकासु पातितदृष्टिरुत्पित्सुरिव चेप्टते
सिंहमकरः, किरत रहंसाभिमुखमस्य पयसि ज्वलन्तीरग्नितैलच्छटाः ; इदमकस्मादस्मदवलोकनक्षुभितमुत्त्रस्तकलभसंवरणविहस्तयूथपं तीरशायि जलहस्तियूथमग्रपथेन पाथोनिधिमवतितीर्षति, त्वरितमुत्सारयत युगपदाहितेन हस्ततालशब्देन दूरम् ; असौ रसातलात्
सद्य एवोन्मनो वनाग्निधूमिकामषीकल्माषपक्षसंपुटैः शिखरिभिरधिष्ठितपृष्ठभागो मठ इव 20 सपारापतः संचरति कमठो, मा प्रतिष्ठध्वमभिमुखमेष निकषा प्रस्थितो नेष्यत्यपथेन नावम् ;
असावपि विदारितगिरिकन्दराकारतुण्डो मानदण्ड इव सागरस्य ग्रासीकृताक्रन्दज्जलकरि• जटालवदनैर्बालमत्स्यैरनुसृताभिर्मत्सीभिरनुगम्यमानो मृगयते निजग्रासोचितं सत्त्वं सत्वरमितस्ततः स्तिमितया गत्या तिमिङ्गिलो, मा विधत्त कलकलं, यातु निभृतमेव, विकृत एष
महतेऽनर्थाय ; कच्यतामयमतिचटुलवीचिवेगाकृष्टैर्धमद्भिरन्तःकुलालचक्रक्रमेण रिक्तोदर25 लघुभिरभैरावेदितो द्वारमिव रसातलत्य वामतः समीपवर्ती शीघ्रमावर्तो; लङ्घयतामयमपि
क्षेपीयः क्षयसमयसन्ध्यानुरञ्जिताम्बरैकदेशविडम्बी दक्षिणतः प्रतिक्षणमुदश्चता फणचक्रवालरत्नरागपटलेन क्रमनिपीतकल्लोलकालिमा पातुमनिलमुद्यतस्य कस्यचिन्महाहेरुद्गमनशंसी सागरोद्देशः, तटमिव पुरस्तरङ्गैरुल्ललद्भिद्भाव्यते; कुरुत वंशक्षेपमन्तर्वारि, दुर्वात इव
दृश्यते, मुकुलयत सितपटरज्जुजालम् ; अग्रतो विसारिमत्स्य इव वहति, लम्बयत 37 नागरानविलम्बितं ; मित्राणि ! मन्दोऽतिमात्रं मरुत् , प्रलम्वैर्बाहुभिर्वाहयत सत्वरमरित्राणि ;
मकरक ! मनागुदञ्चय मार्गतटरुहश्चन्दनतरोरस्य तिरश्चीमुपरिशाखाम् , मूर्ख ! किमधो. मुख स्थितोऽसि मुधा, बधान हस्त एनं मण्डूकमस्तकमणिम् , अवश्यं न दश्य से
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org